शार्ङ्गबाणधरं देवं ज्वलत्तेजोतिमण्डलम् युगान्तादित्यवर्णाभं नीलवैदूर्यसंनिभम्
सुपर्णांसे तम् आसीनं षोडशार्धभुजं शुभम् स चास्मै प्राब्रवीद् धीराः साधु राजन् महामते
क्रतुनानेन दिव्येन तथा भक्त्या च श्रद्धया तुष्टो ऽस्मि ते महीपाल वृथा किम् अनुशोचसि
यद् अत्र प्रतिमा राजञ् जगत्पूज्या सनातनी यथा सा प्राप्यते भूप तदुपायं ब्रवीमि ते
गतायाम् अद्य शर्वर्यां निर्मले भास्करोदिते सागरस्य जलस्यान्ते नानाद्रुमविभूषिते
जलं तथैव वेलायां दृश्यते तत्र वै महत् लवणस्योदधे राजंस् तरङ्गैः समभिप्लुतम्
कूलान्ते हि महावृक्षः स्थितः स्थलजलेषु च वेलाभिर् हन्यमानश् च न चासौ कम्पते द्रुमः
परशुम् आदाय हस्तेन ऊर्मेर् अन्तस् ततो व्रज एकाकी विहरन् राजन् स त्वं पश्यसि पादपम्
ईदृक् चिह्नं समालोक्य छेदय त्वम् अशङ्कितः छेद्यमानं तु तं वृक्षं प्रातर् अद्भुतदर्शनम्
दृष्ट्वा तेनैव संचिन्त्य ततो भूपाल दर्शनात् कुरु तां प्रतिमां दिव्यां जहि चिन्तां विमोहिनीम्
एवम् उक्त्वा महाभागो जगामादर्शनं हरिः स चापि स्वप्नम् आलोक्य परं विस्मयम् आगतः
तां निशां स समुद्वीक्ष्य स्थितस् तद्गतमानसः व्याहरन् वैष्णवान् मन्त्रान् सूक्तं चैव तदात्मकम्
प्रगतायां रजन्यां तु उत्थितो नान्यमानसः स स्नात्वा सागरे सम्यग् यथावद् विधिना ततः
दत्त्वा दानं च विप्रेभ्यो ग्रामांश् च नगराणि च कृत्वा पौर्वाह्णिकं कर्म जगाम स नृपोत्तमः
न चाश्वो न पदातिश् च न गजो न च सारथिः एकाकी स महावेलां प्रविवेश महीपतिः
तं ददर्श महावृक्षं तेजस्वन्तं महाद्रुमम् महातिगमहारोहं पुण्यं विपुलम् एव च
महोत्सेधं महाकायं प्रसुप्तं च जलान्तिके सान्द्रमाञ्जिष्ठवर्णाभं नामजातिविवर्जितम्
नरनाथस् तदा विप्रा द्रुमं दृष्ट्वा मुदान्वितः परशुना शातयाम् आस निशितेन दृढेन च
द्वैधीकर्तुमनास् तत्र बभूवेन्द्रसखः स च निरीक्ष्यमाणे काष्ठे तु बभूवाद्भुतदर्शनम्
विश्वकर्मा च विष्णुश् च विप्ररूपधराव् उभौ आजग्मतुर् महाभागौ तदा तुल्याग्रजन्मनौ
ज्वलमानौ स्वतेजोभिर् दिव्यस्रगनुलेपनौ अथ तौ तं समागम्य नृपम् इन्द्रसखं तदा
ताव् ऊचतुर् महाराज किम् अत्र त्वं करिष्यसि किमर्थं च महाबाहो शातितश् च वनस्पतिः
असहायो महादुर्गे निर्जने गहने वने महासिन्धुतटे चैव कथं वै शातितो द्रुमः
तयोः श्रुत्वा वचो विप्राः स तु राजा मुदान्वितः बभाषे वचनं ताभ्यां मृदुलं मधुरं तथा
दृष्ट्वा तौ ब्राह्मणौ तत्र चन्द्रसूर्याव् इवागतौ नमस्कृत्य जगन्नाथाव् अवाङ्मुखम् अवस्थितः
देवदेवम् अनाद्यन्तम् अनन्तं जगतां पतिम् आराधयितुं प्रतिमां करोमीति मतिर् मम
अहं स देवदेवेन परमेण महात्मना स्वप्नान्ते च समुद्दिष्टो भवद्भ्यां श्रावितं मया
राज्ञस् तु वचनं श्रुत्वा देवेन्द्रप्रतिमस्य च प्रहस्य तस्मै विश्वेशस् तुष्टो वचनम् अब्रवीत्
साधु साधु महीपाल यद् एतन् मतम् उत्तमम् संसारसागरे घोरे कदलीदलसंनिभे
निःसारे दुःखबहुले कामक्रोधसमाकुले इन्द्रियावर्तकलिले दुस्तरे रोमहर्षणे