सर्वलक्षणसंपन्नाः प्रतिमाः सुमनोहराः विस्मयं परमं गत्वा इदं वचनम् अब्रवीत्
किं देवौ समनुप्राप्तौ द्विजरूपधराव् उभौ उभौ चाद्भुतकर्माणौ देववृत्ताव् अमानुषौ
देवौ वा मानुषौ वापि यक्षविद्याधरौ युवाम् किं नु ब्रह्महृषीकेशौ किं वसू किम् उताश्विनौ
न वेद्मि सत्यसद्भावौ मायारूपेण संस्थितौ युवां गतो ऽस्मि शरणम् आत्मा तु मे प्रकाश्यताम्
नाहं देवो न यक्षो वा न दैत्यो न च देवराट् न ब्रह्मा न च रुद्रो ऽहं विद्धि मां पुरुषोत्तमम्
अर्तिहा सर्वलोकानाम् अनन्तबलपौरुषः आराधनीयो भूतानाम् अन्तो यस्य न विद्यते
पठ्यते सर्वशास्त्रेषु वेदान्तेषु निगद्यते यम् आहुर् ज्ञानगम्येति वासुदेवेति योगिनः
अहम् एव स्वयं ब्रह्मा अहं विष्णुः शिवो ऽप्य् अहम् इन्द्रो ऽहं देवराजश् च जगत्संयमनो यमः
पृथिव्यादीनि भूतानि त्रेताग्निर् हुतभुङ् नृप वरुणो ऽपां पतिश् चाहं धरित्री च महीधरः
यत् किंचिद् वाङ्मयं लोके जगत् स्थावरजङ्गमम् चराचरं च यद् विश्वं मदन्यन् नास्ति किंचन
प्रीतो ऽहं ते नृपश्रेष्ठ वरं वरय सुव्रत यद् इष्टं तत् प्रयच्छामि हृदि यत् ते व्यवस्थितम्
मद्दर्शनम् अपुण्यानां स्वप्नान्ते ऽपि न जायते त्वं पुनर् दृढभक्तित्वात् प्रत्यक्षं दृष्टवान् असि
श्रुत्वैवं वासुदेवस्य वचनं तस्य भो द्विजाः रोमाञ्चिततनुर् भूत्वा इदं स्तोत्रं जगौ नृपः
श्रियः कान्त नमस् ते ऽस्तु श्रीपते पीतवाससे श्रीद श्रीश श्रीनिवास नमस् ते श्रीनिकेतन
आद्यं पुरुषम् ईशानं सर्वेशं सर्वतोमुखम् निष्कलं परमं देवं प्रणतो ऽस्मि सनातनम्
शब्दातीतं गुणातीतं भावाभावविवर्जितम् निर्लेपं निर्गुणं सूक्ष्मं सर्वज्ञं सर्वभावनम्
प्रावृण्मेघप्रतीकाशं गोब्राह्मणहिते रतम् सर्वेषाम् एव गोप्तारं व्यापिनं सर्वभाविनम्
शङ्खचक्रधरं देवं गदामुशलधारिणम् नमस्ये वरदं देवं नीलोत्पलदलच्छविम्
नागपर्यङ्कशयनं क्षीरोदार्णवशायिनम् नमस्ये ऽहं हृषीकेशं सर्वपापहरं हरिम्
पुनस् त्वां देवदेवेशं नमस्ये वरदं विभुम् सर्वलोकेश्वरं विष्णुं मोक्षकारणम् अव्ययम्
एवं स्तुत्वा तु तं देवं प्रणिपत्य कृताञ्जलिः उवाच प्रणतो भूत्वा निपत्य धरणीतले
प्रीतो ऽसि यदि मे नाथ वृणोमि वरम् उत्तमम् देवासुराः सगन्धर्वा यक्षरक्षोमहोरगाः
सिद्धविद्याधराः साध्याः किंनरा गुह्यकास् तथा ऋषयो ये महाभागा नानाशास्त्रविशारदाः
परिव्राड्योगयुक्ताश् च वेदतत्त्वार्थचिन्तकाः मोक्षमार्गविदो ये ऽन्ये ध्यायन्ति परमं पदम्
निर्गुणं निर्मलं शान्तं यत् पश्यन्ति मनीषिनः तत् पदं गन्तुम् इच्छामि त्वत्प्रसादात् सुदुर्लभम्
सर्वं भवतु भद्रं ते यथेष्टं सर्वम् आप्नुहि भविष्यति यथाकामं मत्प्रसादान् न संशयः
दश वर्षसहस्राणि तथा नव शतानि च अविच्छिन्नं महाराज्यं कुरु त्वं नृपसत्तम
प्रयास्यसि पदं दिव्यं दुर्लभं यत् सुरासुरैः पूर्णमनोरथं शान्तं गुह्यम् अव्यक्तम् अव्ययम्
परात् परतरं सूक्ष्मं निर्लेपं निष्कलं ध्रुवम् चिन्ताशोकविनिर्मुक्तं क्रियाकारणवर्जितम्
तद् अहं दर्शयिष्यामि ज्ञेयाख्यं परमं पदम् यं प्राप्य परमानन्दं प्राप्स्यसि परमां गतिम्