मया चाराधितश् चासौ शक्रेण तदनन्तरम् विभीषणेन रामेण कस् तं नाराधयेत् पुमान्
श्वेतगङ्गां नरः स्नात्वा यः पश्येच् छ्वेतमाधवम् मत्स्याख्यं माधवं चैव श्वेतद्वीपं स गच्छति
श्वेतमाधवमाहात्म्यं वक्तुम् अर्हस्य् अशेषतः विस्तरेण जगन्नाथ प्रतिमां तस्य वै हरेः
तस्मिन् क्षेत्रवरे पुण्ये विख्याते जगतीतले श्वेताख्यं माधवं देवं कस् तं स्थापितवान् पुरा
अभूत् कृतयुगे विप्राः श्वेतो नाम नृपो बली मतिमान् धर्मविच् छूरः सत्यसंधो दृढव्रतः
यस्य राज्ये तु वर्षाणां सहस्रं दश मानवाः भवन्त्य् आयुष्मन्तो लोका बालस् तस्मिन् न सीदति
वर्तमाने तदा राज्ये किंचित् काले गते द्विजाः कपालगौतमो नाम ऋषिः परमधार्मिकः
सुतो ऽस्याजातदन्तश् च मृतः कालवशाद् द्विजाः तम् आदाय ऋषिर् धीमान् नृपस्यान्तिकम् आनयत्
दृष्ट्वैवं नृपतिः सुप्तं कुमारं गतचेतसम् प्रतिज्ञाम् अकरोद् विप्रा जीवनार्थं शिशोस् तदा
यावद् बालम् अहं त्व् एनं यमस्य सदने गतम् नानये सप्तरात्रेण चितां दीप्तां समारुहे
एवम् उक्त्वासितैः पद्मैः शतैर् दशशतादिकैः संपूज्य च महादेवं राजा विद्यां पुनर् जपेत्
अतिभक्तिं तु संचिन्त्य नृपस्य जगदीश्वरः सांनिध्यम् अगमत् तुष्टो श्मीत्य् उवाच सहोमया
श्रुत्वैवं गिरम् ईशस्य विलोक्य सहसा हरम् भस्मदिग्धं विरूपाक्षं शरत्कुन्देन्दुवर्चसम्
शार्दूलचर्मवसनं शशाङ्काङ्कितमूर्धजम् महीं निपत्य सहसा प्रणम्य स तदाब्रवीत्
कारुण्यं यदि मे दृष्ट्वा प्रसन्नो ऽसि प्रभो यदि कालस्य वशम् आपन्नो बालको द्विजपुत्रकः
जीवत्व् एष पुनर् बाल इत्य् एवं व्रतम् आहितम् अकस्माच् च मृतं बालं नियम्य भगवन् स्वयम् यथोक्तायुष्यसंयुक्तं क्षेमं कुरु महेश्वर
श्वेतस्यैतद् वचः श्रुत्वा मुदं प्राप हरस् तदा कालम् आज्ञापयाम् आस सर्वभूतभयंकरम्
नियम्य कालं दुर्धर्षं यमस्याज्ञाकरं द्विजाः बालं संजीवयाम् आस मृत्योर् मुखगतं पुनः
कृत्वा क्षेमं जगत् सर्वं मुनेः पुत्रं स तं द्विजाः देव्या सहोमया देवस् तत्रैवान्तरधीयत
एवं संजीवयाम् आस मुनेः पुत्रं नृपोत्तमः
देवदेव जगन्नाथ त्रैलोक्यप्रभवाव्यय ब्रूहि नः परमं तथ्यं श्वेताख्यस्य च सांप्रतम्
शृणुध्वं मुनिशार्दूलाः सर्वसत्त्वहितावहम् प्रवक्ष्यामि यथातथ्यं यत् पृच्छथ ममानघाः
माधवस्य च माहात्म्यं सर्वपापप्रणाशनम् यच् छ्रुत्वाभिमतान् कामान् ध्रुवं प्राप्नोति मानवः
श्रुतवान् ऋषिभिः पूर्वं माधवाख्यस्य भो द्विजाः शृणुध्वं तां कथां दिव्यां भयशोकार्तिनाशिनीम्
स कृत्वा राज्यम् एकाग्र्यं वर्षाणां च सहस्रशः विचार्य लौकिकान् धर्मान् वैदिकान् नियमांस् तथा
केशवाराधने विप्रा निश्चितं व्रतम् आस्थितः स गत्वा परमं क्षेत्रं सागरं दक्षिणाश्रयम्
तटे तस्मिञ् शुभे रम्ये देशे कृष्णस्य चान्तिके श्वेतो ऽथ कारयाम् आस प्रासादं शुभलक्षणम्
धन्वन्तरशतं चैकं देवदेवस्य दक्षिणे ततः श्वेतेन विप्रेन्द्राः श्वेतशैलमयेन च
कृतः स भगवाञ् श्वेतो माधवश् चन्द्रसंनिभः प्रतिष्ठां विधिवच् चक्रे यथोद्दिष्टां स्वयं तु सः
दत्त्वा दानं द्विजातिभ्यो दीनानाथतपस्विनाम् अथानन्तरतो राजा माधवस्य च संनिधौ