दृष्ट्वा वटं वैनतेयं यः पश्येत् पुरुषोत्तमम् संकर्षणं सुभद्रां च स याति परमां गतिम्
प्रविश्यायतनं विष्णोः कृत्वा तं त्रिः प्रदक्षिणम् संकर्षणं स्वमन्त्रेण भक्त्यापूज्य प्रसादयेत्
नमस् ते हलधृग् राम नमस् ते मुशलायुध नमस् ते रेवतीकान्त नमस् ते भक्तवत्सल
नमस् ते बलिनां श्रेष्ठ नमस् ते धरणीधर प्रलम्बारे नमस् ते ऽस्तु त्राहि मां कृष्णपूर्वज
एवं प्रसाद्य चानन्तम् अजेयं त्रिदशार्चितम् कैलासशिखराकारं चन्द्रात् कान्ततराननम्
नीलवस्त्रधरं देवं फणाविकटमस्तकम् महाबलं हलधरं कुण्डलैकविभूषितम्
रौहिणेयं नरो भक्त्या लभेद् अभिमतं फलम् सर्वपापैर् विनिर्मुक्तो विष्णुलोकं स गच्छति
आभूतसंप्लवं यावद् भुक्त्वा तत्र सुखं नरः पुण्यक्षयाद् इहागत्य प्रवरे योगिनां कुले
ब्राह्मणप्रवरो भूत्वा सर्वशास्त्रार्थपारगः ज्ञानं तत्र समासाद्य मुक्तिं प्राप्नोति दुर्लभाम्
एवम् अभ्यर्च्य हलिनं ततः कृष्णं विचक्षणः द्वादशाक्षरमन्त्रेण पूजयेत् सुसमाहितः
द्विषट्कवर्णमन्त्रेण भक्त्या ये पुरुषोत्तमम् पूजयन्ति सदा धीरास् ते मोक्षं प्राप्नुवन्ति वै
न तां गतिं सुरा यान्ति योगिनो नैव सोमपाः यां गतिं यान्ति भो विप्रा द्वादशाक्षरतत्पराः
तस्मात् तेनैव मन्त्रेण भक्त्या कृष्णं जगद्गुरुम् संपूज्य गन्धपुष्पाद्यैः प्रणिपत्य प्रसादयेत्
जय कृष्ण जगन्नाथ जय सर्वाघनाशन जय चाणूरकेशिघ्न जय कंसनिषूदन
जय पद्मपलाशाक्ष जय चक्रगदाधर जय नीलाम्बुदश्याम जय सर्वसुखप्रद
जय देव जगत्पूज्य जय संसारनाशन जय लोकपते नाथ जय वाञ्छाफलप्रद
संसारसागरे घोरे निःसारे दुःखफेनिले क्रोधग्राहाकुले रौद्रे विषयोदकसंप्लवे
नानारोगोर्मिकलिले मोहावर्तसुदुस्तरे निमग्नो ऽहं सुरश्रेष्ठ त्राहि मां पुरुषोत्तम
एवं प्रसाद्य देवेशं वरदं भक्तवत्सलम् सर्वपापहरं देवं सर्वकामफलप्रदम्
पीनांसं द्विभुजं कृष्णं पद्मपत्त्रायतेक्षणम् महोरस्कं महाबाहुं पीतवस्त्रं शुभाननम्
शङ्खचक्रगदापाणिं मुकुटाङ्गदभूषणम् सर्वलक्षणसंयुक्तं वनमालाविभूषितम्
दृष्ट्वा नरो ऽञ्जलिं कृत्वा दण्डवत् प्रणिपत्य च अश्वमेधसहस्राणां फलं प्राप्नोति वै द्विजाः
यत् फलं सर्वतीर्थेषु स्नाने दाने प्रकीर्तितम् नरस् तत् फलम् आप्नोति दृष्ट्वा कृष्णं प्रणम्य च
यत् फलं सर्वरत्नाद्यैर् इष्टे बहुसुवर्णके नरस् तत् फलम् आप्नोति दृष्ट्वा कृष्णं प्रणम्य च
यत् फलं सर्ववेदेषु सर्वयज्ञेषु यत् फलम् तत् फलं समवाप्नोति नरः कृष्णं प्रणम्य च
यत् फलं सर्वदानेन व्रतेन नियमेन च नरस् तत् फलम् आप्नोति दृष्ट्वा कृष्णं प्रणम्य च
तपोभिर् विविधैर् उग्रैर् यत् फलं समुदाहृतम् नरस् तत् फलम् आप्नोति दृष्ट्वा कृष्णं प्रणम्य च
यत् फलं ब्रह्मचर्येण सम्यक् चीर्णेन तत्कृतम् नरस् तत् फलम् आप्नोति दृष्ट्वा कृष्णं प्रणम्य च
यत् फलं च गृहस्थस्य यथोक्ताचारवर्तिनः नरस् तत् फलम् आप्नोति दृष्ट्वा कृष्णं प्रणम्य च
यत् फलं वनवासेन वानप्रस्थस्य कीर्तितम् नरस् तत् फलम् आप्नोति दृष्ट्वा कृष्णं प्रणम्य च