देवदेव जगन्नाथ त्रैलोक्यप्रभवाव्यय ब्रूहि नः परमं तथ्यं श्वेताख्यस्य च सांप्रतम्
शृणुध्वं मुनिशार्दूलाः सर्वसत्त्वहितावहम् प्रवक्ष्यामि यथातथ्यं यत् पृच्छथ ममानघाः
माधवस्य च माहात्म्यं सर्वपापप्रणाशनम् यच् छ्रुत्वाभिमतान् कामान् ध्रुवं प्राप्नोति मानवः
श्रुतवान् ऋषिभिः पूर्वं माधवाख्यस्य भो द्विजाः शृणुध्वं तां कथां दिव्यां भयशोकार्तिनाशिनीम्
स कृत्वा राज्यम् एकाग्र्यं वर्षाणां च सहस्रशः विचार्य लौकिकान् धर्मान् वैदिकान् नियमांस् तथा
केशवाराधने विप्रा निश्चितं व्रतम् आस्थितः स गत्वा परमं क्षेत्रं सागरं दक्षिणाश्रयम्
तटे तस्मिञ् शुभे रम्ये देशे कृष्णस्य चान्तिके श्वेतो ऽथ कारयाम् आस प्रासादं शुभलक्षणम्
धन्वन्तरशतं चैकं देवदेवस्य दक्षिणे ततः श्वेतेन विप्रेन्द्राः श्वेतशैलमयेन च
कृतः स भगवाञ् श्वेतो माधवश् चन्द्रसंनिभः प्रतिष्ठां विधिवच् चक्रे यथोद्दिष्टां स्वयं तु सः
दत्त्वा दानं द्विजातिभ्यो दीनानाथतपस्विनाम् अथानन्तरतो राजा माधवस्य च संनिधौ
महीं निपत्य सहसा ओंकारं द्वादशाक्षरम् जपन् स मौनम् आस्थाय मासम् एकं समाधिना
निराहारो महाभागः सम्यग् विष्णुपदे स्थितः जपान्ते स तु देवेशं संस्तोतुम् उपचक्रमे
ॐ नमो वासुदेवाय नमः संकर्षणाय च प्रद्युम्नायानिरुद्धाय नमो नारायणाय च
नमो ऽस्तु बहुरूपाय विश्वरूपाय वेधसे निर्गुणायाप्रतर्क्याय शुचये शुक्लकर्मणे
ॐ नमः पद्मनाभाय पद्मगर्भोद्भवाय च नमो ऽस्तु पद्मवर्णाय पद्महस्ताय ते नमः
ॐ नमः पुष्कराक्षाय सहस्राक्षाय मीढुषे नमः सहस्रपादाय सहस्रभुजमन्यवे
ॐ नमो ऽस्तु वराहाय वरदाय सुमेधसे वरिष्ठाय वरेण्याय शरण्यायाच्युताय च
ॐ नमो बालरूपाय बालपद्मप्रभाय च बालार्कसोमनेत्राय मुञ्जकेशाय धीमते
केशवाय नमो नित्यं नमो नारायणाय च माधवाय वरिष्ठाय गोविन्दाय नमो नमः
ॐ नमो विष्णवे नित्यं देवाय वसुरेतसे मधुसूदनाय नमः शुद्धायांशुधराय च
नमो अनन्ताय सूक्ष्माय नमः श्रीवत्सधारिणे त्रिविक्रमाय च नमो दिव्यपीताम्बराय च
सृष्टिकर्त्रे नमस् तुभ्यं गोप्त्रे धात्रे नमो नमः नमो ऽस्तु गुणभूताय निर्गुणाय नमो नमः
नमो वामनरूपाय नमो वामनकर्मणे नमो वामननेत्राय नमो वामनवाहिने
नमो रम्याय पूज्याय नमो ऽस्त्व् अव्यक्तरूपिणे अप्रतर्क्याय शुद्धाय नमो भयहराय च
संसारार्णवपोताय प्रशान्ताय स्वरूपिणे शिवाय सौम्यरूपाय रुद्रायोत्तारणाय च
भवभङ्गकृते चैव भवभोगप्रदाय च भवसंघातरूपाय भवसृष्टिकृते नमः
ॐ नमो दिव्यरूपाय सोमाग्निश्वसिताय च सोमसूर्यांशुकेशाय गोब्राह्मणहिताय च
ॐ नम ऋक्स्वरूपाय पदक्रमस्वरूपिणे ऋक्स्तुताय नमस् तुभ्यं नम ऋक्साधनाय च
ॐ नमो यजुषां धात्रे यजूरूपधराय च यजुर्याज्याय जुष्टाय यजुषां पतये नमः
ॐ नमः श्रीपते देव श्रीधराय वराय च श्रियः कान्ताय दान्ताय योगिचिन्त्याय योगिने