ज्ञातुम् इच्छामि देव त्वां मायां वै तव चोत्तमाम् त्वत्प्रसादाच् च देवेश स्मृतिर् न परिहीयते
द्रुतम् अन्तः शरीरेण सततं पर्यवर्तितम् इच्छामि पुण्डरीकाक्ष ज्ञातुं त्वाम् अहम् अव्ययम्
इह भूत्वा शिशुः साक्षात् किं भवान् अवतिष्ठते पीत्वा जगद् इदं सर्वम् एतद् आख्यातुम् अर्हसि
किमर्थं च जगत् सर्वं शरीरस्थं तवानघ कियन्तं च त्वया कालम् इह स्थेयम् अरिंदम
ज्ञातुम् इच्छामि देवेश ब्रूहि सर्वम् अशेषतः त्वत्तः कमलपत्त्राक्ष विस्तरेण यथातथम् महद् एतद् अचिन्त्यं च यद् अहं दृष्टवान् प्रभो
इत्य् उक्तः स तदा तेन देवदेवो महाद्युतिः सान्त्वयन् स तदा वाक्यम् उवाच वदतां वरः
कामं देवाश् च मां विप्र नहि जानन्ति तत्त्वतः तव प्रीत्या प्रवक्ष्यामि यथेदं विसृजाम्य् अहम्
पितृभक्तो ऽसि विप्रर्षे माम् एव शरणं गतः ततो दृष्टो ऽस्मि ते साक्षाद् ब्रह्मचर्यं च ते महत्
आपो नारा इति पुरा संज्ञाकर्म कृतं मया तेन नारायणो ऽस्म्य् उक्तो मम तास् त्व् अयनं सदा
अहं नारायणो नाम प्रभवः शाश्वतो ऽव्ययः विधाता सर्वभूतानां संहर्ता च द्विजोत्तम
अहं विष्णुर् अहं ब्रह्मा शक्रश् चापि सुराधिपः अहं वैश्रवणो राजा यमः प्रेताधिपस् तथा
अहं शिवश् च सोमश् च कश्यपश् च प्रजापतिः अहं धाता विधाता च यज्ञश् चाहं द्विजोत्तम
अग्निर् आस्यं क्षितिः पादौ चन्द्रादित्यौ च लोचने द्यौर् मूर्धा खं दिशः श्रोत्रे तथापः स्वेदसंभवाः
सदिशं च नभः कायो वायुर् मनसि मे स्थितः मया क्रतुशतैर् इष्टं बहुभिश् चाप्तदक्षिणैः
यजन्ते वेदविदुषो मां देवयजने स्थितम् पृथिव्यां क्षत्रियेन्द्राश् च पार्थिवाः स्वर्गकाङ्क्षिणः
यजन्ते मां तथा वैश्याः स्वर्गलोकजिगीषवः चतुःसमुद्रपर्यन्तां मेरुमन्दरभूषणाम्
शेषो भूत्वाहम् एको हि धारयामि वसुंधराम् वाराहं रूपम् आस्थाय ममेयं जगती पुरा
मज्जमाना जले विप्र वीर्येणास्मि समुद्धृता अग्निश् च वाडवो विप्र भूत्वाहं द्विजसत्तम
पिबाम्य् अपः समाविष्टस् ताश् चैव विसृजाम्य् अहम् ब्रह्म वक्त्रं भुजौ क्षत्रम् ऊरू मे संश्रिता विशः
पादौ शूद्रा भवन्तीमे विक्रमेण क्रमेण च ऋग्वेदः सामवेदश् च यजुर्वेदस् त्व् अथर्वणः
मत्तः प्रादुर्भवन्त्य् एते माम् एव प्रविशन्ति च यतयः शान्तिपरमा यतात्मानो बुभुत्सवः
कामक्रोधद्वेषमुक्ता निःसङ्गा वीतकल्मषाः सत्त्वस्था निरहंकारा नित्यम् अध्यात्मकोविदाः
माम् एव सततं विप्राश् चिन्तयन्त उपासते अहं संवर्तको ज्योतिर् अहं संवर्तको ऽनलः
अहं संवर्तकः सूर्यस् त्व् अहं संवर्तको ऽनिलः तारारूपाणि दृश्यन्ते यान्य् एतानि नभस्तले
मम वै रोमकूपाणि विद्धि त्वं द्विजसत्तम रत्नाकराः समुद्राश् च सर्व एव चतुर्दिशः
वसनं शयनं चैव निलयं चैव विद्धि मे कामः क्रोधश् च हर्षश् च भयं मोहस् तथैव च
ममैव विद्धि रूपाणि सर्वाण्य् एतानि सत्तम प्राप्नुवन्ति नरा विप्र यत् कृत्वा कर्म शोभनम्
सत्यं दानं तपश् चोग्रम् अहिंसां सर्वजन्तुषु मद्विधानेन विहिता मम देहविचारिणः
मयाभिभूतविज्ञानाश् चेष्टयन्ति न कामतः सम्यग् वेदम् अधीयाना यजन्तो विविधैर् मखैः
शान्तात्मानो जितक्रोधाः प्राप्नुवन्ति द्विजातयः प्राप्तुं शक्यो न चैवाहं नरैर् दुष्कृतकर्मभिः