मेरुं च सर्वरत्नाढ्यं अपश्यत् कनकाचलम् नानारत्नान्वितैः शृङ्गैर् भूषितं बहुकन्दरम्
नानामुनिजनाकीर्णं नानावृक्षवनाकुलम् नानासत्त्वसमायुक्तं नानाश्चर्यसमन्वितम्
व्याघ्रैः सिंहैर् वराहैश् च चामरैर् महिषैर् गजैः मृगैः शाखामृगैश् चान्यैर् भूषितं सुमनोहरम्
शक्राद्यैर् विविधैर् देवैः सिद्धचारणपन्नगैः मुनियक्षाप्सरोभिश् च वृतैश् चान्यैः सुरालयैः
एवं सुमेरुं श्रीमन्तम् अपश्यन् मुनिसत्तमः पर्यटन् स तदा विप्रस् तस्य बालस्य चोदरे
हिमवन्तं हेमकूटं निषधं गन्धमादनम् श्वेतं च दुर्धरं नीलं कैलासं मन्दरं गिरिम्
महेन्द्रं मलयं विन्ध्यं पारियात्रं तथार्बुदम् सह्यं च शुक्तिमन्तं च मैनाकं वक्रपर्वतम्
एताश् चान्याश् च बहवो यावन्तः पृथिवीधराः ततस् तांस् तु मुनिश्रेष्ठाः सो ऽपश्यद् रत्नभूषितान्
कुरुक्षेत्रं च पाञ्चालान् मत्स्यान् मद्रान् सकेकयान् बाह्लीकान् शूरसेनांश् च काश्मीरांस् तङ्गणान् खसान्
पार्वतीयान् किरातांश् च कर्णप्रावरणान् मरून् अन्त्यजान् अन्त्यजातींश् च सो ऽपश्यत् तस्य चोदरे
मृगाञ् शाखामृगान् सिंहान् वराहान् सृमराञ् शशान् गजांश् चान्यांस् तथा सत्त्वान् सो ऽपश्यत् तस्य चोदरे
पृथिव्यां यानि तीर्थानि ग्रामाश् च नगराणि च कृषिगोरक्षवाणिज्यं क्रयविक्रयणं तथा
शक्रादीन् विबुधाञ् श्रेष्ठांस् तथान्यांश् च दिवौकसः गन्धर्वाप्सरसो यक्षान् ऋषींश् चैव सनातनान्
दैत्यदानवसंघांश् च नागांश् च मुनिसत्तमाः सिंहिकातनयांश् चैव ये चान्ये सुरशत्रवः
यत् किंचित् तेन लोके ऽस्मिन् दृष्टपूर्वं चराचरम् अपश्यत् स तदा सर्वं तस्य कुक्षौ द्विजोत्तमाः
अथवा किं बहूक्तेन कीर्तितेन पुनः पुनः ब्रह्मादिस्तम्बपर्यन्तं यत् किंचित् सचराचरम्
भूर्लोकं च भुवर्लोकं स्वर्लोकं च द्विजोत्तमाः महर् जनस् तपः सत्यम् अतलं वितलं तथा
पातालं सुतलं चैव वितलं च रसातलम् महातलं च ब्रह्माण्डम् अपश्यत् तस्य चोदरे
अव्याहता गतिस् तस्य तदाभूद् द्विजसत्तमाः प्रसादात् तस्य देवस्य स्मृतिलोपश् च नाभवत्
भ्रममाणस् तदा कुक्षौ कृत्स्नं जगद् इदं द्विजाः नान्तं जगाम देहस्य तस्य विष्णोः कदाचन
यदासौ नागतश् चान्तं तस्य देहस्य भो द्विजाः तदा तं वरदं देवं शरणं गतवान् मुनिः
ततो ऽसौ सहसा विप्रा वायुवेगेन निःसृतः महात्मनो मुखात् तस्य विवृतात् पुरुषस्य सः
स निष्क्रम्योदरात् तस्य बालस्य मुनिसत्तमाः पुनश् चैकार्णवाम् उर्वीम् अपश्यज् जनवर्जिताम्
पूर्वदृष्टं च तं देवं ददर्श शिशुरूपिणम् शाखायां वटवृक्षस्य पर्यङ्कोपरि संस्थितम्
श्रीवत्सवक्षसं देवं पीतवस्त्रं चतुर्भुजम् जगद् आदाय तिष्ठन्तं पद्मपत्त्रायतेक्षणम्
सो ऽपि तं मुनिम् आयान्तं प्लवमानम् अचेतनम् दृष्ट्वा मुखाद् विनिष्क्रान्तं प्रोवाच प्रहसन्न् इव
कच्चित् त्वयोषितं वत्स विश्रान्तं च ममोदरे भ्रममाणश् च किं तत्र आश्चर्यं दृष्टवान् असि
भक्तो ऽसि मे मुनिश्रेष्ठ श्रान्तो ऽसि च ममाश्रितः तेन त्वाम् उपकाराय संभाषे पश्य माम् इह
श्रुत्वा स वचनं तस्य संप्रहृष्टतनूरुहः ददर्श तं सुदुष्प्रेक्षं रत्नैर् दिव्यैर् अलंकृतम्
प्रसन्ना निर्मला दृष्टिर् मुहूर्तात् तस्य भो द्विजाः प्रसादात् तस्य देवस्य प्रादुर्भूता पुनर् नवा