दानवास् त्वं तथा यक्षास् त्वं दैत्याः समरुद्गणाः सिद्धाश् चाप्सरसो नागा गन्धर्वास् त्वं सचारणाः
पितरो वालखिल्याश् च प्रजानां पतयो ऽच्युत मुनयस् त्वम् ऋषिगणास् त्वम् अश्विनौ निशाचराः
अन्याश् च जातयस् त्वं हि यत् किंचिज् जीवसंज्ञितम् किं चात्र बहुनोक्तेन ब्रह्मादिस्तम्बगोचरम्
भूतं भव्यं भविष्यं च त्वं जगत् सचराचरम् यत् ते रूपं परं देव कूटस्थम् अचलं ध्रुवम्
ब्रह्माद्यास् तन् न जानन्ति कथम् अन्ये ऽल्पमेधसः देव शुद्धस्वभावो ऽसि नित्यस् त्वं प्रकृतेः परः
अव्यक्तः शाश्वतो ऽनन्तः सर्वव्यापी महेश्वरः त्वम् आकाशः परः शान्तो अजस् त्वं विभुर् अव्ययः
एवं त्वां निर्गुणं स्तोतुं कः शक्नोति निरञ्जनम् स्तुतो ऽसि यन् मया देव विकलेनाल्पचेतसा तत् सर्वं देवदेवेश क्षन्तुम् अर्हसि चाव्यय
इत्थं स्तुतस् तदा तेन मार्कण्डेयेन भो द्विजाः प्रीतः प्रोवाच भगवान् मेघगम्भीरया गिरा
ब्रूहि कामं मुनिश्रेष्ठ यत् ते मनसि वर्तते ददामि सर्वं विप्रर्षे मत्तो यद् अभिवाञ्छसि
श्रुत्वा स वचनं विप्राः शिशोस् तस्य महात्मनः उवाच परमप्रीतो मुनिस् तद्गतमानसः
ज्ञातुम् इच्छामि देव त्वां मायां वै तव चोत्तमाम् त्वत्प्रसादाच् च देवेश स्मृतिर् न परिहीयते
द्रुतम् अन्तः शरीरेण सततं पर्यवर्तितम् इच्छामि पुण्डरीकाक्ष ज्ञातुं त्वाम् अहम् अव्ययम्
इह भूत्वा शिशुः साक्षात् किं भवान् अवतिष्ठते पीत्वा जगद् इदं सर्वम् एतद् आख्यातुम् अर्हसि
किमर्थं च जगत् सर्वं शरीरस्थं तवानघ कियन्तं च त्वया कालम् इह स्थेयम् अरिंदम
ज्ञातुम् इच्छामि देवेश ब्रूहि सर्वम् अशेषतः त्वत्तः कमलपत्त्राक्ष विस्तरेण यथातथम् महद् एतद् अचिन्त्यं च यद् अहं दृष्टवान् प्रभो
इत्य् उक्तः स तदा तेन देवदेवो महाद्युतिः सान्त्वयन् स तदा वाक्यम् उवाच वदतां वरः
कामं देवाश् च मां विप्र नहि जानन्ति तत्त्वतः तव प्रीत्या प्रवक्ष्यामि यथेदं विसृजाम्य् अहम्
पितृभक्तो ऽसि विप्रर्षे माम् एव शरणं गतः ततो दृष्टो ऽस्मि ते साक्षाद् ब्रह्मचर्यं च ते महत्
आपो नारा इति पुरा संज्ञाकर्म कृतं मया तेन नारायणो ऽस्म्य् उक्तो मम तास् त्व् अयनं सदा
अहं नारायणो नाम प्रभवः शाश्वतो ऽव्ययः विधाता सर्वभूतानां संहर्ता च द्विजोत्तम
अहं विष्णुर् अहं ब्रह्मा शक्रश् चापि सुराधिपः अहं वैश्रवणो राजा यमः प्रेताधिपस् तथा
अहं शिवश् च सोमश् च कश्यपश् च प्रजापतिः अहं धाता विधाता च यज्ञश् चाहं द्विजोत्तम
अग्निर् आस्यं क्षितिः पादौ चन्द्रादित्यौ च लोचने द्यौर् मूर्धा खं दिशः श्रोत्रे तथापः स्वेदसंभवाः
सदिशं च नभः कायो वायुर् मनसि मे स्थितः मया क्रतुशतैर् इष्टं बहुभिश् चाप्तदक्षिणैः
यजन्ते वेदविदुषो मां देवयजने स्थितम् पृथिव्यां क्षत्रियेन्द्राश् च पार्थिवाः स्वर्गकाङ्क्षिणः
यजन्ते मां तथा वैश्याः स्वर्गलोकजिगीषवः चतुःसमुद्रपर्यन्तां मेरुमन्दरभूषणाम्
शेषो भूत्वाहम् एको हि धारयामि वसुंधराम् वाराहं रूपम् आस्थाय ममेयं जगती पुरा
मज्जमाना जले विप्र वीर्येणास्मि समुद्धृता अग्निश् च वाडवो विप्र भूत्वाहं द्विजसत्तम
पिबाम्य् अपः समाविष्टस् ताश् चैव विसृजाम्य् अहम् ब्रह्म वक्त्रं भुजौ क्षत्रम् ऊरू मे संश्रिता विशः
पादौ शूद्रा भवन्तीमे विक्रमेण क्रमेण च ऋग्वेदः सामवेदश् च यजुर्वेदस् त्व् अथर्वणः