मया जन्मान्य् अनेकानि सहस्राण्य् अयुतानि च विविधान्य् अनुभूतानि संसारे ऽस्मिञ् जनार्दन
वेदाः साङ्गा मयाधीताः शास्त्राणि विविधानि च इतिहासपुराणानि तथा शिल्पान्य् अनेकशः
असंतोषाश् च संतोषाः संचयापचया व्ययाः मया प्राप्ता जगन्नाथ क्षयवृद्ध्यक्षयेतराः
भार्यारिमित्रबन्धूनां वियोगाः संगमास् तथा पितरो विविधा दृष्टा मातरश् च तथा मया
दुःखानि चानुभूतानि यानि सौख्यान्य् अनेकशः प्राप्ताश् च बान्धवाः पुत्रा भ्रातरो ज्ञातयस् तथा
मयोषितं तथा स्त्रीणां कोष्ठे विण्मूत्रपिच्छले गर्भवासे महादुःखम् अनुभूतं तथा प्रभो
दुःखानि यान्य् अनेकानि बाल्ययौवनगोचरे वार्धके च हृषीकेश तानि प्राप्तानि वै मया
मरणे यानि दुःखानि यममार्गे यमालये मया तान्य् अनुभूतानि नरके यातनास् तथा
कृमिकीटद्रुमाणां च हस्त्यश्वमृगपक्षिणाम् महिषोष्ट्रगवां चैव तथान्येषां वनौकसाम्
द्विजातीनां च सर्वेषां शूद्राणां चैव योनिषु धनिनां क्षत्रियाणां च दरिद्राणां तपस्विनाम्
नृपाणां नृपभृत्यानां तथान्येषां च देहिनाम् गृहेषु तेषाम् उत्पन्नो देव चाहं पुनः पुनः
गतो ऽस्मि दासतां नाथ भृत्यानां बहुशो नृणाम् दरिद्रत्वं चेश्वरत्वं स्वामित्वं च तथा गतः
हतो मया हताश् चान्ये घातितो घातितास् तथा दत्तं ममान्यैर् अन्येभ्यो मया दत्तम् अनेकशः
पितृमातृसुहृद्भ्रातृकलत्राणां कृतेन च धनिनां श्रोत्रियाणां च दरिद्राणां तपस्विनाम्
उक्तं दैन्यं च विविधं त्यक्त्वा लज्जां जनार्दन देवतिर्यङ्मनुष्येषु स्थावरेषु चरेषु च
न विद्यते तथा स्थानं यत्राहं न गतः प्रभो कदा मे नरके वासः कदा स्वर्गे जगत्पते
कदा मनुष्यलोकेषु कदा तिर्यग्गतेषु च जलयन्त्रे यथा चक्रे घटी रज्जुनिबन्धना
याति चोर्ध्वम् अधश् चैव कदा मध्ये च तिष्ठति तथा चाहं सुरश्रेष्ठ कर्मरज्जुसमावृतः
अधश् चोर्ध्वं तथा मध्ये भ्रमन् गच्छामि योगतः एवं संसारचक्रे ऽस्मिन् भैरवे रोमहर्षणे
भ्रमामि सुचिरं कालं नान्तं पश्यामि कर्हिचित् न जाने किं करोम्य् अद्य हरे व्याकुलितेन्द्रियः
शोकतृष्णाभिभूतो ऽहं कांदिशीको विचेतनः इदानीं त्वाम् अहं देव विह्वलः शरणं गतः
त्राहि मां दुःखितं कृष्ण मग्नं संसारसागरे कृपां कुरु जगन्नाथ भक्तं मां यदि मन्यसे
त्वदृते नास्ति मे बन्धुर् यो ऽसौ चिन्तां करिष्यति देव त्वां नाथम् आसाद्य न भयं मे ऽस्ति कुत्रचित्
जीविते मरणे चैव योगक्षेमे ऽथवा प्रभो ये तु त्वां विधिवद् देव नार्चयन्ति नराधमाः
सुगतिस् तु कथं तेषां भवेत् संसारबन्धनात् किं तेषां कुलशीलेन विद्यया जीवितेन च
येषां न जायते भक्तिर् जगद्धातरि केशवे प्रकृतिं त्व् आसुरीं प्राप्य ये त्वां निन्दन्ति मोहिताः
पतन्ति नरके घोरे जायमानाः पुनः पुनः न तेषां निष्कृतिस् तस्माद् विद्यते नरकार्णवात्
ये दूषयन्ति दुर्वृत्तास् त्वां देव पुरुषाधमाः यत्र यत्र भवेज् जन्म मम कर्मनिबन्धनात्
तत्र तत्र हरे भक्तिस् त्वयि चास्तु दृढा सदा आराध्य त्वां सुरा दैत्या नराश् चान्ये ऽपि संयताः
अवापुः परमां सिद्धिं कस् त्वां देव न पूजयेत् न शक्नुवन्ति ब्रह्माद्याः स्तोतुं त्वां त्रिदशा हरे