प्रभावं तस्य देवस्य विस्तरेण जगत्पते श्रोतुम् इच्छामहे ब्रूहि परं कौतूहलं हि नः
यथा प्रसीदेद् देवो ऽसौ नरसिंहो महाबलः भक्तानाम् उपकाराय ब्रूहि देव नमो ऽस्तु ते
प्रसादान् नरसिंहस्य या भवन्त्य् अत्र सिद्धयः ब्रूहि ताः कुरु चास्माकं प्रसादं प्रपितामह
शृणुध्वं तस्य भो विप्राः प्रभावं गदतो मम अजितस्याप्रमेयस्य भुक्तिमुक्तिप्रदस्य च
कः शक्नोति गुणान् वक्तुं समस्तांस् तस्य भो द्विजाः सिंहार्धकृतदेहस्य प्रवक्ष्यामि समासतः
याः काश्चित् सिद्धयश् चात्र श्रूयन्ते दैवमानुषाः प्रसादात् तस्य ताः सर्वाः सिध्यन्ति नात्र संशयः
स्वर्गे मर्त्ये च पाताले दिक्षु तोये पुरे नगे प्रसादात् तस्य देवस्य भवत्य् अव्याहता गतिः
असाध्यं तस्य देवस्य नास्त्य् अत्र सचराचरे नरसिंहस्य भो विप्राः सदा भक्तानुकम्पिनः
विधानं तस्य वक्ष्यामि भक्तानाम् उपकारकम् येन प्रसीदेच् चैवासौ सिंहार्धकृतविग्रहः
शृणुध्वं मुनिशार्दूलाः कल्पराजं सनातनम् नरसिंहस्य तत्त्वं च यन् न ज्ञातं सुरासुरैः
शाकयावकमूलैस् तु फलपिण्याकसक्तुकैः पयोभक्षेण विप्रेन्द्रा वर्तयेत् साधकोत्तमः
कोशकौपीनवासाश् च ध्यानयुक्तो जितेन्द्रियः अरण्ये विजने देशे पर्वते सिन्धुसंगमे
ऊषरे सिद्धक्षेत्रे च नरसिंहाश्रमे तथा प्रतिष्ठाप्य स्वयं वापि पूजां कृत्वा विधानतः
द्वादश्यां शुक्लपक्षस्य उपोष्य मुनिपुंगवाः जपेल् लक्षाणि वै विंशन् मनसा संयतेन्द्रियः
उपपातकयुक्तश् च महापातकसंयुतः मुक्तो भवेत् ततो विप्राः साधको नात्र संशयः
कृत्वा प्रदक्षिणं तत्र नरसिंहं प्रपूजयेत् पुण्यगन्धादिभिर् धूपैः प्रणम्य शिरसा प्रभुम्
कर्पूरचन्दनाक्तानि जातीपुष्पाणि मस्तके प्रदद्यान् नरसिंहस्य ततः सिद्धिः प्रजायते
भगवान् सर्वकार्येषु न क्वचित् प्रतिहन्यते तेजः सोढुं न शक्ताः स्युर् ब्रह्मरुद्रादयः सुराः
किं पुनर् दानवा लोके सिद्धगन्धर्वमानुषाः विद्याधरा यक्षगणाः सकिंनरमहोरगाः
मन्त्रं यान् आसुरान् हन्तुं जपन्त्य् एके ऽन्यसाधकाः ते सर्वे प्रलयं यान्ति दृष्ट्वादित्याग्निवर्चसः
सकृज्जप्तं तु कवचं रक्षेत् सर्वम् उपद्रवम् द्विर्जप्तं कवचं दिव्यं रक्षते देवदानवात्
गन्धर्वाः किंनरा यक्षा विद्याधरमहोरगाः भूताः पिशाचा रक्षांसि ये चान्ये परिपन्थिनः
त्रिर्जप्तं कवचं दिव्यम् अभेद्यं च सुरासुरैः द्वादशाभ्यन्तरे चैव योजनानां द्विजोत्तमाः
रक्षते भगवान् देवो नरसिंहो महाबलः ततो गत्वा बिलद्वारम् उपोष्य रजनीत्रयम्
पलाशकाष्ठैः प्रज्वाल्य भगवन्तं हुताशनम् पलाशसमिधस् तत्र जुहुयात् त्रिमधुप्लुताः
द्वे शते द्विजशार्दूला वषट्कारेण साधकः ततो विवरद्वारं तु प्रकटं जायते क्षणात्
ततो विशेत् तु निःशङ्कं कवची विवरं बुधः गच्छतः संकटं तस्य तमोमोहश् च नश्यति
राजमार्गः सुविस्तीर्णो दृश्यते भ्रमराजितः नरसिंहं स्मरंस् तत्र पातालं विशते द्विजाः
गत्वा तत्र जपेत् तत्त्वं नरसिंहाख्यम् अव्ययम् ततः स्त्रीणां सहस्राणि वीणावादनकर्मणाम्
निर्गच्छन्ति पुरो विप्राः स्वागतं ता वदन्ति च प्रवेशयन्ति ता हस्ते गृहीत्वा साधकेश्वरम्