निर्दहन् नागलोकं च यच् च किंचित् क्षिताव् इह अधस्तान् मुनिशार्दूलाः सर्वं नाशयते क्षणात्
ततो योजनविंशानां सहस्राणि शतानि च निर्दहत्य् आशुगो वायुः स च संवर्तको ऽनलः
सदेवासुरगन्धर्वं सयक्षोरगराक्षसम् ततो दहति संदीप्तः सर्वम् एव जगत् प्रभुः
प्रदीप्तो ऽसौ महारौद्रः कल्पाग्निर् इति संश्रुतः महाज्वालो महार्चिष्मान् संप्रदीप्तमहास्वनः
सूर्यकोटिप्रतीकाशो ज्वलन्न् इव स तेजसा त्रैलोक्यं चादहत् तूर्णं ससुरासुरमानुषम्
एवंविधे महाघोरे महाप्रलयदारुणे ऋषिः परमधर्मात्मा ध्यानयोगपरो ऽभवत्
एकः संतिष्ठते विप्रा मार्कण्डेयेति विश्रुतः मोहपाशैर् निबद्धो ऽसौ क्षुत्तृष्णाकुलितेन्द्रियाः
स दृष्ट्वा तं महावह्निं शुष्ककण्ठौष्ठतालुकः तृष्णार्तः प्रस्खलन् विप्रास् तदासौ भयविह्वलः
बभ्राम पृथिवीं सर्वां कांदिशीको विचेतनः त्रातारं नाधिगच्छन् वै इतश् चेतश् च धावति
न लेभे च तदा शर्म यत्र विश्राम्यता द्विजाः करोमि किं न जानामि यस्याहं शरणं व्रजे
कथं पश्यामि तं देवं पुरुषेशं सनातनम् इति संचिन्तयन् देवम् एकाग्रेण सनातनम्
प्राप्तवांस् तत् पदं दिव्यं महाप्रलयकारणम् पुरुषेशम् इति ख्यातं वटराजं सनातनम्
त्वरायुक्तो मुनिश् चासौ न्यग्रोधस्यान्तिकं ययौ आसाद्य तं मुनिश्रेष्ठास् तस्य मूले समाविशत्
न कालाग्निभयं तत्र न चाङ्गारप्रवर्षणम् न संवर्तागमस् तत्र न च वज्राशनिस् तथा
ततो गजकुलप्रख्यास् तडिन्मालाविभूषिताः समुत्तस्थुर् महामेघा नभस्य् अद्भुतदर्शनाः
केचिन् नीलोत्पलश्यामाः केचित् कुमुदसंनिभाः केचित् किञ्जल्कसंकाशाः केचित् पीताः पयोधराः
केचिद् धरितसंकाशाः काकाण्डसंनिभास् तथा केचित् कमलपत्त्राभाः केचिद् धिङ्गुलसंनिभाः
केचित् पुरवराकाराः केचिद् गिरिवरोपमाः केचिद् अञ्जनसंकाशाः केचिन् मरकतप्रभाः
विद्युन्मालापिनद्धाङ्गाः समुत्तस्थुर् महाघनाः घोररूपा महाभागा घोरस्वननिनादिताः
ततो जलधराः सर्वे समावृण्वन् नभस्तलम् तैर् इयं पृथिवी सर्वा सपर्वतवनाकरा
आपूरिता दिशः सर्वाः सलिलौघपरिप्लुताः ततस् ते जलदा घोरा वारिणा मुनिसत्तमाः
सर्वतः प्लावयाम् आसुश् चोदिताः परमेष्ठिना वर्षमाणा महातोयं पूरयन्तो वसुंधराम्
सुघोरम् अशिवं रौद्रं नाशयन्ति स्म पावकम् ततो द्वादश वर्षाणि पयोदाः समुपप्लवे
धाराभिः पूरयन्तो वै चोद्यमाना महात्मना ततः समुद्राः स्वां वेलाम् अतिक्रामन्ति भो द्विजाः
पर्वताश् च व्यशीर्यन्त मही चाप्सु निमज्जति सर्वतः सुमहाभ्रान्तास् ते पयोदा नभस्तलम्
संवेष्टयित्वा नश्यन्ति वायुवेगसमाहताः ततस् तं मारुतं घोरं स विष्णुर् मुनिसत्तमाः
आदिपद्मालयो देवः पीत्वा स्वपिति भो द्विजाः तस्मिन्न् एकार्णवे घोरे नष्टे स्थावरजङ्गमे
नष्टे देवासुरनरे यक्षराक्षसवर्जिते ततो मुनिः स विश्रान्तो ध्यात्वा च पुरुषोत्तमम्
ददर्श चक्षुर् उन्मील्य जलपूर्णां वसुंधराम् नापश्यत् तं वटं नोर्वीं न दिगादि न भास्करम्
न चन्द्रार्काग्निपवनं न देवासुरपन्नगम् तस्मिन्न् एकार्णवे घोरे तमोभूते निराश्रये