कालचक्रं नयाम्य् एको ब्रह्मरूपं ममैव तत् शमनं सर्वभूतानां सर्वभूतकृतोद्यमम्
एवं प्रणिहितः सम्यङ् ममात्मा मुनिसत्तम सर्वभूतेषु विप्रेन्द्र न च मां वेत्ति कश्चन
सर्वलोके च मां भक्ताः पूजयन्ति च सर्वशः यच् च किंचित् त्वया प्राप्तं मयि क्लेशात्मकं द्विज
सुखोदयाय तत् सर्वं श्रेयसे च तवानघ यच् च किंचित् त्वया लोके दृष्टं स्थावरजङ्गमम्
विहितः सर्व एवासौ मयात्मा भूतभावनः अहं नारायणो नाम शङ्खचक्रगदाधरः
यावद् युगानां विप्रर्षे सहस्रं परिवर्तते तावत् स्वपिमि विश्वात्मा सर्वविश्वानि मोहयन्
एवं सर्वम् अहं कालम् इहासे मुनिसत्तम अशिशुः शिशुरूपेण यावद् ब्रह्मा न बुध्यते
मया च दत्तो विप्रेन्द्र वरस् ते ब्रह्मरूपिणा असकृत् परितुष्टेन विप्रर्षिगणपूजित
सर्वम् एकार्णवं कृत्वा नष्टे स्थावरजङ्गमे निर्गतो ऽसि मयाज्ञातस् ततस् ते दर्शितं जगत्
अभ्यन्तरं शरीरस्य प्रविष्टो ऽसि यदा मम दृष्ट्वा लोकं समस्तं हि विस्मितो नावबुध्यसे
ततो ऽसि वक्त्राद् विप्रर्षे द्रुतं निःसारितो मया आख्यातस् ते मया चात्मा दुर्ज्ञेयो हि सुरासुरैः
यावत् स भगवान् ब्रह्मा न बुध्येत महातपाः तावत् त्वम् इह विप्रर्षे विश्रब्धश् चर वै सुखम्
ततो विबुद्धे तस्मिंस् तु सर्वलोकपितामहे एको भूतानि स्रक्ष्यामि शरीराणि द्विजोत्तम
आकाशं पृथिवीं ज्योतिर् वायुः सलिलम् एव च लोके यच् च भवेत् किंचिद् इह स्थावरजङ्गमम्
एवम् उक्त्वा तदा विप्राः पुनस् तं प्राह माधवः पूर्णे युगसहस्रे तु मेघगम्भीरनिस्वनः
मुने ब्रूहि यदर्थं मां स्तुतवान् परमार्थतः वरं वृणीष्व यच् छ्रेष्ठं ददामि नचिराद् अहम्
आयुष्मान् असि देवानां मद्भक्तो ऽसि दृढव्रतः तेन त्वम् असि विप्रेन्द्र पुनर् दीर्घायुर् आप्नुहि
श्रुत्वा वाणीं शुभां तस्य विलोक्य स तदा पुनः मूर्ध्ना निपत्य सहसा प्रणम्य पुनर् अब्रवीत्
दृष्टं परं हि देवेश तव रूपं द्विजोत्तम मोहो ऽयं विगतः सत्यं त्वयि दृष्टे तु मे हरे
एवम् एवम् अहं नाथ इच्छेयं त्वत्प्रसादतः लोकानां च हितार्थाय नानाभावप्रशान्तये
शैवभागवतानां च वादार्थप्रतिषेधकम् अस्मिन् क्षेत्रवरे पुण्ये निर्मले पुरुषोत्तमे
शिवस्यायतनं देव करोमि परमं महत् प्रतिष्ठेय तथा तत्र तव स्थाने च शंकरम्
ततो ज्ञास्यन्ति लोके ऽस्मिन्न् एकमूर्ती हरीश्वरौ प्रत्युवाच जगन्नाथः स पुनस् तं महामुनिम्
यद् एतत् परमं देवं कारणं भुवनेश्वरम् लिङ्गम् आराधनार्थाय नानाभावप्रशान्तये
ममादिष्टेन विप्रेन्द्र कुरु शीघ्रं शिवालयम् तत्प्रभावाच् छिवलोके तिष्ठ त्वं च तथाक्षयम्
शिवे संस्थापिते विप्र मम संस्थापनं भवेत् नावयोर् अन्तरं किंचिद् एकभावौ द्विधा कृतौ
यो रुद्रः स स्वयं विष्णुर् यो विष्णुः स महेश्वरः उभयोर् अन्तरं नास्ति पवनाकाशयोर् इव
मोहितो नाभिजानाति य एव गरुडध्वजः वृषध्वजः स एवेति त्रिपुरघ्नं त्रिलोचनम्
तव नामाङ्कितं तस्मात् कुरु विप्र शिवालयम् उत्तरे देवदेवस्य कुरु तीर्थं सुशोभनम्
मार्कण्डेयह्रदो नाम नरलोकेषु विश्रुतः भविष्यति द्विजश्रेष्ठ सर्वपापप्रणाशनः