कथं मानुषबुद्ध्याहं स्तौमि त्वां प्रकृतेः परम् तथा चाज्ञानभावेन संस्तुतो ऽसि मया प्रभो
तत् क्षमस्वापराधं मे यदि ते ऽस्ति दया मयि कृतापराधे ऽपि हरे क्षमां कुर्वन्ति साधवः
तस्मात् प्रसीद देवेश भक्तस्नेहं समाश्रितः स्तुतो ऽसि यन् मया देव भक्तिभावेन चेतसा साङ्गं भवतु तत् सर्वं वासुदेव नमो ऽस्तु ते
इत्थं स्तुतस् तदा तेन प्रसन्नो गरुडध्वजः ददौ तस्मै मुनिश्रेष्ठाः सकलं मनसेप्सितम्
यः संपूज्य जगन्नाथं प्रत्यहं स्तौति मानवः स्तोत्रेणानेन मतिमान् स मोक्षं लभते ध्रुवम्
त्रिसंध्यं यो जपेद् विद्वान् इदं स्तोत्रवरं शुचिः धर्मं चार्थं च कामं च मोक्षं च लभते नरः
यः पठेच् छृणुयाद् वापि श्रावयेद् वा समाहितः स लोकं शाश्वतं विष्णोर् याति निर्धूतकल्मषः
धन्यं पापहरं चेदं भुक्तिमुक्तिप्रदं शिवम् गुह्यं सुदुर्लभं पुण्यं न देयं यस्य कस्यचित्
न नास्तिकाय मूर्खाय न कृतघ्नाय मानिने न दुष्टमतये दद्यान् नाभक्ताय कदाचन
दातव्यं भक्तियुक्ताय गुणशीलान्विताय च विष्णुभक्ताय शान्ताय श्रद्धानुष्ठानशालिने
इदं समस्ताघविनाशहेतुः कारुण्यसंज्ञं सुखमोक्षदं च अशेषवाञ्छाफलदं वरिष्ठं स्तोत्रं मयोक्तं पुरुषोत्तमस्य
ये तं सुसूक्ष्मं विमला मुरारिं ध्यायन्ति नित्यं पुरुषं पुराणम् ते मुक्तिभाजः प्रविशन्ति विष्णुं मन्त्रैर् यथाज्यं हुतम् अध्वराग्नौ
एकः स देवो भवदुःखहन्ता परः परेषां न ततो ऽस्ति चान्यत् द्रष्टा स पाता स तु नाशकर्ता विष्णुः समस्ताखिलसारभूतः
किं विद्यया किं स्वगुणैश् च तेषां यज्ञैश् च दानैश् च तपोभिर् उग्रैः येषां न भक्तिर् भवतीह कृष्णे जगद्गुरौ मोक्षसुखप्रदे च
लोके स धन्यः स शुचिः स विद्वान् मखैस् तपोभिः स गुणैर् वरिष्ठः ज्ञाता स दाता स तु सत्यवक्ता यस्यास्ति भक्तिः पुरुषोत्तमाख्ये
स्तुत्वैवं मुनिशार्दूलाः प्रणम्य च सनातनम् वासुदेवं जगन्नाथं सर्वकामफलप्रदम्
चिन्ताविष्टो महीपालः कुशान् आस्तीर्य भूतले वस्त्रं च तन्मना भूत्वा सुष्वाप धरणीतले
कथं प्रत्यक्षम् अभ्येति देवदेवो जनार्दनः मम चार्तिहरो देवस् तदासाव् इति चिन्तयन्
सुप्तस्य तस्य नृपतेर् वासुदेवो जगद्गुरुः आत्मानं दर्शयाम् आस शङ्खचक्रगदाभृतम्
स ददर्श तु सप्रेम देवदेवं जगद्गुरुम् शङ्खचक्रधरं देवं गदाचक्रोग्रपाणिनम्
शार्ङ्गबाणधरं देवं ज्वलत्तेजोतिमण्डलम् युगान्तादित्यवर्णाभं नीलवैदूर्यसंनिभम्
सुपर्णांसे तम् आसीनं षोडशार्धभुजं शुभम् स चास्मै प्राब्रवीद् धीराः साधु राजन् महामते
क्रतुनानेन दिव्येन तथा भक्त्या च श्रद्धया तुष्टो ऽस्मि ते महीपाल वृथा किम् अनुशोचसि
यद् अत्र प्रतिमा राजञ् जगत्पूज्या सनातनी यथा सा प्राप्यते भूप तदुपायं ब्रवीमि ते
गतायाम् अद्य शर्वर्यां निर्मले भास्करोदिते सागरस्य जलस्यान्ते नानाद्रुमविभूषिते
जलं तथैव वेलायां दृश्यते तत्र वै महत् लवणस्योदधे राजंस् तरङ्गैः समभिप्लुतम्
कूलान्ते हि महावृक्षः स्थितः स्थलजलेषु च वेलाभिर् हन्यमानश् च न चासौ कम्पते द्रुमः
परशुम् आदाय हस्तेन ऊर्मेर् अन्तस् ततो व्रज एकाकी विहरन् राजन् स त्वं पश्यसि पादपम्
ईदृक् चिह्नं समालोक्य छेदय त्वम् अशङ्कितः छेद्यमानं तु तं वृक्षं प्रातर् अद्भुतदर्शनम्
दृष्ट्वा तेनैव संचिन्त्य ततो भूपाल दर्शनात् कुरु तां प्रतिमां दिव्यां जहि चिन्तां विमोहिनीम्