स गत्वा शरणं देवं मुनिस् तद्गतमानसः ददर्श तं वटं भूयो विशालं सलिलोपरि
शाखायां तस्य सौवर्णं विस्तीर्णायां महाद्भुतम् रुचिरं दिव्यपर्यङ्कं रचितं विश्वकर्मणा
वज्रवैदूर्यरचितं मणिविद्रुमशोभितम् पद्मरागादिभिर् जुष्टं रत्नैर् अन्यैर् अलंकृतम्
नानास्तरणसंवीतं नानारत्नोपशोभितम् नानाश्चर्यसमायुक्तं प्रभामण्डलमण्डितम्
तस्योपरि स्थितं देवं कृष्णं बालवपुर्धरम् सूर्यकोटिप्रतीकाशं दीप्यमानं सुवर्चसम्
चतुर्भुजं सुन्दराङ्गं पद्मपत्त्रायतेक्षणम् श्रीवत्सवक्षसं देवं शङ्खचक्रगदाधरम्
वनमालावृतोरस्कं दिव्यकुण्डलधारिणम् हारभारार्पितग्रीवं दिव्यरत्नविभूषितम्
दृष्ट्वा तदा मुनिर् देवं विस्मयोत्फुल्ललोचनः रोमाञ्चिततनुर् देवं प्रणिपत्येदम् अब्रवीत्
अहो चैकार्णवे घोरे विनष्टे सचराचरे कथम् एको ह्य् अयं बालस् तिष्ठत्य् अत्र सुनिर्भयः
भूतं भव्यं भविष्यं च जानन्न् अपि महामुनिः न बुबोध तदा देवं मायया तस्य मोहितः यदा न बुबुधे चैनं तदा खेदाद् उवाच ह
वृथा मे तपसो वीर्यं वृथा ज्ञानं वृथा क्रिया वृथा मे जीवितं दीर्घं वृथा मानुष्यम् एव च
यो ऽहं सुप्तं न जानामि पर्यङ्के दिव्यबालकम्
एवं संचिन्तयन् विप्रः प्लवमानो विचेतनः त्राणार्थं विह्वलश् चासौ निर्वेदं गतवांस् तदा
ततो बालार्कसंकाशं स्वमहिम्ना व्यवस्थितम् सर्वतेजोमयं विप्रा न शशाकाभिवीक्षितुम्
दृष्ट्वा तं मुनिम् आयान्तं स बालः प्रहसन्न् इव प्रोवाच मुनिशार्दूलास् तदा मेघौघनिस्वनः
वत्स जानामि श्रान्तं त्वां त्राणार्थं माम् उपस्थितम् शरीरं विश मे क्षिप्रं विश्रामस् ते मयोदितः
श्रुत्वा स वचनं तस्य किंचिन् नोवाच मोहितः विवेश वदनं तस्य विवृतं चावशो मुनिः
स प्रविश्योदरे तस्य बालस्य मुनिसत्तमः ददर्श पृथिवीं कृत्स्नां नानाजनपदैर् वृताम्
लवणेक्षुसुरासर्पिर्दधिदुग्धजलोदधीन् ददर्श तान् समुद्रांश् च जम्बु प्लक्षं च शाल्मलम्
कुशं क्रौञ्चं च शाकं च पुष्करं च ददर्श सः भारतादीनि वर्षाणि तथा सर्वांश् च पर्वतान्
मेरुं च सर्वरत्नाढ्यं अपश्यत् कनकाचलम् नानारत्नान्वितैः शृङ्गैर् भूषितं बहुकन्दरम्
नानामुनिजनाकीर्णं नानावृक्षवनाकुलम् नानासत्त्वसमायुक्तं नानाश्चर्यसमन्वितम्
व्याघ्रैः सिंहैर् वराहैश् च चामरैर् महिषैर् गजैः मृगैः शाखामृगैश् चान्यैर् भूषितं सुमनोहरम्
शक्राद्यैर् विविधैर् देवैः सिद्धचारणपन्नगैः मुनियक्षाप्सरोभिश् च वृतैश् चान्यैः सुरालयैः
एवं सुमेरुं श्रीमन्तम् अपश्यन् मुनिसत्तमः पर्यटन् स तदा विप्रस् तस्य बालस्य चोदरे
हिमवन्तं हेमकूटं निषधं गन्धमादनम् श्वेतं च दुर्धरं नीलं कैलासं मन्दरं गिरिम्
महेन्द्रं मलयं विन्ध्यं पारियात्रं तथार्बुदम् सह्यं च शुक्तिमन्तं च मैनाकं वक्रपर्वतम्
एताश् चान्याश् च बहवो यावन्तः पृथिवीधराः ततस् तांस् तु मुनिश्रेष्ठाः सो ऽपश्यद् रत्नभूषितान्
कुरुक्षेत्रं च पाञ्चालान् मत्स्यान् मद्रान् सकेकयान् बाह्लीकान् शूरसेनांश् च काश्मीरांस् तङ्गणान् खसान्
पार्वतीयान् किरातांश् च कर्णप्रावरणान् मरून् अन्त्यजान् अन्त्यजातींश् च सो ऽपश्यत् तस्य चोदरे