मन्वन्तरे व्यतिक्रान्ते चत्वारः सप्तका गणाः कृत्वा कर्म दिवं यान्ति ब्रह्मलोकम् अनामयम्
ततो ऽन्ये तपसा युक्ताः स्थानं तत् पूरयन्त्य् उत अतीता वर्तमानाश् च क्रमेणैतेन भो द्विजाः
अनागताश् च सप्तैते स्मृता दिवि महर्षयः मनोर् अन्तरम् आसाद्य सावर्णस्येह भो द्विजाः
रामो व्यासस् तथात्रेयो दीप्तिमन्तो बहुश्रुताः भारद्वाजस् तथा द्रौणिर् अश्वत्थामा महाद्युतिः
गौतमश् चाजरश् चैव शरद्वान् नाम गौतमः कौशिको गालवश् चैव और्वः काश्यप एव च
एते सप्त महात्मानो भविष्या मुनिसत्तमाः वैरी चैवाध्वरीवांश् च शमनो धृतिमान् वसुः
अरिष्टश् चाप्य् अधृष्टश् च वाजी सुमतिर् एव च सावर्णस्य मनोः पुत्रा भविष्या मुनिसत्तमाः
एतेषां कल्यम् उत्थाय कीर्तनात् सुखम् एधते यशश् चाप्नोति सुमहद् आयुष्मांश् च भवेन् नरः
एतान्य् उक्तानि भो विप्राः सप्त सप्त च तत्त्वतः मन्वन्तराणि संक्षेपाच् छृणुतानागतान्य् अपि
सावर्णा मनवो विप्राः पञ्च तांश् च निबोधत एको वैवस्वतस् तेषां चत्वारस् तु प्रजापतेः
परमेष्ठिसुता विप्रा मेरुसावर्ण्यतां गताः दक्षस्यैते हि दौहित्राः प्रियायास् तनया नृपाः
महता तपसा युक्ता मेरुपृष्ठे महौजसः रुचेः प्रजापतेः पुत्रो रौच्यो नाम मनुः स्मृतः
भूत्यां चोत्पादितो देव्यां भौत्यो नाम रुचेः सुतः अनागताश् च सप्तैते कल्पे ऽस्मिन् मनवः स्मृताः
तैर् इयं पृथिवी सर्वा सप्तद्वीपा सपत्तना पूर्णं युगसहस्रं तु परिपाल्या द्विजोत्तमाः
प्रजापतिश् च तपसा संहारं तेषु नित्यशः युगानि सप्ततिस् तानि साग्राणि कथितानि च
कृतत्रेतादियुक्तानि मनोर् अन्तरम् उच्यते चतुर्दशैते मनवः कथिताः कीर्तिवर्धनाः
वेदेषु सपुराणेषु सर्वेषु प्रभविष्णवः प्रजानां पतयो विप्रा धन्यम् एषां प्रकीर्तनम्
मन्वन्तरेषु संहाराः संहारान्तेषु संभवाः न शक्यते ऽन्तस् तेषां वै वक्तुं वर्षशतैर् अपि
विसर्गस्य प्रजानां वै संहारस्य च भो द्विजाः मन्वन्तरेषु संहाराः श्रूयन्ते द्विजसत्तमाः
सशेषास् तत्र तिष्ठन्ति देवाः सप्तर्षिभिः सह तपसा ब्रह्मचर्येण श्रुतेन च समन्विताः
पूर्णे युगसहस्रे तु कल्पो निःशेष उच्यते तत्र भूतानि सर्वाणि दग्धान्य् आदित्यरश्मिभिः
ब्रह्माणम् अग्रतः कृत्वा सहादित्यगणैर् द्विजाः प्रविशन्ति सुरश्रेष्ठं हरिनारायणं प्रभुम्
स्रष्टारं सर्वभूतानां कल्पान्तेषु पुनः पुनः अव्यक्तः शाश्वतो देवस् तस्य सर्वम् इदं जगत्
अत्र वः कीर्तयिष्यामि मनोर् वैवस्वतस्य वै विसर्गं मुनिशार्दूलाः सांप्रतस्य महाद्युतेः
अत्र वंशप्रसङ्गेन कथ्यमानं पुरातनम् यत्रोत्पन्नो महात्मा स हरिर् वृष्णिकुले प्रभुः
विवस्वान् कश्यपाज् जज्ञे दाक्षायण्यां द्विजोत्तमाः तस्य भार्याभवत् संज्ञा त्वाष्ट्री देवी विवस्वतः
सुरेश्वरीति विख्याता त्रिषु लोकेषु भाविनी सा वै भार्या भगवतो मार्तण्डस्य महात्मनः
भर्तृरूपेण नातुष्यद् रूपयौवनशालिनी संज्ञा नाम सुतपसा सुदीप्तेन समन्विता
आदित्यस्य हि तद् रूपं मण्डलस्य सुतेजसा गात्रेषु परिदग्धं वै नातिकान्तम् इवाभवत्
न खल्व् अयं मृतो ऽण्डस्य इति स्नेहाद् अभाषत अजानन् काश्यपस् तस्मान् मार्तण्ड इति चोच्यते