नमो अनन्ताय सूक्ष्माय नमः श्रीवत्सधारिणे त्रिविक्रमाय च नमो दिव्यपीताम्बराय च
सृष्टिकर्त्रे नमस् तुभ्यं गोप्त्रे धात्रे नमो नमः नमो ऽस्तु गुणभूताय निर्गुणाय नमो नमः
नमो वामनरूपाय नमो वामनकर्मणे नमो वामननेत्राय नमो वामनवाहिने
नमो रम्याय पूज्याय नमो ऽस्त्व् अव्यक्तरूपिणे अप्रतर्क्याय शुद्धाय नमो भयहराय च
संसारार्णवपोताय प्रशान्ताय स्वरूपिणे शिवाय सौम्यरूपाय रुद्रायोत्तारणाय च
भवभङ्गकृते चैव भवभोगप्रदाय च भवसंघातरूपाय भवसृष्टिकृते नमः
ॐ नमो दिव्यरूपाय सोमाग्निश्वसिताय च सोमसूर्यांशुकेशाय गोब्राह्मणहिताय च
ॐ नम ऋक्स्वरूपाय पदक्रमस्वरूपिणे ऋक्स्तुताय नमस् तुभ्यं नम ऋक्साधनाय च
ॐ नमो यजुषां धात्रे यजूरूपधराय च यजुर्याज्याय जुष्टाय यजुषां पतये नमः
ॐ नमः श्रीपते देव श्रीधराय वराय च श्रियः कान्ताय दान्ताय योगिचिन्त्याय योगिने
ॐ नमः सामरूपाय सामध्वनिवराय च ॐ नमः सामसौम्याय सामयोगविदे नमः
साम्ने च सामगीताय ॐ नमः सामधारिणे सामयज्ञविदे चैव नमः सामकराय च
नमस् त्व् अथर्वशिरसे नमो ऽथर्वस्वरूपिणे नमो ऽस्त्व् अथर्वपादाय नमो ऽथर्वकराय च
ॐ नमो वज्रशीर्षाय मधुकैटभघातिने महोदधिजलस्थाय वेदाहरणकारिणे
नमो दीप्तस्वरूपाय हृषीकेशाय वै नमः नमो भगवते तुभ्यं वासुदेवाय ते नमः
नारायण नमस् तुभ्यं नमो लोकहिताय च ॐ नमो मोहनाशाय भवभङ्गकराय च
गतिप्रदाय च नमो नमो बन्धहराय च त्रैलोक्यतेजसां कर्त्रे नमस् तेजःस्वरूपिणे
योगीश्वराय शुद्धाय रामायोत्तरणाय च सुखाय सुखनेत्राय नमः सुकृतधारिणे
वासुदेवाय वन्द्याय वामदेवाय वै नमः देहिनां देहकर्त्रे च भेदभङ्गकराय च
देवैर् वन्दितदेहाय नमस् ते दिव्यमौलिने नमो वासनिवासाय वासव्यवहराय च
ॐ नमो वसुकर्त्रे च वसुवासप्रदाय च नमो यज्ञस्वरूपाय यज्ञेशाय च योगिने
यतियोगकरेशाय नमो यज्ञाङ्गधारिणे संकर्षणाय च नमः प्रलम्बमथनाय च
मेघघोषस्वनोत्तीर्णवेगलाङ्गलधारिणे नमो ऽस्तु ज्ञानिनां ज्ञान नारायणपरायण
न मे ऽस्ति त्वाम् ऋते बन्धुर् नरकोत्तारणे प्रभो अतस् त्वां सर्वभावेन प्रणतो नतवत्सल
मलं यत् कायजं वापि मानसं चैव केशव न तस्यान्यो ऽस्ति देवेश क्षालकस् त्वाम् ऋते ऽच्युत
संसर्गाणि समस्तानि विहाय त्वाम् उपस्थितः सङ्गो मे ऽस्तु त्वया सार्धम् आत्मलाभाय केशव
कष्टम् आपत् सुदुष्पारं संसारं वेद्मि केशव तापत्रयपरिक्लिष्टस् तेन त्वां शरणं गतः
एषणाभिर् जगत् सर्वं मोहितं मायया तव आकर्षितं च लोभाद्यैर् अतस् त्वाम् अहम् आश्रितः
नास्ति किंचित् सुखं विष्णो संसारस्थस्य देहिनः यथा यथा हि यज्ञेश त्वयि चेतः प्रवर्तते
तथा फलविहीनं तु सुखम् आत्यन्तिकं लभेत् नष्टो विवेकशून्यो ऽस्मि दृश्यते जगद् आतुरम्