प्रसीद विबुधां नाथ प्रसीद विबुधालय प्रसीद सर्वलोकेश जगत्कारणकारण
प्रसीद सर्वकृद् देव प्रसीद मम भूधर प्रसीद सलिलावास प्रसीद मधुसूदन
प्रसीद कमलाकान्त प्रसीद त्रिदशेश्वर प्रसीद कंसकेशीघ्न प्रसीदारिष्टनाशन
प्रसीद कृष्ण दैत्यघ्न प्रसीद दनुजान्तक प्रसीद मथुरावास प्रसीद यदुनन्दन
प्रसीद शक्रावरज प्रसीद वरदाव्यय त्वं मही त्वं जलं देव त्वम् अग्निस् त्वं समीरणः
त्वं नभस् त्वं मनश् चैव त्वम् अहंकार एव च त्वं बुद्धिः प्रकृतिश् चैव सत्त्वाद्यास् त्वं जगत्पते
पुरुषस् त्वं जगद्व्यापी पुरुषाद् अपि चोत्तमः त्वम् इन्द्रियाणि सर्वाणि शब्दाद्या विषयाः प्रभो
त्वं दिक्पालाश् च धर्माश् च वेदा यज्ञाः सदक्षिणाः त्वम् इन्द्रस् त्वं शिवो देवस् त्वं हविस् त्वं हुताशनः
त्वं यमः पितृराट् देव त्वं रक्षोधिपतिः स्वयम् वरुणस् त्वम् अपां नाथ त्वं वायुस् त्वं धनेश्वरः
त्वम् ईशानस् त्वम् अनन्तस् त्वं गणेशश् च षण्मुखः वसवस् त्वं तथा रुद्रास् त्वम् आदित्याश् च खेचराः
दानवास् त्वं तथा यक्षास् त्वं दैत्याः समरुद्गणाः सिद्धाश् चाप्सरसो नागा गन्धर्वास् त्वं सचारणाः
पितरो वालखिल्याश् च प्रजानां पतयो ऽच्युत मुनयस् त्वम् ऋषिगणास् त्वम् अश्विनौ निशाचराः
अन्याश् च जातयस् त्वं हि यत् किंचिज् जीवसंज्ञितम् किं चात्र बहुनोक्तेन ब्रह्मादिस्तम्बगोचरम्
भूतं भव्यं भविष्यं च त्वं जगत् सचराचरम् यत् ते रूपं परं देव कूटस्थम् अचलं ध्रुवम्
ब्रह्माद्यास् तन् न जानन्ति कथम् अन्ये ऽल्पमेधसः देव शुद्धस्वभावो ऽसि नित्यस् त्वं प्रकृतेः परः
अव्यक्तः शाश्वतो ऽनन्तः सर्वव्यापी महेश्वरः त्वम् आकाशः परः शान्तो अजस् त्वं विभुर् अव्ययः
एवं त्वां निर्गुणं स्तोतुं कः शक्नोति निरञ्जनम् स्तुतो ऽसि यन् मया देव विकलेनाल्पचेतसा तत् सर्वं देवदेवेश क्षन्तुम् अर्हसि चाव्यय
इत्थं स्तुतस् तदा तेन मार्कण्डेयेन भो द्विजाः प्रीतः प्रोवाच भगवान् मेघगम्भीरया गिरा
ब्रूहि कामं मुनिश्रेष्ठ यत् ते मनसि वर्तते ददामि सर्वं विप्रर्षे मत्तो यद् अभिवाञ्छसि
श्रुत्वा स वचनं विप्राः शिशोस् तस्य महात्मनः उवाच परमप्रीतो मुनिस् तद्गतमानसः
ज्ञातुम् इच्छामि देव त्वां मायां वै तव चोत्तमाम् त्वत्प्रसादाच् च देवेश स्मृतिर् न परिहीयते
द्रुतम् अन्तः शरीरेण सततं पर्यवर्तितम् इच्छामि पुण्डरीकाक्ष ज्ञातुं त्वाम् अहम् अव्ययम्
इह भूत्वा शिशुः साक्षात् किं भवान् अवतिष्ठते पीत्वा जगद् इदं सर्वम् एतद् आख्यातुम् अर्हसि
किमर्थं च जगत् सर्वं शरीरस्थं तवानघ कियन्तं च त्वया कालम् इह स्थेयम् अरिंदम
ज्ञातुम् इच्छामि देवेश ब्रूहि सर्वम् अशेषतः त्वत्तः कमलपत्त्राक्ष विस्तरेण यथातथम् महद् एतद् अचिन्त्यं च यद् अहं दृष्टवान् प्रभो
इत्य् उक्तः स तदा तेन देवदेवो महाद्युतिः सान्त्वयन् स तदा वाक्यम् उवाच वदतां वरः
कामं देवाश् च मां विप्र नहि जानन्ति तत्त्वतः तव प्रीत्या प्रवक्ष्यामि यथेदं विसृजाम्य् अहम्
पितृभक्तो ऽसि विप्रर्षे माम् एव शरणं गतः ततो दृष्टो ऽस्मि ते साक्षाद् ब्रह्मचर्यं च ते महत्
आपो नारा इति पुरा संज्ञाकर्म कृतं मया तेन नारायणो ऽस्म्य् उक्तो मम तास् त्व् अयनं सदा
अहं नारायणो नाम प्रभवः शाश्वतो ऽव्ययः विधाता सर्वभूतानां संहर्ता च द्विजोत्तम