कीर्तिश् च तव राजेन्द्र भवत्य् अत्र महीतले यावद् घना नभो यावद् यावच् चन्द्रार्कतारकम्
यावत् समुद्राः सप्तैव यावन् मेर्वादिपर्वताः तिष्ठन्ति दिवि देवाश् च तावत् सर्वत्र चाव्यया
इन्द्रद्युम्नसरो नाम तीर्थं यज्ञाङ्गसंभवम् यत्र स्नात्वा सकृल् लोकः शक्रलोकम् अवाप्नुयात्
दापयिष्यति यः पिण्डांस् तटे ऽस्मिन् सरसः शुभे कुलैकविंशम् उद्धृत्य शक्रलोकं गमिष्यति
पूज्यमानो ऽप्सरोभिश् च गन्धर्वैर् गीतनिस्वनैः विमानेन वसेत् तत्र यावद् इन्द्राश् चतुर्दश
सरसो दक्षिणे भागे नैरृत्यां तु समाश्रिते न्यग्रोधस् तिष्ठते तत्र तत्समीपे तु मण्डपः
केतकीवनसंछन्नो नानापादपसंकुलः नारिकेलैर् असंख्येयैश् चम्पकैर् बकुलावृतैः
अशोकैः कर्णिकारैश् च पुंनागैर् नागकेसरैः पाटलाम्रातसरलैश् चन्दनैर् देवदारुभिः
न्यग्रोधाश्वत्थखदिरैः पारिजातैः सहार्जुनैः हिन्तालैश् चैव तालैश् च शिंशपैर् बदरैस् तथा
करञ्जैर् लकुचैः प्लक्षैः पनसैर् बिल्वधातुकैः अन्यैर् बहुविधैर् वृक्षैः शोभितः समलंकृतः
आषाढस्य सिते पक्षे पञ्चम्यां पितृदैवते ऋक्षे नेष्यन्ति नस् तत्र नीत्वा सप्त दिनानि वै
मण्डपे स्थापयिष्यन्ति सुवेश्याभिः सुशोभनैः क्रीडाविशेषबहुलैर् नृत्यगीतमनोहरैः
चामरैः स्वर्णदण्डैश् च व्यजनै रत्नभूषणैः वीजयन्तस् तथास्मभ्यं स्थापयिष्यन्ति मङ्गलाः
ब्रह्मचारी यतिश् चैव स्नातकाश् च द्विजोत्तमाः वानप्रस्था गृहस्थाश् च सिद्धाश् चान्ये च ब्राह्मणाः
नानावर्णपदैः स्तोत्रैर् ऋग्यजुःसामनिस्वनैः करिष्यन्ति स्तुतिं राजन् रामकेशवयोः पुनः
ततः स्तुत्वा च दृष्ट्वा च संप्रणम्य च भक्तितः नरो वर्षायुतं दिव्यं श्रीमद्धरिपुरे वसेत्
पूज्यमानो ऽप्सरोभिश् च गन्धर्वैर् गीतनिस्वनैः हरेर् अनुचरस् तत्र क्रीडते केशवेन वै
विमानेनार्कवर्णेन रत्नहारेण भ्राजता सर्वकामैर् महाभोगैस् तिष्ठते भुवनोत्तमे
तपःक्षयादिहागत्य मनुष्यो ब्राह्मणो भवेत् कोटीधनपतिः श्रीमांश् चतुर्वेदी भवेद् ध्रुवम्
एवं तस्मै वरं दत्त्वा कृत्वा च समयं हरिः जगामादर्शनं विप्राः सहितो विश्वकर्मणा
स तु राजा तदा हृष्टो रोमाञ्चिततनूरुहः कृतकृत्यम् इवात्मानं मेने संदर्शनाद् धरेः
ततः कृष्णं च रामं च सुभद्रां च वरप्रदाम् रथैर् विमानसंकाशैर् मणिकाञ्चनचित्रितैः
संवाह्य तास् तदा राजा महामङ्गलनिःस्वनैः आनयाम् आस मतिमान् सामात्यः सपुरोहितः
नानावादित्रनिर्घोषैर् नानावेदस्वनैः शुभैः संस्थाप्य च शुभे देशे पवित्रे सुमनोहरे
ततः शुभतिथौ काले नक्षत्रे शुभलक्षणे प्रतिष्ठां कारयाम् आस सुमुहूर्ते द्विजैः सह
यथोक्तेन विधानेन विधिदृष्टेन कर्मणा आचार्यानुमतेनैव सर्वं कृत्वा महीपतिः
आचार्याय तदा दत्त्वा दक्षिणां विधिवत् प्रभुः ऋत्विग्भ्यश् च विधानेन तथान्येभ्यो धनं ददौ
कृत्वा प्रतिष्ठां विधिवत् प्रासादे भवनोत्तमे स्थापयाम् आस तान् सर्वान् विधिदृष्टेन कर्मणा
ततः संपूज्य विधिना नानापुष्पैः सुगन्धिभिः सुवर्णमणिमुक्ताद्यैर् नानावस्त्रैः सुशोभनैः
रत्नैश् च विविधैर् दिव्यैर् आसनैर् ग्रामपत्तनैः ददौ चान्यान् स विषयान् पुराणि नगराणि च