न विज्ञातो हि तस्यान्तस् तेनानन्त इति स्मृतः भगिनीं वासुदेवस्य रुक्मवर्णां सुशोभनाम्
तृतीयां वै सुभद्रां च सर्वलक्षणलक्षिताम्
श्रुत्वैतद् वचनं तस्य विश्वकर्मा सुकर्मकृत् तत्क्षणात् कारयाम् आस प्रतिमाः शुभलक्षणाः
प्रथमं शुक्लवर्णाभं शारदेन्दुसमप्रभम् आरक्ताक्षं महाकायं स्फटाविकटमस्तकम्
नीलाम्बरधरं चोग्रं बलं बलमदोद्धतम् कुण्डलैकधरं दिव्यं गदामुशलधारिणम्
द्वितीयं पुण्डरीकाक्षं नीलजीमूतसंनिभम् अतसीपुष्पसंकाशं पद्मपत्त्रायतेक्षणम्
पीतवाससम् अत्युग्रं शुभं श्रीवत्सलक्षणम् चक्रपूर्णकरं दिव्यं सर्वपापहरं हरिम्
तृतीयां स्वर्णवर्णाभां पद्मपत्त्रायतेक्षणाम् विचित्रवस्त्रसंछन्नां हारकेयूरभूषिताम्
विचित्राभरणोपेतां रत्नहारावलम्बिताम् पीनोन्नतकुचां रम्यां विश्वकर्मा विनिर्ममे
स तु राजाद्भुतं दृष्ट्वा क्षणेनैकेन निर्मिताः दिव्यवस्त्रयुगच्छन्ना नानारत्नैर् अलंकृताः
सर्वलक्षणसंपन्नाः प्रतिमाः सुमनोहराः विस्मयं परमं गत्वा इदं वचनम् अब्रवीत्
किं देवौ समनुप्राप्तौ द्विजरूपधराव् उभौ उभौ चाद्भुतकर्माणौ देववृत्ताव् अमानुषौ
देवौ वा मानुषौ वापि यक्षविद्याधरौ युवाम् किं नु ब्रह्महृषीकेशौ किं वसू किम् उताश्विनौ
न वेद्मि सत्यसद्भावौ मायारूपेण संस्थितौ युवां गतो ऽस्मि शरणम् आत्मा तु मे प्रकाश्यताम्
नाहं देवो न यक्षो वा न दैत्यो न च देवराट् न ब्रह्मा न च रुद्रो ऽहं विद्धि मां पुरुषोत्तमम्
अर्तिहा सर्वलोकानाम् अनन्तबलपौरुषः आराधनीयो भूतानाम् अन्तो यस्य न विद्यते
पठ्यते सर्वशास्त्रेषु वेदान्तेषु निगद्यते यम् आहुर् ज्ञानगम्येति वासुदेवेति योगिनः
अहम् एव स्वयं ब्रह्मा अहं विष्णुः शिवो ऽप्य् अहम् इन्द्रो ऽहं देवराजश् च जगत्संयमनो यमः
पृथिव्यादीनि भूतानि त्रेताग्निर् हुतभुङ् नृप वरुणो ऽपां पतिश् चाहं धरित्री च महीधरः
यत् किंचिद् वाङ्मयं लोके जगत् स्थावरजङ्गमम् चराचरं च यद् विश्वं मदन्यन् नास्ति किंचन
प्रीतो ऽहं ते नृपश्रेष्ठ वरं वरय सुव्रत यद् इष्टं तत् प्रयच्छामि हृदि यत् ते व्यवस्थितम्
मद्दर्शनम् अपुण्यानां स्वप्नान्ते ऽपि न जायते त्वं पुनर् दृढभक्तित्वात् प्रत्यक्षं दृष्टवान् असि
श्रुत्वैवं वासुदेवस्य वचनं तस्य भो द्विजाः रोमाञ्चिततनुर् भूत्वा इदं स्तोत्रं जगौ नृपः
श्रियः कान्त नमस् ते ऽस्तु श्रीपते पीतवाससे श्रीद श्रीश श्रीनिवास नमस् ते श्रीनिकेतन
आद्यं पुरुषम् ईशानं सर्वेशं सर्वतोमुखम् निष्कलं परमं देवं प्रणतो ऽस्मि सनातनम्
शब्दातीतं गुणातीतं भावाभावविवर्जितम् निर्लेपं निर्गुणं सूक्ष्मं सर्वज्ञं सर्वभावनम्
प्रावृण्मेघप्रतीकाशं गोब्राह्मणहिते रतम् सर्वेषाम् एव गोप्तारं व्यापिनं सर्वभाविनम्
शङ्खचक्रधरं देवं गदामुशलधारिणम् नमस्ये वरदं देवं नीलोत्पलदलच्छविम्
नागपर्यङ्कशयनं क्षीरोदार्णवशायिनम् नमस्ये ऽहं हृषीकेशं सर्वपापहरं हरिम्
पुनस् त्वां देवदेवेशं नमस्ये वरदं विभुम् सर्वलोकेश्वरं विष्णुं मोक्षकारणम् अव्ययम्