नानाव्याधिशतावर्ते जलबुद्बुदसंनिभे यतस् ते मतिर् उत्पन्ना विष्णोर् आराधनाय वै
धन्यस् त्वं नृपशार्दूल गुणैः सर्वैर् अलंकृतः सप्रजा पृथिवी धन्या सशैलवनकानना
सपुरग्रामनगरा चतुर्वर्णैर् अलंकृता यत्र त्वं नृपशार्दूल प्रजाः पालयिता प्रभुः
एह्य् एहि सुमहाभाग द्रुमे ऽस्मिन् सुखशीतले आवाभ्यां सह तिष्ठ त्वं कथाभिर् धर्मसंश्रितः
अयं मम सहायस् तु आगतः शिल्पिनां वरः विश्वकर्मसमः साक्षान् निपुणः सर्वकर्मसु मयोद्दिष्टां तु प्रतिमां करोत्य् एष तटं त्यज
श्रुत्वैवं वचनं तस्य तदा राजा द्विजन्मनः सागरस्य तटं त्यक्त्वा गत्वा तस्य समीपतः
तस्थौ स नृपतिश्रेष्ठो वृक्षच्छाये सुशीतले ततस् तस्मै स विश्वात्मा ददाव् आज्ञां द्विजाकृतिः
शिल्पिमुख्याय विप्रेन्द्राः कुरुष्व प्रतिमा इति कृष्णरूपं परं शान्तं पद्मपत्त्रायतेक्षणम्
श्रीवत्सकौस्तुभधरं शङ्खचक्रगदाधरम् गौराङ्गं क्षीरवर्णाभं द्वितीयं स्वस्तिकाङ्कितम्
लाङ्गलास्त्रधरं देवम् अनन्ताख्यं महाबलम् देवदानवगन्धर्वयक्षविद्याधरोरगैः
न विज्ञातो हि तस्यान्तस् तेनानन्त इति स्मृतः भगिनीं वासुदेवस्य रुक्मवर्णां सुशोभनाम्
तृतीयां वै सुभद्रां च सर्वलक्षणलक्षिताम्
श्रुत्वैतद् वचनं तस्य विश्वकर्मा सुकर्मकृत् तत्क्षणात् कारयाम् आस प्रतिमाः शुभलक्षणाः
प्रथमं शुक्लवर्णाभं शारदेन्दुसमप्रभम् आरक्ताक्षं महाकायं स्फटाविकटमस्तकम्
नीलाम्बरधरं चोग्रं बलं बलमदोद्धतम् कुण्डलैकधरं दिव्यं गदामुशलधारिणम्
द्वितीयं पुण्डरीकाक्षं नीलजीमूतसंनिभम् अतसीपुष्पसंकाशं पद्मपत्त्रायतेक्षणम्
पीतवाससम् अत्युग्रं शुभं श्रीवत्सलक्षणम् चक्रपूर्णकरं दिव्यं सर्वपापहरं हरिम्
तृतीयां स्वर्णवर्णाभां पद्मपत्त्रायतेक्षणाम् विचित्रवस्त्रसंछन्नां हारकेयूरभूषिताम्
विचित्राभरणोपेतां रत्नहारावलम्बिताम् पीनोन्नतकुचां रम्यां विश्वकर्मा विनिर्ममे
स तु राजाद्भुतं दृष्ट्वा क्षणेनैकेन निर्मिताः दिव्यवस्त्रयुगच्छन्ना नानारत्नैर् अलंकृताः
सर्वलक्षणसंपन्नाः प्रतिमाः सुमनोहराः विस्मयं परमं गत्वा इदं वचनम् अब्रवीत्
किं देवौ समनुप्राप्तौ द्विजरूपधराव् उभौ उभौ चाद्भुतकर्माणौ देववृत्ताव् अमानुषौ
देवौ वा मानुषौ वापि यक्षविद्याधरौ युवाम् किं नु ब्रह्महृषीकेशौ किं वसू किम् उताश्विनौ
न वेद्मि सत्यसद्भावौ मायारूपेण संस्थितौ युवां गतो ऽस्मि शरणम् आत्मा तु मे प्रकाश्यताम्
नाहं देवो न यक्षो वा न दैत्यो न च देवराट् न ब्रह्मा न च रुद्रो ऽहं विद्धि मां पुरुषोत्तमम्
अर्तिहा सर्वलोकानाम् अनन्तबलपौरुषः आराधनीयो भूतानाम् अन्तो यस्य न विद्यते
पठ्यते सर्वशास्त्रेषु वेदान्तेषु निगद्यते यम् आहुर् ज्ञानगम्येति वासुदेवेति योगिनः
अहम् एव स्वयं ब्रह्मा अहं विष्णुः शिवो ऽप्य् अहम् इन्द्रो ऽहं देवराजश् च जगत्संयमनो यमः
पृथिव्यादीनि भूतानि त्रेताग्निर् हुतभुङ् नृप वरुणो ऽपां पतिश् चाहं धरित्री च महीधरः
यत् किंचिद् वाङ्मयं लोके जगत् स्थावरजङ्गमम् चराचरं च यद् विश्वं मदन्यन् नास्ति किंचन