शैवभागवतानां च वादार्थप्रतिषेधकम् अस्मिन् क्षेत्रवरे पुण्ये निर्मले पुरुषोत्तमे
शिवस्यायतनं देव करोमि परमं महत् प्रतिष्ठेय तथा तत्र तव स्थाने च शंकरम्
ततो ज्ञास्यन्ति लोके ऽस्मिन्न् एकमूर्ती हरीश्वरौ प्रत्युवाच जगन्नाथः स पुनस् तं महामुनिम्
यद् एतत् परमं देवं कारणं भुवनेश्वरम् लिङ्गम् आराधनार्थाय नानाभावप्रशान्तये
ममादिष्टेन विप्रेन्द्र कुरु शीघ्रं शिवालयम् तत्प्रभावाच् छिवलोके तिष्ठ त्वं च तथाक्षयम्
शिवे संस्थापिते विप्र मम संस्थापनं भवेत् नावयोर् अन्तरं किंचिद् एकभावौ द्विधा कृतौ
यो रुद्रः स स्वयं विष्णुर् यो विष्णुः स महेश्वरः उभयोर् अन्तरं नास्ति पवनाकाशयोर् इव
मोहितो नाभिजानाति य एव गरुडध्वजः वृषध्वजः स एवेति त्रिपुरघ्नं त्रिलोचनम्
तव नामाङ्कितं तस्मात् कुरु विप्र शिवालयम् उत्तरे देवदेवस्य कुरु तीर्थं सुशोभनम्
मार्कण्डेयह्रदो नाम नरलोकेषु विश्रुतः भविष्यति द्विजश्रेष्ठ सर्वपापप्रणाशनः
इत्य् उक्त्वा स तदा देवस् तत्रैवान्तरधीयत मार्कण्डेयं मुनिश्रेष्ठाः सर्वव्यापी जनार्दनः
अतः परं प्रवक्ष्यामि पञ्चतीर्थविधिं द्विजाः यत् फलं स्नानदानेन देवताप्रेक्षणेन च
मार्कण्डेयह्रदं गत्वा नरश् चोदङ्मुखः शुचिः निमज्जेत् तत्र वारांस् त्रीन् इमं मन्त्रम् उदीरयेत्
संसारसागरे मग्नं पापग्रस्तम् अचेतनम् त्राहि मां भगनेत्रघ्न त्रिपुरारे नमो ऽस्तु ते
नमः शिवाय शान्ताय सर्वपापहराय च स्नानं करोमि देवेश मम नश्यतु पातकम्
नाभिमात्रे जले स्नात्वा विधिवद् देवता ऋषीन् तिलोदकेन मतिमान् पितॄंश् चान्यांश् च तर्पयेत्
स्नात्वा तथैव चाचम्य ततो गच्छेच् छिवालयम् प्रविश्य देवतागारं कृत्वा तं त्रिः प्रदक्षिणम्
मूलमन्त्रेण संपूज्य मार्कण्डेयस्य चेश्वरम् अघोरेण च भो विप्राः प्रणिपत्य प्रसादयेत्
त्रिलोचन नमस् ते ऽस्तु नमस् ते शशिभूषण त्राहि मां त्वं विरूपाक्ष महादेव नमो ऽस्तु ते
मार्कण्डेयह्रदे त्व् एवं स्नात्वा दृष्ट्वा च शंकरम् दशानाम् अश्वमेधानां फलं प्राप्नोति मानवः
पापैः सर्वैर् विनिर्मुक्तः शिवलोकं स गच्छति तत्र भुक्त्वा वरान् भोगान् यावद् आभूतसंप्लवम्
इहलोकं समासाद्य भवेद् विप्रो बहुश्रुतः शांकरं योगम् आसाद्य ततो मोक्षम् अवाप्नुयात्
कल्पवृक्षं ततो गत्वा कृत्वा तं त्रिः प्रदक्षिणम् पूजयेत् परया भक्त्या मन्त्रेणानेन तं वटम्
ॐ नमो व्यक्तरूपाय महाप्रलयकारिणे महद्रसोपविष्टाय न्यग्रोधाय नमो ऽस्तु ते
अमरस् त्वं सदा कल्पे हरेश् चायतनं वट न्यग्रोध हर मे पापं कल्पवृक्ष नमो ऽस्तु ते
भक्त्या प्रदक्षिणं कृत्वा नत्वा कल्पवटं नरः सहसा मुच्यते पापाज् जीर्णत्वच इवोरगः
छायां तस्य समाक्रम्य कल्पवृक्षस्य भो द्विजाः ब्रह्महत्यां नरो जह्यात् पापेष्व् अन्येषु का कथा
दृष्ट्वा कृष्णाङ्गसंभूतं ब्रह्मतेजोमयं परम् न्यग्रोधाकृतिकं विष्णुं प्रणिपत्य च भो द्विजाः
राजसूयाश्वमेधाभ्यां फलं प्राप्नोति चाधिकम् तथा स्ववंशम् उद्धृत्य विष्णुलोकं स गच्छति
वैनतेयं नमस्कृत्य कृष्णस्य पुरतः स्थितम् सर्वपापविनिर्मुक्तस् ततो विष्णुपुरं व्रजेत्