निमज्जन् स तदा विप्राः संतर्तुम् उपचक्रमे बभ्रामासौ मुनिश् चार्त इतश् चेतश् च संप्लवन्
निममज्ज तदा विप्रास् त्रातारं नाधिगच्छति एवं तं विह्वलं दृष्ट्वा कृपया पुरुषोत्तमः प्रोवाच मुनिशार्दूलास् तदा ध्यानेन तोषितः
वत्स श्रान्तो ऽसि बालस् त्वं भक्तत्र मम सुव्रत आगच्छागच्छ शीघ्रं त्वं मार्कण्डेय ममान्तिकम्
मा त्वयैव च भेतव्यं संप्राप्तो ऽसि ममाग्रतः मार्कण्डेय मुने धीर बालस् त्वं श्रमपीडितः
तस्य तद् वचनं श्रुत्वा मुनिः परमकोपितः उवाच स तदा विप्रा विस्मितश् चाभवन् मुहुः
को ऽयं नाम्ना कीर्तयति तपः परिभवन्न् इव बहुवर्षसहस्राख्यं धर्षयन्न् इव मे वपुः
न ह्य् एष समुदाचारो देवेष्व् अपि समाहितः मां ब्रह्मा स च देवेशो दीर्घायुर् इति भाषते
कस् तपो घोरशिरसो ममाद्य त्यक्तजीवितः मार्कण्डेयेति चोक्त्वा मन्मृत्युं गन्तुम् इहेच्छति
एवम् उक्त्वा तदा विप्राश् चिन्ताविष्टो ऽभवन् मुनिः किं स्वप्नो ऽयं मया दृष्टः किं वा मोहो ऽयम् आगतः
इत्थं चिन्तयतस् तस्य उत्पन्ना दुःखहा मतिः व्रजामि शरणं देवं भक्त्याहं पुरुषोत्तमम्
स गत्वा शरणं देवं मुनिस् तद्गतमानसः ददर्श तं वटं भूयो विशालं सलिलोपरि
शाखायां तस्य सौवर्णं विस्तीर्णायां महाद्भुतम् रुचिरं दिव्यपर्यङ्कं रचितं विश्वकर्मणा
वज्रवैदूर्यरचितं मणिविद्रुमशोभितम् पद्मरागादिभिर् जुष्टं रत्नैर् अन्यैर् अलंकृतम्
नानास्तरणसंवीतं नानारत्नोपशोभितम् नानाश्चर्यसमायुक्तं प्रभामण्डलमण्डितम्
तस्योपरि स्थितं देवं कृष्णं बालवपुर्धरम् सूर्यकोटिप्रतीकाशं दीप्यमानं सुवर्चसम्
चतुर्भुजं सुन्दराङ्गं पद्मपत्त्रायतेक्षणम् श्रीवत्सवक्षसं देवं शङ्खचक्रगदाधरम्
वनमालावृतोरस्कं दिव्यकुण्डलधारिणम् हारभारार्पितग्रीवं दिव्यरत्नविभूषितम्
दृष्ट्वा तदा मुनिर् देवं विस्मयोत्फुल्ललोचनः रोमाञ्चिततनुर् देवं प्रणिपत्येदम् अब्रवीत्
अहो चैकार्णवे घोरे विनष्टे सचराचरे कथम् एको ह्य् अयं बालस् तिष्ठत्य् अत्र सुनिर्भयः
भूतं भव्यं भविष्यं च जानन्न् अपि महामुनिः न बुबोध तदा देवं मायया तस्य मोहितः यदा न बुबुधे चैनं तदा खेदाद् उवाच ह
वृथा मे तपसो वीर्यं वृथा ज्ञानं वृथा क्रिया वृथा मे जीवितं दीर्घं वृथा मानुष्यम् एव च
यो ऽहं सुप्तं न जानामि पर्यङ्के दिव्यबालकम्
एवं संचिन्तयन् विप्रः प्लवमानो विचेतनः त्राणार्थं विह्वलश् चासौ निर्वेदं गतवांस् तदा
ततो बालार्कसंकाशं स्वमहिम्ना व्यवस्थितम् सर्वतेजोमयं विप्रा न शशाकाभिवीक्षितुम्
दृष्ट्वा तं मुनिम् आयान्तं स बालः प्रहसन्न् इव प्रोवाच मुनिशार्दूलास् तदा मेघौघनिस्वनः
वत्स जानामि श्रान्तं त्वां त्राणार्थं माम् उपस्थितम् शरीरं विश मे क्षिप्रं विश्रामस् ते मयोदितः
श्रुत्वा स वचनं तस्य किंचिन् नोवाच मोहितः विवेश वदनं तस्य विवृतं चावशो मुनिः
स प्रविश्योदरे तस्य बालस्य मुनिसत्तमः ददर्श पृथिवीं कृत्स्नां नानाजनपदैर् वृताम्
लवणेक्षुसुरासर्पिर्दधिदुग्धजलोदधीन् ददर्श तान् समुद्रांश् च जम्बु प्लक्षं च शाल्मलम्
कुशं क्रौञ्चं च शाकं च पुष्करं च ददर्श सः भारतादीनि वर्षाणि तथा सर्वांश् च पर्वतान्