विमुक्तः सर्वपापेभ्यो विष्णुलोकं स गच्छति ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्रान्त्यजातयः
संपूज्य तं सुरश्रेष्ठं भक्त्या सिंहवपुर्धरम् मुच्यन्ते चाशुभैर् दुःखैर् जन्मकोटिसमुद्भवैः
संपूज्य तं सुरश्रेष्ठं प्राप्नुवन्त्य् अभिवाञ्छितम् देवत्वम् अमरेशत्वं गन्धर्वत्वं च भो द्विजाः
यक्षविद्याधरत्वं च तथान्यच् चाभिवाञ्छितम् दृष्ट्वा स्तुत्वा नमस्कृत्वा संपूज्य नरकेसरीम्
प्राप्नुवन्ति नरा राज्यं स्वर्गं मोक्षं च दुर्लभम् नरसिंहं नरो दृष्ट्वा लभेद् अभिमतं फलम्
निर्मुक्तः सर्वपापेभ्यो विष्णुलोकं स गच्छति सकृद् दृष्ट्वा तु तं देवं भक्त्या सिंहवपुर्धरम्
मुच्यते चाशुभैर् दुःखैर् जन्मकोटिसमुद्भवैः संग्रामे संकटे दुर्गे चोरव्याघ्रादिपीडिते
कान्तारे प्राणसंदेहे विषवह्निजलेषु च राजादिभ्यः समुद्रेभ्यो ग्रहरोगादिपीडिते
स्मृत्वा तं पुरुषः सर्वै राजग्रामैर् विमुच्यते सूर्योदये यथा नाशं तमो ऽभ्येति महत्तरम्
तथा संदर्शने तस्य विनाशं यान्त्य् उपद्रवाः गुटिकाञ्जनपातालपादुके च रसायनम्
नरसिंहे प्रसन्ने तु प्राप्नोत्य् अन्यांश् च वाञ्छितान् यान् यान् कामान् अभिध्यायन् भजते नरकेसरीम्
तांस् तान् कामान् अवाप्नोति नरो नास्त्य् अत्र संशयः दृष्ट्वा तं देवदेवेशं भक्त्यापूज्य प्रणम्य च
दशानाम् अश्वमेधानां फलं दशगुणं लभेत् पापैः सर्वैर् विनिर्मुक्तो गुणैः सर्वैर् अलंकृतः
सर्वकामसमृद्धात्मा जरामरणवर्जितः सौवर्णेन विमानेन किङ्किणीजालमालिना
सर्वकामसमृद्धेन कामगेन सुवर्चसा तरुणादित्यवर्णेन मुक्ताहारावलम्बिना
दिव्यस्त्रीशतयुक्तेन दिव्यगन्धर्वनादिना कुलैकविंशम् उद्धृत्य देववन् मुदितः सुखी
स्तूयमानो ऽप्सरोभिश् च विष्णुलोकं व्रजेन् नरः भुक्त्वा तत्र वरान् भोगान् विष्णुलोके द्विजोत्तमाः
गन्धर्वैर् अप्सरैर् युक्तः कृत्वा रूपं चतुर्भुजम् मनोह्लादकरं सौख्यं यावद् आभूतसंप्लवम्
पुण्यक्षयाद् इहायातः प्रवरे योगिनां कुले चतुर्वेदी भवेद् विप्रो वेदवेदाङ्गपारगः वैष्णवं योगम् आस्थाय ततो मोक्षम् अवाप्नुयात्
अनन्ताख्यं वासुदेवं दृष्ट्वा भक्त्या प्रणम्य च सर्वपापविनिर्मुक्तो नरो याति परं पदम्
मया चाराधितश् चासौ शक्रेण तदनन्तरम् विभीषणेन रामेण कस् तं नाराधयेत् पुमान्
श्वेतगङ्गां नरः स्नात्वा यः पश्येच् छ्वेतमाधवम् मत्स्याख्यं माधवं चैव श्वेतद्वीपं स गच्छति
श्वेतमाधवमाहात्म्यं वक्तुम् अर्हस्य् अशेषतः विस्तरेण जगन्नाथ प्रतिमां तस्य वै हरेः
तस्मिन् क्षेत्रवरे पुण्ये विख्याते जगतीतले श्वेताख्यं माधवं देवं कस् तं स्थापितवान् पुरा
अभूत् कृतयुगे विप्राः श्वेतो नाम नृपो बली मतिमान् धर्मविच् छूरः सत्यसंधो दृढव्रतः
यस्य राज्ये तु वर्षाणां सहस्रं दश मानवाः भवन्त्य् आयुष्मन्तो लोका बालस् तस्मिन् न सीदति
वर्तमाने तदा राज्ये किंचित् काले गते द्विजाः कपालगौतमो नाम ऋषिः परमधार्मिकः
सुतो ऽस्याजातदन्तश् च मृतः कालवशाद् द्विजाः तम् आदाय ऋषिर् धीमान् नृपस्यान्तिकम् आनयत्
दृष्ट्वैवं नृपतिः सुप्तं कुमारं गतचेतसम् प्रतिज्ञाम् अकरोद् विप्रा जीवनार्थं शिशोस् तदा
यावद् बालम् अहं त्व् एनं यमस्य सदने गतम् नानये सप्तरात्रेण चितां दीप्तां समारुहे