द्विषट्कवर्णमन्त्रेण भक्त्या ये पुरुषोत्तमम् पूजयन्ति सदा धीरास् ते मोक्षं प्राप्नुवन्ति वै
न तां गतिं सुरा यान्ति योगिनो नैव सोमपाः यां गतिं यान्ति भो विप्रा द्वादशाक्षरतत्पराः
तस्मात् तेनैव मन्त्रेण भक्त्या कृष्णं जगद्गुरुम् संपूज्य गन्धपुष्पाद्यैः प्रणिपत्य प्रसादयेत्
जय कृष्ण जगन्नाथ जय सर्वाघनाशन जय चाणूरकेशिघ्न जय कंसनिषूदन
जय पद्मपलाशाक्ष जय चक्रगदाधर जय नीलाम्बुदश्याम जय सर्वसुखप्रद
जय देव जगत्पूज्य जय संसारनाशन जय लोकपते नाथ जय वाञ्छाफलप्रद
संसारसागरे घोरे निःसारे दुःखफेनिले क्रोधग्राहाकुले रौद्रे विषयोदकसंप्लवे
नानारोगोर्मिकलिले मोहावर्तसुदुस्तरे निमग्नो ऽहं सुरश्रेष्ठ त्राहि मां पुरुषोत्तम
एवं प्रसाद्य देवेशं वरदं भक्तवत्सलम् सर्वपापहरं देवं सर्वकामफलप्रदम्
पीनांसं द्विभुजं कृष्णं पद्मपत्त्रायतेक्षणम् महोरस्कं महाबाहुं पीतवस्त्रं शुभाननम्
शङ्खचक्रगदापाणिं मुकुटाङ्गदभूषणम् सर्वलक्षणसंयुक्तं वनमालाविभूषितम्
दृष्ट्वा नरो ऽञ्जलिं कृत्वा दण्डवत् प्रणिपत्य च अश्वमेधसहस्राणां फलं प्राप्नोति वै द्विजाः
यत् फलं सर्वतीर्थेषु स्नाने दाने प्रकीर्तितम् नरस् तत् फलम् आप्नोति दृष्ट्वा कृष्णं प्रणम्य च
यत् फलं सर्वरत्नाद्यैर् इष्टे बहुसुवर्णके नरस् तत् फलम् आप्नोति दृष्ट्वा कृष्णं प्रणम्य च
यत् फलं सर्ववेदेषु सर्वयज्ञेषु यत् फलम् तत् फलं समवाप्नोति नरः कृष्णं प्रणम्य च
यत् फलं सर्वदानेन व्रतेन नियमेन च नरस् तत् फलम् आप्नोति दृष्ट्वा कृष्णं प्रणम्य च
तपोभिर् विविधैर् उग्रैर् यत् फलं समुदाहृतम् नरस् तत् फलम् आप्नोति दृष्ट्वा कृष्णं प्रणम्य च
यत् फलं ब्रह्मचर्येण सम्यक् चीर्णेन तत्कृतम् नरस् तत् फलम् आप्नोति दृष्ट्वा कृष्णं प्रणम्य च
यत् फलं च गृहस्थस्य यथोक्ताचारवर्तिनः नरस् तत् फलम् आप्नोति दृष्ट्वा कृष्णं प्रणम्य च
यत् फलं वनवासेन वानप्रस्थस्य कीर्तितम् नरस् तत् फलम् आप्नोति दृष्ट्वा कृष्णं प्रणम्य च
संन्यासेन यथोक्तेन यत् फलं समुदाहृतम् नरस् तत् फलम् आप्नोति दृष्ट्वा कृष्णं प्रणम्य च
किं चात्र बहुनोक्तेन माहात्म्ये तस्य भो द्विजाः दृष्ट्वा कृष्णं नरो भक्त्या मोक्षं प्राप्नोति दुर्लभम्
पापैर् विमुक्तः शुद्धात्मा कल्पकोटिसमुद्भवैः श्रिया परमया युक्तः सर्वैः समुदितो गुणैः
सर्वकामसमृद्धेन विमानेन सुवर्चसा त्रिसप्तकुलम् उद्धृत्य नरो विष्णुपुरं व्रजेत्
तत्र कल्पशतं यावद् भुक्त्वा भोगान् मनोरमान् गन्धर्वाप्सरसैः सार्धं यथा विष्णुश् चतुर्भुजः
च्युतस् तस्माद् इहायातो विप्राणां प्रवरे कुले सर्वज्ञः सर्ववेदी च जायते गतमत्सरः
स्वधर्मनिरतः शान्तो दाता भूतहिते रतः आसाद्य वैष्णवं ज्ञानं ततो मुक्तिम् अवाप्नुयात्
ततः संपूज्य मन्त्रेण सुभद्रां भक्तवत्सलाम् प्रसादयेत् ततो विप्राः प्रणिपत्य कृताञ्जलिः
नमस् ते सर्वगे देवि नमस् ते शुभसौख्यदे त्राहि मां पद्मपत्त्राक्षि कात्यायनि नमो ऽस्तु ते
एवं प्रसाद्य तां देवीं जगद्धात्रीं जगद्धिताम् बलदेवस्य भगिनीं सुभद्रां वरदां शिवाम्