मन्वन्तरं चतुर्थं वः कथयिष्यामि सांप्रतम् काव्यः पृथुस् तथैवाग्निर् जह्नुर् धाता द्विजोत्तमाः
कपीवान् अकपीवांश् च तत्र सप्तर्षयो द्विजाः पुराणे कीर्तिता विप्राः पुत्राः पौत्राश् च भो द्विजाः
तथा देवगणाश् चैव तामसस्यान्तरे मनोः द्युतिस् तपस्यः सुतपास् तपोभूतः सनातनः
तपोरतिर् अकल्माषस् तन्वी धन्वी परंतपः तामसस्य मनोर् एते दश पुत्राः प्रकीर्तिताः
वायुप्रोक्ता मुनिश्रेष्ठाश् चतुर्थं चैतद् अन्तरम् देवबाहुर् यदुध्रश् च मुनिर् वेदशिरास् तथा
हिरण्यरोमा पर्जन्य ऊर्ध्वबाहुश् च सोमजः सत्यनेत्रस् तथात्रेय एते सप्तर्षयो ऽपरे
देवाश् चाभूतरजसस् तथा प्रकृतयः स्मृताः वारिप्लवश् च रैभ्यश् च मनोर् अन्तरम् उच्यते
अथ पुत्रान् इमांस् तस्य बुध्यध्वं गदतो मम धृतिमान् अव्ययो युक्तस् तत्त्वदर्शी निरुत्सुकः
आरण्यश् च प्रकाशश् च निर्मोहः सत्यवाक् कृती रैवतस्य मनोः पुत्राः पञ्चमं चैतद् अन्तरम्
षष्ठं तु संप्रवक्ष्यामि तद् बुध्यध्वं द्विजोत्तमाः भृगुर् नभो विवस्वांश् च सुधामा विरजास् तथा
अतिनामा सहिष्णुश् च सप्तैते च महर्षयः चाक्षुषस्यान्तरे विप्रा मनोर् देवास् त्व् इमे स्मृताः
आबालप्रथितास् ते वै पृथक्त्वेन दिवौकसः लेखाश् च नामतो विप्राः पञ्च देवगणाः स्मृताः
ऋषेर् अङ्गिरसः पुत्रा महात्मानो महौजसः नाड्वलेया मुनिश्रेष्ठा दश पुत्रास् तु विश्रुताः
रुरुप्रभृतयो विप्राश् चाक्षुषस्यान्तरे मनोः षष्ठं मन्वन्तरं प्रोक्तं सप्तमं तु निबोधत
अत्रिर् वसिष्ठो भगवान् कश्यपश् च महान् ऋषिः गौतमो ऽथ भरद्वाजो विश्वामित्रस् तथैव च
तथैव पुत्रो भगवान् ऋचीकस्य महात्मनः सप्तमो जमदग्निश् च ऋषयः सांप्रतं दिवि
साध्या रुद्राश् च विश्वे च वसवो मरुतस् तथा आदित्याश् चाश्विनौ चापि देवौ वैवस्वतौ स्मृतौ
मनोर् वैवस्वतस्यैते वर्तन्ते सांप्रते ऽन्तरे इक्ष्वाकुप्रमुखाश् चैव दश पुत्रा महात्मनः
एतेषां कीर्तितानां तु महर्षीणां महौजसाम् तेषां पुत्राश् च पौत्राश् च दिक्षु सर्वासु भो द्विजाः
मन्वन्तरेषु सर्वेषु प्राग् आसन् सप्त सप्तकाः लोके धर्मव्यवस्थार्थं लोकसंरक्षणाय च
मन्वन्तरे व्यतिक्रान्ते चत्वारः सप्तका गणाः कृत्वा कर्म दिवं यान्ति ब्रह्मलोकम् अनामयम्
ततो ऽन्ये तपसा युक्ताः स्थानं तत् पूरयन्त्य् उत अतीता वर्तमानाश् च क्रमेणैतेन भो द्विजाः
अनागताश् च सप्तैते स्मृता दिवि महर्षयः मनोर् अन्तरम् आसाद्य सावर्णस्येह भो द्विजाः
रामो व्यासस् तथात्रेयो दीप्तिमन्तो बहुश्रुताः भारद्वाजस् तथा द्रौणिर् अश्वत्थामा महाद्युतिः
गौतमश् चाजरश् चैव शरद्वान् नाम गौतमः कौशिको गालवश् चैव और्वः काश्यप एव च
एते सप्त महात्मानो भविष्या मुनिसत्तमाः वैरी चैवाध्वरीवांश् च शमनो धृतिमान् वसुः
अरिष्टश् चाप्य् अधृष्टश् च वाजी सुमतिर् एव च सावर्णस्य मनोः पुत्रा भविष्या मुनिसत्तमाः
एतेषां कल्यम् उत्थाय कीर्तनात् सुखम् एधते यशश् चाप्नोति सुमहद् आयुष्मांश् च भवेन् नरः
एतान्य् उक्तानि भो विप्राः सप्त सप्त च तत्त्वतः मन्वन्तराणि संक्षेपाच् छृणुतानागतान्य् अपि
सावर्णा मनवो विप्राः पञ्च तांश् च निबोधत एको वैवस्वतस् तेषां चत्वारस् तु प्रजापतेः