लोभाभिभूतैः कृपणैर् अनार्यैर् अकृतात्मभिः तन् मां महाफलं विद्धि नराणां भावितात्मनाम्
सुदुष्प्रापं विमूढानां मां कुयोगनिषेविणाम् यदा यदा हि धर्मस्य ग्लानिर् भवति सत्तम
अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्य् अहम् दैत्या हिंसानुरक्ताश् च अवध्याः सुरसत्तमैः
राक्षसाश् चापि लोके ऽस्मिन् यदोत्पत्स्यन्ति दारुणाः तदाहं संप्रसूयामि गृहेषु पुण्यकर्मणाम्
प्रविष्टो मानुषं देहं सर्वं प्रशमयाम्य् अहम् सृष्ट्वा देवमनुष्यांश् च गन्धर्वोरगराक्षसान्
स्थावराणि च भूतानि संहराम्य् आत्ममायया कर्मकाले पुनर् देहम् अनुचिन्त्य सृजाम्य् अहम्
आविश्य मानुषं देहं मर्यादाबन्धकारणात् श्वेतः कृतयुगे धर्मः श्यामस् त्रेतायुगे मम
रक्तो द्वापरम् आसाद्य कृष्णः कलियुगे तथा त्रयो भागा ह्य् अधर्मस्य तस्मिन् काले भवन्ति च
अन्तकाले च संप्राप्ते कालो भूत्वातिदारुणः त्रैलोक्यं नाशयाम्य् एकः सर्वं स्थावरजङ्गमम्
अहं त्रिधर्मा विश्वात्मा सर्वलोकसुखावहः अभिन्नः सर्वगो ऽनन्तो हृषीकेश उरुक्रमः
कालचक्रं नयाम्य् एको ब्रह्मरूपं ममैव तत् शमनं सर्वभूतानां सर्वभूतकृतोद्यमम्
एवं प्रणिहितः सम्यङ् ममात्मा मुनिसत्तम सर्वभूतेषु विप्रेन्द्र न च मां वेत्ति कश्चन
सर्वलोके च मां भक्ताः पूजयन्ति च सर्वशः यच् च किंचित् त्वया प्राप्तं मयि क्लेशात्मकं द्विज
सुखोदयाय तत् सर्वं श्रेयसे च तवानघ यच् च किंचित् त्वया लोके दृष्टं स्थावरजङ्गमम्
विहितः सर्व एवासौ मयात्मा भूतभावनः अहं नारायणो नाम शङ्खचक्रगदाधरः
यावद् युगानां विप्रर्षे सहस्रं परिवर्तते तावत् स्वपिमि विश्वात्मा सर्वविश्वानि मोहयन्
एवं सर्वम् अहं कालम् इहासे मुनिसत्तम अशिशुः शिशुरूपेण यावद् ब्रह्मा न बुध्यते
मया च दत्तो विप्रेन्द्र वरस् ते ब्रह्मरूपिणा असकृत् परितुष्टेन विप्रर्षिगणपूजित
सर्वम् एकार्णवं कृत्वा नष्टे स्थावरजङ्गमे निर्गतो ऽसि मयाज्ञातस् ततस् ते दर्शितं जगत्
अभ्यन्तरं शरीरस्य प्रविष्टो ऽसि यदा मम दृष्ट्वा लोकं समस्तं हि विस्मितो नावबुध्यसे
ततो ऽसि वक्त्राद् विप्रर्षे द्रुतं निःसारितो मया आख्यातस् ते मया चात्मा दुर्ज्ञेयो हि सुरासुरैः
यावत् स भगवान् ब्रह्मा न बुध्येत महातपाः तावत् त्वम् इह विप्रर्षे विश्रब्धश् चर वै सुखम्
ततो विबुद्धे तस्मिंस् तु सर्वलोकपितामहे एको भूतानि स्रक्ष्यामि शरीराणि द्विजोत्तम
आकाशं पृथिवीं ज्योतिर् वायुः सलिलम् एव च लोके यच् च भवेत् किंचिद् इह स्थावरजङ्गमम्
एवम् उक्त्वा तदा विप्राः पुनस् तं प्राह माधवः पूर्णे युगसहस्रे तु मेघगम्भीरनिस्वनः
मुने ब्रूहि यदर्थं मां स्तुतवान् परमार्थतः वरं वृणीष्व यच् छ्रेष्ठं ददामि नचिराद् अहम्
आयुष्मान् असि देवानां मद्भक्तो ऽसि दृढव्रतः तेन त्वम् असि विप्रेन्द्र पुनर् दीर्घायुर् आप्नुहि
श्रुत्वा वाणीं शुभां तस्य विलोक्य स तदा पुनः मूर्ध्ना निपत्य सहसा प्रणम्य पुनर् अब्रवीत्
दृष्टं परं हि देवेश तव रूपं द्विजोत्तम मोहो ऽयं विगतः सत्यं त्वयि दृष्टे तु मे हरे
एवम् एवम् अहं नाथ इच्छेयं त्वत्प्रसादतः लोकानां च हितार्थाय नानाभावप्रशान्तये