यदासौ नागतश् चान्तं तस्य देहस्य भो द्विजाः तदा तं वरदं देवं शरणं गतवान् मुनिः
ततो ऽसौ सहसा विप्रा वायुवेगेन निःसृतः महात्मनो मुखात् तस्य विवृतात् पुरुषस्य सः
स निष्क्रम्योदरात् तस्य बालस्य मुनिसत्तमाः पुनश् चैकार्णवाम् उर्वीम् अपश्यज् जनवर्जिताम्
पूर्वदृष्टं च तं देवं ददर्श शिशुरूपिणम् शाखायां वटवृक्षस्य पर्यङ्कोपरि संस्थितम्
श्रीवत्सवक्षसं देवं पीतवस्त्रं चतुर्भुजम् जगद् आदाय तिष्ठन्तं पद्मपत्त्रायतेक्षणम्
सो ऽपि तं मुनिम् आयान्तं प्लवमानम् अचेतनम् दृष्ट्वा मुखाद् विनिष्क्रान्तं प्रोवाच प्रहसन्न् इव
कच्चित् त्वयोषितं वत्स विश्रान्तं च ममोदरे भ्रममाणश् च किं तत्र आश्चर्यं दृष्टवान् असि
भक्तो ऽसि मे मुनिश्रेष्ठ श्रान्तो ऽसि च ममाश्रितः तेन त्वाम् उपकाराय संभाषे पश्य माम् इह
श्रुत्वा स वचनं तस्य संप्रहृष्टतनूरुहः ददर्श तं सुदुष्प्रेक्षं रत्नैर् दिव्यैर् अलंकृतम्
प्रसन्ना निर्मला दृष्टिर् मुहूर्तात् तस्य भो द्विजाः प्रसादात् तस्य देवस्य प्रादुर्भूता पुनर् नवा
रक्ताङ्गुलितलौ पादौ ततस् तस्य सुरार्चितौ प्रणम्य शिरसा विप्रा हर्षगद्गदया गिरा
कृताञ्जलिस् तदा हृष्टो विस्मितश् च पुनः पुनः दृष्ट्वा तं परमात्मानं संस्तोतुम् उपचक्रमे
देवदेव जगन्नाथ मायाबालवपुर्धर त्राहि मां चारुपद्माक्ष दुःखितं शरणागतम्
संतप्तो ऽस्मि सुरश्रेष्ठ संवर्ताख्येन वह्निना अङ्गारवर्षभीतं च त्राहि मां पुरुषोत्तम
शोषितश् च प्रचण्डेन वायुना जगदायुना विह्वलो ऽहं तथा श्रान्तस् त्राहि मां पुरुषोत्तम
तापितश् च तशामात्यैः प्रलयावर्तकादिभिः न शान्तिम् अधिगच्छामि त्राहि मां पुरुषोत्तम
तृषितश् च क्षुधाविष्टो दुःखितश् च जगत्पते त्रातारं नात्र पश्यामि त्राहि मां पुरुषोत्तम
अस्मिन्न् एकार्णवे घोरे विनष्टे सचराचरे न चान्तम् अधिगच्छामि त्राहि मां पुरुषोत्तम
तवोदरे च देवेश मया दृष्टं चराचरम् विस्मितो ऽहं विषण्णश् च त्राहि मां पुरुषोत्तम
संसारे ऽस्मिन् निरालम्बे प्रसीद पुरुषोत्तम प्रसीद विबुधश्रेष्ठ प्रसीद विबुधप्रिय
प्रसीद विबुधां नाथ प्रसीद विबुधालय प्रसीद सर्वलोकेश जगत्कारणकारण
प्रसीद सर्वकृद् देव प्रसीद मम भूधर प्रसीद सलिलावास प्रसीद मधुसूदन
प्रसीद कमलाकान्त प्रसीद त्रिदशेश्वर प्रसीद कंसकेशीघ्न प्रसीदारिष्टनाशन
प्रसीद कृष्ण दैत्यघ्न प्रसीद दनुजान्तक प्रसीद मथुरावास प्रसीद यदुनन्दन
प्रसीद शक्रावरज प्रसीद वरदाव्यय त्वं मही त्वं जलं देव त्वम् अग्निस् त्वं समीरणः
त्वं नभस् त्वं मनश् चैव त्वम् अहंकार एव च त्वं बुद्धिः प्रकृतिश् चैव सत्त्वाद्यास् त्वं जगत्पते
पुरुषस् त्वं जगद्व्यापी पुरुषाद् अपि चोत्तमः त्वम् इन्द्रियाणि सर्वाणि शब्दाद्या विषयाः प्रभो
त्वं दिक्पालाश् च धर्माश् च वेदा यज्ञाः सदक्षिणाः त्वम् इन्द्रस् त्वं शिवो देवस् त्वं हविस् त्वं हुताशनः
त्वं यमः पितृराट् देव त्वं रक्षोधिपतिः स्वयम् वरुणस् त्वम् अपां नाथ त्वं वायुस् त्वं धनेश्वरः
त्वम् ईशानस् त्वम् अनन्तस् त्वं गणेशश् च षण्मुखः वसवस् त्वं तथा रुद्रास् त्वम् आदित्याश् च खेचराः