शङ्खचक्रगदापाणिं मुकुटाङ्गदभूषणम् सर्वलक्षणसंयुक्तं वनमालाविभूषितम्
दृष्ट्वा नरो ऽञ्जलिं कृत्वा दण्डवत् प्रणिपत्य च अश्वमेधसहस्राणां फलं प्राप्नोति वै द्विजाः
यत् फलं सर्वतीर्थेषु स्नाने दाने प्रकीर्तितम् नरस् तत् फलम् आप्नोति दृष्ट्वा कृष्णं प्रणम्य च
यत् फलं सर्वरत्नाद्यैर् इष्टे बहुसुवर्णके नरस् तत् फलम् आप्नोति दृष्ट्वा कृष्णं प्रणम्य च
यत् फलं सर्ववेदेषु सर्वयज्ञेषु यत् फलम् तत् फलं समवाप्नोति नरः कृष्णं प्रणम्य च
यत् फलं सर्वदानेन व्रतेन नियमेन च नरस् तत् फलम् आप्नोति दृष्ट्वा कृष्णं प्रणम्य च
तपोभिर् विविधैर् उग्रैर् यत् फलं समुदाहृतम् नरस् तत् फलम् आप्नोति दृष्ट्वा कृष्णं प्रणम्य च
यत् फलं ब्रह्मचर्येण सम्यक् चीर्णेन तत्कृतम् नरस् तत् फलम् आप्नोति दृष्ट्वा कृष्णं प्रणम्य च
यत् फलं च गृहस्थस्य यथोक्ताचारवर्तिनः नरस् तत् फलम् आप्नोति दृष्ट्वा कृष्णं प्रणम्य च
यत् फलं वनवासेन वानप्रस्थस्य कीर्तितम् नरस् तत् फलम् आप्नोति दृष्ट्वा कृष्णं प्रणम्य च
संन्यासेन यथोक्तेन यत् फलं समुदाहृतम् नरस् तत् फलम् आप्नोति दृष्ट्वा कृष्णं प्रणम्य च
किं चात्र बहुनोक्तेन माहात्म्ये तस्य भो द्विजाः दृष्ट्वा कृष्णं नरो भक्त्या मोक्षं प्राप्नोति दुर्लभम्
पापैर् विमुक्तः शुद्धात्मा कल्पकोटिसमुद्भवैः श्रिया परमया युक्तः सर्वैः समुदितो गुणैः
सर्वकामसमृद्धेन विमानेन सुवर्चसा त्रिसप्तकुलम् उद्धृत्य नरो विष्णुपुरं व्रजेत्
तत्र कल्पशतं यावद् भुक्त्वा भोगान् मनोरमान् गन्धर्वाप्सरसैः सार्धं यथा विष्णुश् चतुर्भुजः
च्युतस् तस्माद् इहायातो विप्राणां प्रवरे कुले सर्वज्ञः सर्ववेदी च जायते गतमत्सरः
स्वधर्मनिरतः शान्तो दाता भूतहिते रतः आसाद्य वैष्णवं ज्ञानं ततो मुक्तिम् अवाप्नुयात्
ततः संपूज्य मन्त्रेण सुभद्रां भक्तवत्सलाम् प्रसादयेत् ततो विप्राः प्रणिपत्य कृताञ्जलिः
नमस् ते सर्वगे देवि नमस् ते शुभसौख्यदे त्राहि मां पद्मपत्त्राक्षि कात्यायनि नमो ऽस्तु ते
एवं प्रसाद्य तां देवीं जगद्धात्रीं जगद्धिताम् बलदेवस्य भगिनीं सुभद्रां वरदां शिवाम्
कामगेन विमानेन नरो विष्णुपुरं व्रजेत् आभूतसंप्लवं यावत् क्रीडित्वा तत्र देववत्
इह मानुषतां प्राप्तो ब्राह्मणो वेदविद् भवेत् प्राप्य योगं हरेस् तत्र मोक्षं च लभते ध्रुवम्
एवं दृष्ट्वा बलं कृष्णं सुभद्रां प्रणिपत्य च धर्मं चार्थं च कामं च मोक्षं च लभते ध्रुवम्
निष्क्रम्य देवतागारात् कृतकृत्यो भवेन् नरः प्रणम्यायतनं पश्चाद् व्रजेत् तत्र समाहितः
इन्द्रनीलमयो विष्णुर् यत्रास्ते वालुकावृतः अन्तर्धानगतं नत्वा ततो विष्णुपुरं व्रजेत्
सर्वदेवमयो यो ऽसौ हतवान् असुरोत्तमम् स आस्ते तत्र भो विप्राः सिंहार्धकृतविग्रहः
भक्त्या दृष्ट्वा तु तं देवं प्रणम्य नरकेसरीम् मुच्यते पातकैर् मर्त्यः समस्तैर् नात्र संशयः
नरसिंहस्य ये भक्ता भवन्ति भुवि मानवाः न तेषां दुष्कृतं किंचित् फलं स्याद् यद् यद् ईप्सितम्
तस्मात् सर्वप्रयत्नेन नरसिंहं समाश्रयेत् धर्मार्थकाममोक्षाणां फलं यस्मात् प्रयच्छति
माहात्म्यं नरसिंहस्य सुखदं भुवि दुर्लभम् यथा कथयसे देव तेन नो विस्मयो महान्