तद् अण्डम् अकरोद् द्वैधं दिवं भुवम् अथापि च तयोः शकलयोर् मध्य आकाशम् अकरोत् प्रभुः
अप्सु पारिप्लवां पृथ्वीं दिशश् च दशधा दधे तत्र कालं मनो वाचं कामं क्रोधम् अथो रतिम्
ससर्ज सृष्टिं तद्रूपां स्रष्टुम् इच्छन् प्रजापतीन् मरीचिम् अत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम्
वसिष्ठं च महातेजाः सो ऽसृजत् सप्त मानसान् सप्त ब्रह्माण इत्य् एते पुराणे निश्चयं गताः
नारायणात्मकानां तु सप्तानां ब्रह्मजन्मनाम् ततो ऽसृजत् पुरा ब्रह्मा रुद्रं रोषात्मसंभवम्
सनत्कुमारं च विभुं पूर्वेषाम् अपि पूर्वजम् सप्तस्व् एता अजायन्त प्रजा रुद्राश् च भो द्विजाः
स्कन्दः सनत्कुमारश् च तेजः संक्षिप्य तिष्ठतः तेषां सप्त महावंशा दिव्या देवगणान्विताः
क्रियावन्तः प्रजावन्तो महर्षिभिर् अलंकृताः विद्युतो ऽशनिमेघांश् च रोहितेन्द्रधनूंषि च
वयांसि च ससर्जादौ पर्जन्यं च ससर्ज ह ऋचो यजूंषि सामानि निर्ममे यज्ञसिद्धये
साध्यान् अजनयद् देवान् इत्य् एवम् अनुसंजगुः उच्चावचानि भूतानि गात्रेभ्यस् तस्य जज्ञिरे
आपवस्य प्रजासर्गं सृजतो हि प्रजापतेः सृज्यमानाः प्रजा नैव विवर्धन्ते यदा तदा
द्विधा कृत्वात्मनो देहम् अर्धेन पुरुषो ऽभवत् अर्धेन नारी तस्यां तु सो ऽसृजद् द्विविधाः प्रजाः
दिवं च पृथिवीं चैव महिम्ना व्याप्य तिष्ठति विराजम् असृजद् विष्णुः सो ऽसृजत् पुरुषं विराट्
पुरुषं तं मनुं विद्यात् तस्य मन्वन्तरं स्मृतम् द्वितीयं मानसस्यैतन् मनोर् अन्तरम् उच्यते
स वैराजः प्रजासर्गं ससर्ज पुरुषः प्रभुः नारायणविसर्गस्य प्रजास् तस्याप्य् अयोनिजाः
आयुष्मान् कीर्तिमान् पुण्यप्रजावांश् च भवेन् नरः आदिसर्गं विदित्वेमं यथेष्टां चाप्नुयाद् गतिम्
स सृष्ट्वा तु प्रजास् त्व् एवम् आपवो वै प्रजापतिः लेभे वै पुरुषः पत्नीं शतरूपाम् अयोनिजाम्
आपवस्य महिम्ना तु दिवम् आवृत्य तिष्ठतः धर्मेणैव मुनिश्रेष्ठाः शतरूपा व्यजायत
सा तु वर्षायुतं तप्त्वा तपः परमदुश्चरम् भर्तारं दीप्ततपसं पुरुषं प्रत्यपद्यत
स वै स्वायंभुवो विप्राः पुरुषो मनुर् उच्यते तस्यैकसप्ततियुगं मन्वन्तरम् इहोच्यते
वैराजात् पुरुषाद् वीरं शतरूपा व्यजायत प्रियव्रतोत्तानपादौ वीरात् काम्या व्यजायत
काम्या नाम सुता श्रेष्ठा कर्दमस्य प्रजापतेः काम्यापुत्रास् तु चत्वारः सम्राट् कुक्षिर् विराट् प्रभुः
उत्तानपादं जग्राह पुत्रम् अत्रिः प्रजापतिः उत्तानपादाच् चतुरः सूनृता सुषुवे सुतान्
धर्मस्य कन्या सुश्रोणी सूनृता नाम विश्रुता उत्पन्ना वाजिमेधेन ध्रुवस्य जननी शुभा
ध्रुवं च कीर्तिमन्तं च आयुष्मन्तं वसुं तथा उत्तानपादो ऽजनयत् सूनृतायां प्रजापतिः
ध्रुवो वर्षसहस्राणि त्रीणि दिव्यानि भो द्विजाः तपस् तेपे महाभागः प्रार्थयन् सुमहद् यशः
तस्मै ब्रह्मा ददौ प्रीतः स्थानम् आत्मसमं प्रभुः अचलं चैव पुरतः सप्तर्षीणां प्रजापतिः
तस्याभिमानम् ऋद्धिं च महिमानं निरीक्ष्य च देवासुराणाम् आचार्यः श्लोकं प्राग् उशना जगौ
अहो ऽस्य तपसो वीर्यम् अहो श्रुतम् अहो ऽद्भुतम् यम् अद्य पुरतः कृत्वा ध्रुवं सप्तर्षयः स्थिताः
तस्माच् छ्लिष्टिं च भव्यं च ध्रुवाच् छंभुर् व्यजायत श्लिष्टेर् आधत्त सुच्छाया पञ्च पुत्रान् अकल्मषान्