ततो रसायनं दिव्यं पाययन्ति द्विजोत्तमाः पीतमात्रे दिव्यदेहो जायते सुमहाबलः
क्रीडते सह कन्याभिर् यावद् आभूतसंप्लवम् भिन्नदेहो वासुदेवे लीयते नात्र संशयः
यदा न रोचते वासस् तस्मान् निर्गच्छते पुनः पट्टं शूलं च खड्गं च रोचनां च मणिं तथा
रसं रसायनं चैव पादुकाञ्जनम् एव च कृष्णाजिनं मुनिश्रेष्ठा गुटिकां च मनोहराम्
कमण्डलुं चाक्षसूत्रं यष्टिं संजीवनीं तथा सिद्धविद्यां च शास्त्राणि गृहीत्वा साधकेश्वरः
ज्वलद्वह्निस्फुलिङ्गोर्मिवेष्टितं त्रिशिखं हृदि सकृन् न्यस्तं दहेत् सर्वं वृजिनं जन्मकोटिजम्
विषे न्यस्तं विषं हन्यात् कुष्ठं हन्यात् तनौ स्थितम् स्वदेहे भ्रूणहत्यादि कृत्वा दिव्येन शुध्यति
महाग्रहगृहीतेषु ज्वलमानं विचिन्तयेत् हृदन्ते वै ततः शीघ्रं नश्येयुर् दारुणा ग्रहाः
बालानां कण्ठके बद्धं रक्षा भवति नित्यशः गण्डपिण्डकलूतानां नाशनं कुरुते ध्रुवम्
व्याधिजाते समिद्भिश् च घृतक्षीरेण होमयेत् त्रिसंध्यं मासम् एकं तु सर्वरोगान् विनाशयेत्
असाध्यं तु न पश्यामि त्रैलोक्ये सचराचरे यां यां कामयते सिद्धिं तां तां प्राप्नोति स ध्रुवम्
अष्टोत्तरशतं त्व् एके पूजयित्वा मृगाधिपम् मृत्तिकाः सप्त वल्मीके श्मशाने च चतुष्पथे
रक्तचन्दनसंमिश्रा गवां क्षीरेण लोडयेत् सिंहस्य प्रतिमां कृत्वा प्रमाणेन षडङ्गुलाम्
लिम्पेत् तथा भूर्जपत्त्रे रोचनया समालिखेत् नरसिंहस्य कण्ठे तु बद्ध्वा चैव हि मन्त्रवित्
जपेत् संख्याविहीनं तु पूजयित्वा जलाशये यावत् सप्ताहमात्रं तु जपेत् संयमितेन्द्रियः
जलाकीर्णा मुहूर्तेन जायते सर्वमेदिनी अथवा शुष्कवृक्षाग्रे नरसिंहं तु पूजयेत्
जप्त्वा चाष्टशतं तत्त्वं वर्षन्तं विनिवारयेत् तम् एवं पिञ्जके बद्ध्वा भ्रामयेत् साधकोत्तमः
महावातो मुहूर्तेन आगच्छेन् नात्र संशयः पुनश् च धारयेत् क्षिप्रं सप्तसप्तेन वारिणा
अथ तां प्रतिमां द्वारि निखनेद् यस्य साधकः गोत्रोत्सादो भवेत् तस्य उद्धृते चैव शान्तिदः
तस्मात् तं मुनिशार्दूला भक्त्या संपूजयेत् सदा मृगराजं महावीर्यं सर्वकामफलप्रदम्
विमुक्तः सर्वपापेभ्यो विष्णुलोकं स गच्छति ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्रान्त्यजातयः
संपूज्य तं सुरश्रेष्ठं भक्त्या सिंहवपुर्धरम् मुच्यन्ते चाशुभैर् दुःखैर् जन्मकोटिसमुद्भवैः
संपूज्य तं सुरश्रेष्ठं प्राप्नुवन्त्य् अभिवाञ्छितम् देवत्वम् अमरेशत्वं गन्धर्वत्वं च भो द्विजाः
यक्षविद्याधरत्वं च तथान्यच् चाभिवाञ्छितम् दृष्ट्वा स्तुत्वा नमस्कृत्वा संपूज्य नरकेसरीम्
प्राप्नुवन्ति नरा राज्यं स्वर्गं मोक्षं च दुर्लभम् नरसिंहं नरो दृष्ट्वा लभेद् अभिमतं फलम्
निर्मुक्तः सर्वपापेभ्यो विष्णुलोकं स गच्छति सकृद् दृष्ट्वा तु तं देवं भक्त्या सिंहवपुर्धरम्
मुच्यते चाशुभैर् दुःखैर् जन्मकोटिसमुद्भवैः संग्रामे संकटे दुर्गे चोरव्याघ्रादिपीडिते
कान्तारे प्राणसंदेहे विषवह्निजलेषु च राजादिभ्यः समुद्रेभ्यो ग्रहरोगादिपीडिते
स्मृत्वा तं पुरुषः सर्वै राजग्रामैर् विमुच्यते सूर्योदये यथा नाशं तमो ऽभ्येति महत्तरम्
तथा संदर्शने तस्य विनाशं यान्त्य् उपद्रवाः गुटिकाञ्जनपातालपादुके च रसायनम्