ॐ नमः सामरूपाय सामध्वनिवराय च ॐ नमः सामसौम्याय सामयोगविदे नमः
साम्ने च सामगीताय ॐ नमः सामधारिणे सामयज्ञविदे चैव नमः सामकराय च
नमस् त्व् अथर्वशिरसे नमो ऽथर्वस्वरूपिणे नमो ऽस्त्व् अथर्वपादाय नमो ऽथर्वकराय च
ॐ नमो वज्रशीर्षाय मधुकैटभघातिने महोदधिजलस्थाय वेदाहरणकारिणे
नमो दीप्तस्वरूपाय हृषीकेशाय वै नमः नमो भगवते तुभ्यं वासुदेवाय ते नमः
नारायण नमस् तुभ्यं नमो लोकहिताय च ॐ नमो मोहनाशाय भवभङ्गकराय च
गतिप्रदाय च नमो नमो बन्धहराय च त्रैलोक्यतेजसां कर्त्रे नमस् तेजःस्वरूपिणे
योगीश्वराय शुद्धाय रामायोत्तरणाय च सुखाय सुखनेत्राय नमः सुकृतधारिणे
वासुदेवाय वन्द्याय वामदेवाय वै नमः देहिनां देहकर्त्रे च भेदभङ्गकराय च
देवैर् वन्दितदेहाय नमस् ते दिव्यमौलिने नमो वासनिवासाय वासव्यवहराय च
ॐ नमो वसुकर्त्रे च वसुवासप्रदाय च नमो यज्ञस्वरूपाय यज्ञेशाय च योगिने
यतियोगकरेशाय नमो यज्ञाङ्गधारिणे संकर्षणाय च नमः प्रलम्बमथनाय च
मेघघोषस्वनोत्तीर्णवेगलाङ्गलधारिणे नमो ऽस्तु ज्ञानिनां ज्ञान नारायणपरायण
न मे ऽस्ति त्वाम् ऋते बन्धुर् नरकोत्तारणे प्रभो अतस् त्वां सर्वभावेन प्रणतो नतवत्सल
मलं यत् कायजं वापि मानसं चैव केशव न तस्यान्यो ऽस्ति देवेश क्षालकस् त्वाम् ऋते ऽच्युत
संसर्गाणि समस्तानि विहाय त्वाम् उपस्थितः सङ्गो मे ऽस्तु त्वया सार्धम् आत्मलाभाय केशव
कष्टम् आपत् सुदुष्पारं संसारं वेद्मि केशव तापत्रयपरिक्लिष्टस् तेन त्वां शरणं गतः
एषणाभिर् जगत् सर्वं मोहितं मायया तव आकर्षितं च लोभाद्यैर् अतस् त्वाम् अहम् आश्रितः
नास्ति किंचित् सुखं विष्णो संसारस्थस्य देहिनः यथा यथा हि यज्ञेश त्वयि चेतः प्रवर्तते
तथा फलविहीनं तु सुखम् आत्यन्तिकं लभेत् नष्टो विवेकशून्यो ऽस्मि दृश्यते जगद् आतुरम्
गोविन्द त्राहि संसारान् माम् उद्धर्तुं त्वम् अर्हसि मग्नस्य मोहसलिले निरुत्तारे भवार्णवे उद्धर्ता पुण्डरीकाक्ष त्वाम् ऋते ऽन्यो न विद्यते
इत्थं स्तुतस् ततस् तेन राज्ञा श्वेतेन भो द्विजाः तस्मिन् क्षेत्रवरे दिव्ये विख्याते पुरुषोत्तमे
भक्तिं तस्य तु संचिन्त्य देवदेवो जगद्गुरुः आजगाम नृपस्याग्रे सर्वैर् देवैर् वृतो हरिः
नीलजीमूतसंकाशः पद्मपत्त्रायतेक्षणः दधत् सुदर्शनं धीमान् कराग्रे दीप्तमण्डलम्
क्षीरोदजलसंकाशो विमलश् चन्द्रसंनिभः रराज वामहस्ते ऽस्य पाञ्चजन्यो महाद्युतिः
पक्षिराजध्वजः श्रीमान् गदाशार्ङ्गासिधृक् प्रभुः उवाच साधु भो राजन् यस्य ते मतिर् उत्तमा यद् इष्टं वर भद्रं ते प्रसन्नो ऽस्मि तवानघ
श्रुत्वैवं देवदेवस्य वाक्यं तत् परमामृतम् प्रणम्य शिरसोवाच श्वेतस् तद्गतमानसः
यद्य् अहं भगवन् भक्तः प्रयच्छ वरम् उत्तमम् आब्रह्मभवनाद् ऊर्ध्वं वैष्णवं पदम् अव्ययम्
विमलं विरजं शुद्धं संसारासङ्गवर्जितम् तत् पदं गन्तुम् इच्छामि त्वत्प्रसादाज् जगत्पते
यत् पदं विबुधाः सर्वे मुनयः सिद्धयोगिनः नाभिगच्छन्ति यद् रम्यं परं पदम् अनामयम्