आषाढस्य सिते पक्षे पञ्चम्यां पितृदैवते ऋक्षे नेष्यन्ति नस् तत्र नीत्वा सप्त दिनानि वै
मण्डपे स्थापयिष्यन्ति सुवेश्याभिः सुशोभनैः क्रीडाविशेषबहुलैर् नृत्यगीतमनोहरैः
चामरैः स्वर्णदण्डैश् च व्यजनै रत्नभूषणैः वीजयन्तस् तथास्मभ्यं स्थापयिष्यन्ति मङ्गलाः
ब्रह्मचारी यतिश् चैव स्नातकाश् च द्विजोत्तमाः वानप्रस्था गृहस्थाश् च सिद्धाश् चान्ये च ब्राह्मणाः
नानावर्णपदैः स्तोत्रैर् ऋग्यजुःसामनिस्वनैः करिष्यन्ति स्तुतिं राजन् रामकेशवयोः पुनः
ततः स्तुत्वा च दृष्ट्वा च संप्रणम्य च भक्तितः नरो वर्षायुतं दिव्यं श्रीमद्धरिपुरे वसेत्
पूज्यमानो ऽप्सरोभिश् च गन्धर्वैर् गीतनिस्वनैः हरेर् अनुचरस् तत्र क्रीडते केशवेन वै
विमानेनार्कवर्णेन रत्नहारेण भ्राजता सर्वकामैर् महाभोगैस् तिष्ठते भुवनोत्तमे
तपःक्षयादिहागत्य मनुष्यो ब्राह्मणो भवेत् कोटीधनपतिः श्रीमांश् चतुर्वेदी भवेद् ध्रुवम्
एवं तस्मै वरं दत्त्वा कृत्वा च समयं हरिः जगामादर्शनं विप्राः सहितो विश्वकर्मणा
स तु राजा तदा हृष्टो रोमाञ्चिततनूरुहः कृतकृत्यम् इवात्मानं मेने संदर्शनाद् धरेः
ततः कृष्णं च रामं च सुभद्रां च वरप्रदाम् रथैर् विमानसंकाशैर् मणिकाञ्चनचित्रितैः
संवाह्य तास् तदा राजा महामङ्गलनिःस्वनैः आनयाम् आस मतिमान् सामात्यः सपुरोहितः
नानावादित्रनिर्घोषैर् नानावेदस्वनैः शुभैः संस्थाप्य च शुभे देशे पवित्रे सुमनोहरे
ततः शुभतिथौ काले नक्षत्रे शुभलक्षणे प्रतिष्ठां कारयाम् आस सुमुहूर्ते द्विजैः सह
यथोक्तेन विधानेन विधिदृष्टेन कर्मणा आचार्यानुमतेनैव सर्वं कृत्वा महीपतिः
आचार्याय तदा दत्त्वा दक्षिणां विधिवत् प्रभुः ऋत्विग्भ्यश् च विधानेन तथान्येभ्यो धनं ददौ
कृत्वा प्रतिष्ठां विधिवत् प्रासादे भवनोत्तमे स्थापयाम् आस तान् सर्वान् विधिदृष्टेन कर्मणा
ततः संपूज्य विधिना नानापुष्पैः सुगन्धिभिः सुवर्णमणिमुक्ताद्यैर् नानावस्त्रैः सुशोभनैः
रत्नैश् च विविधैर् दिव्यैर् आसनैर् ग्रामपत्तनैः ददौ चान्यान् स विषयान् पुराणि नगराणि च
एवं बहुविधं दत्त्वा राज्यं कृत्वा यथोचितम् इष्ट्वा च विविधैर् यज्ञैर् दत्त्वा दानान्य् अनेकशः
कृतकृत्यस् ततो राजा त्यक्तसर्वपरिग्रहः जगाम परमं स्थानं तद् विष्णोः परमं पदम्
एवं मया मुनिश्रेष्ठाः कथितो वो नृपोत्तमः क्षेत्रस्य चैव माहात्म्यं किम् अन्यच् छ्रोतुम् इच्छथ
श्रुत्वैवं वचनं तस्य ब्रह्मणो ऽव्यक्तजन्मनः आश्चर्यं मेनिरे विप्राः पप्रच्छुश् च पुनर् मुदा
कस्मिन् काले सुरश्रेष्ठ गन्तव्यं पुरुषोत्तमम् विधिना केन कर्तव्यं पञ्चतीर्थम् इति प्रभो
एकैकस्य च तीर्थस्य स्नानदानस्य यत् फलम् देवताप्रेक्षणे चैव ब्रूहि सर्वं पृथक् पृथक्
निराहारः कुरुक्षेत्रे पादेनैकेन यस् तपेत् जितेन्द्रियो जितक्रोधः सप्तसंवत्सरायुतम्
दृष्ट्वा सदा ज्येष्ठशुक्लद्वादश्यां पुरुषोत्तमम् कृतोपवासः प्राप्नोति ततो ऽधिकतरं फलम्
तस्माज् ज्येष्ठे मुनिश्रेष्ठाः प्रयत्नेन सुसंयतैः स्वर्गलोकेप्सुविप्राद्यैर् द्रष्टव्यः पुरुषोत्तमः
पञ्चतीर्थं तु विधिवत् कृत्वा ज्येष्ठे नरोत्तमः शुक्लपक्षस्य द्वादश्यां पश्येत् तं पुरुषोत्तमम्