इदं समस्ताघविनाशहेतुः कारुण्यसंज्ञं सुखमोक्षदं च अशेषवाञ्छाफलदं वरिष्ठं स्तोत्रं मयोक्तं पुरुषोत्तमस्य
ये तं सुसूक्ष्मं विमला मुरारिं ध्यायन्ति नित्यं पुरुषं पुराणम् ते मुक्तिभाजः प्रविशन्ति विष्णुं मन्त्रैर् यथाज्यं हुतम् अध्वराग्नौ
एकः स देवो भवदुःखहन्ता परः परेषां न ततो ऽस्ति चान्यत् द्रष्टा स पाता स तु नाशकर्ता विष्णुः समस्ताखिलसारभूतः
किं विद्यया किं स्वगुणैश् च तेषां यज्ञैश् च दानैश् च तपोभिर् उग्रैः येषां न भक्तिर् भवतीह कृष्णे जगद्गुरौ मोक्षसुखप्रदे च
लोके स धन्यः स शुचिः स विद्वान् मखैस् तपोभिः स गुणैर् वरिष्ठः ज्ञाता स दाता स तु सत्यवक्ता यस्यास्ति भक्तिः पुरुषोत्तमाख्ये
स्तुत्वैवं मुनिशार्दूलाः प्रणम्य च सनातनम् वासुदेवं जगन्नाथं सर्वकामफलप्रदम्
चिन्ताविष्टो महीपालः कुशान् आस्तीर्य भूतले वस्त्रं च तन्मना भूत्वा सुष्वाप धरणीतले
कथं प्रत्यक्षम् अभ्येति देवदेवो जनार्दनः मम चार्तिहरो देवस् तदासाव् इति चिन्तयन्
सुप्तस्य तस्य नृपतेर् वासुदेवो जगद्गुरुः आत्मानं दर्शयाम् आस शङ्खचक्रगदाभृतम्
स ददर्श तु सप्रेम देवदेवं जगद्गुरुम् शङ्खचक्रधरं देवं गदाचक्रोग्रपाणिनम्
शार्ङ्गबाणधरं देवं ज्वलत्तेजोतिमण्डलम् युगान्तादित्यवर्णाभं नीलवैदूर्यसंनिभम्
सुपर्णांसे तम् आसीनं षोडशार्धभुजं शुभम् स चास्मै प्राब्रवीद् धीराः साधु राजन् महामते
क्रतुनानेन दिव्येन तथा भक्त्या च श्रद्धया तुष्टो ऽस्मि ते महीपाल वृथा किम् अनुशोचसि
यद् अत्र प्रतिमा राजञ् जगत्पूज्या सनातनी यथा सा प्राप्यते भूप तदुपायं ब्रवीमि ते
गतायाम् अद्य शर्वर्यां निर्मले भास्करोदिते सागरस्य जलस्यान्ते नानाद्रुमविभूषिते
जलं तथैव वेलायां दृश्यते तत्र वै महत् लवणस्योदधे राजंस् तरङ्गैः समभिप्लुतम्
कूलान्ते हि महावृक्षः स्थितः स्थलजलेषु च वेलाभिर् हन्यमानश् च न चासौ कम्पते द्रुमः
परशुम् आदाय हस्तेन ऊर्मेर् अन्तस् ततो व्रज एकाकी विहरन् राजन् स त्वं पश्यसि पादपम्
ईदृक् चिह्नं समालोक्य छेदय त्वम् अशङ्कितः छेद्यमानं तु तं वृक्षं प्रातर् अद्भुतदर्शनम्
दृष्ट्वा तेनैव संचिन्त्य ततो भूपाल दर्शनात् कुरु तां प्रतिमां दिव्यां जहि चिन्तां विमोहिनीम्
एवम् उक्त्वा महाभागो जगामादर्शनं हरिः स चापि स्वप्नम् आलोक्य परं विस्मयम् आगतः
तां निशां स समुद्वीक्ष्य स्थितस् तद्गतमानसः व्याहरन् वैष्णवान् मन्त्रान् सूक्तं चैव तदात्मकम्
प्रगतायां रजन्यां तु उत्थितो नान्यमानसः स स्नात्वा सागरे सम्यग् यथावद् विधिना ततः
दत्त्वा दानं च विप्रेभ्यो ग्रामांश् च नगराणि च कृत्वा पौर्वाह्णिकं कर्म जगाम स नृपोत्तमः
न चाश्वो न पदातिश् च न गजो न च सारथिः एकाकी स महावेलां प्रविवेश महीपतिः
तं ददर्श महावृक्षं तेजस्वन्तं महाद्रुमम् महातिगमहारोहं पुण्यं विपुलम् एव च
महोत्सेधं महाकायं प्रसुप्तं च जलान्तिके सान्द्रमाञ्जिष्ठवर्णाभं नामजातिविवर्जितम्
नरनाथस् तदा विप्रा द्रुमं दृष्ट्वा मुदान्वितः परशुना शातयाम् आस निशितेन दृढेन च
द्वैधीकर्तुमनास् तत्र बभूवेन्द्रसखः स च निरीक्ष्यमाणे काष्ठे तु बभूवाद्भुतदर्शनम्
विश्वकर्मा च विष्णुश् च विप्ररूपधराव् उभौ आजग्मतुर् महाभागौ तदा तुल्याग्रजन्मनौ