स तु राजा तदा हृष्टो रोमाञ्चिततनूरुहः कृतकृत्यम् इवात्मानं मेने संदर्शनाद् धरेः
ततः कृष्णं च रामं च सुभद्रां च वरप्रदाम् रथैर् विमानसंकाशैर् मणिकाञ्चनचित्रितैः
संवाह्य तास् तदा राजा महामङ्गलनिःस्वनैः आनयाम् आस मतिमान् सामात्यः सपुरोहितः
नानावादित्रनिर्घोषैर् नानावेदस्वनैः शुभैः संस्थाप्य च शुभे देशे पवित्रे सुमनोहरे
ततः शुभतिथौ काले नक्षत्रे शुभलक्षणे प्रतिष्ठां कारयाम् आस सुमुहूर्ते द्विजैः सह
यथोक्तेन विधानेन विधिदृष्टेन कर्मणा आचार्यानुमतेनैव सर्वं कृत्वा महीपतिः
आचार्याय तदा दत्त्वा दक्षिणां विधिवत् प्रभुः ऋत्विग्भ्यश् च विधानेन तथान्येभ्यो धनं ददौ
कृत्वा प्रतिष्ठां विधिवत् प्रासादे भवनोत्तमे स्थापयाम् आस तान् सर्वान् विधिदृष्टेन कर्मणा
ततः संपूज्य विधिना नानापुष्पैः सुगन्धिभिः सुवर्णमणिमुक्ताद्यैर् नानावस्त्रैः सुशोभनैः
रत्नैश् च विविधैर् दिव्यैर् आसनैर् ग्रामपत्तनैः ददौ चान्यान् स विषयान् पुराणि नगराणि च
एवं बहुविधं दत्त्वा राज्यं कृत्वा यथोचितम् इष्ट्वा च विविधैर् यज्ञैर् दत्त्वा दानान्य् अनेकशः
कृतकृत्यस् ततो राजा त्यक्तसर्वपरिग्रहः जगाम परमं स्थानं तद् विष्णोः परमं पदम्
एवं मया मुनिश्रेष्ठाः कथितो वो नृपोत्तमः क्षेत्रस्य चैव माहात्म्यं किम् अन्यच् छ्रोतुम् इच्छथ
श्रुत्वैवं वचनं तस्य ब्रह्मणो ऽव्यक्तजन्मनः आश्चर्यं मेनिरे विप्राः पप्रच्छुश् च पुनर् मुदा
कस्मिन् काले सुरश्रेष्ठ गन्तव्यं पुरुषोत्तमम् विधिना केन कर्तव्यं पञ्चतीर्थम् इति प्रभो
एकैकस्य च तीर्थस्य स्नानदानस्य यत् फलम् देवताप्रेक्षणे चैव ब्रूहि सर्वं पृथक् पृथक्
निराहारः कुरुक्षेत्रे पादेनैकेन यस् तपेत् जितेन्द्रियो जितक्रोधः सप्तसंवत्सरायुतम्
दृष्ट्वा सदा ज्येष्ठशुक्लद्वादश्यां पुरुषोत्तमम् कृतोपवासः प्राप्नोति ततो ऽधिकतरं फलम्
तस्माज् ज्येष्ठे मुनिश्रेष्ठाः प्रयत्नेन सुसंयतैः स्वर्गलोकेप्सुविप्राद्यैर् द्रष्टव्यः पुरुषोत्तमः
पञ्चतीर्थं तु विधिवत् कृत्वा ज्येष्ठे नरोत्तमः शुक्लपक्षस्य द्वादश्यां पश्येत् तं पुरुषोत्तमम्
ये पश्यन्त्य् अव्ययं देवं द्वादश्यां पुरुषोत्तमम् ते विष्णुलोकम् आसाद्य न च्यवन्ते कदाचन
तस्माज् ज्येष्ठे प्रयत्नेन गन्तव्यं भो द्विजोत्तमाः कृत्वा तस्मिन् पञ्चतीर्थं द्रष्टव्यः पुरुषोत्तमः
सुदूरस्थो ऽपि यो भक्त्या कीर्तयेत् पुरुषोत्तमम् अहन्य् अहनि शुद्धात्मा सो ऽपि विष्णुपुरं व्रजेत्
यात्रां करोति कृष्णस्य श्रद्धया यः समाहितः सर्वपापविनिर्मुक्तो विष्णुलोकं व्रजेन् नरः
चक्रं दृष्ट्वा हरेर् दूरात् प्रासादोपरि संस्थितम् सहसा मुच्यते पापान् नरो भक्त्या प्रणम्य तत्
आसीत् कल्पे मुनिश्रेष्ठाः संप्रवृत्ते महाक्षये नष्टे ऽर्कचन्द्रे पवने नष्टे स्थावरजङ्गमे
उदिते प्रलयादित्ये प्रचण्डे घनगर्जिते विद्युदुत्पातसंघातैः संभग्ने तरुपर्वते
लोके च संहृते सर्वे महदुल्कानिबर्हणे शुष्केषु सर्वतोयेषु सरःसु च सरित्सु च
ततः संवर्तको वह्निर् वायुना सह भो द्विजाः लोकं तु प्राविशत् सर्वम् आदित्यैर् उपशोभितम्
पश्चात् स पृथिवीं भित्त्वा प्रविश्य च रसातलम् देवदानवयक्षाणां भयं जनयते महत्