परमं तव यद् रूपं भावाभावविवर्जितम् निर्लेपं निर्गुणं श्रेष्ठं कूटस्थम् अचलं ध्रुवम्
सर्वोपाधिविनिर्मुक्तं सत्तामात्रव्यवस्थितम् तद् देवाश् च न जानन्ति कथं जानाम्य् अहं प्रभो
अपरं तव यद् रूपं पीतवस्त्रं चतुर्भुजम् शङ्खचक्रगदापाणिमुकुटाङ्गदधारिणम्
श्रीवत्सोरस्कसंयुक्तं वनमालाविभूषितम् तद् अर्चयन्ति विबुधा ये चान्ये तव संश्रयाः
देवदेव सुरश्रेष्ठ भक्तानाम् अभयप्रद त्राहि मां पद्मपत्त्राक्ष मग्नं विषयसागरे
नान्यं पश्यामि लोकेश यस्याहं शरणं व्रजे त्वाम् ऋते कमलाकान्त प्रसीद मधुसूदन
जराव्याधिशतैर् युक्तो नानादुःखैर् निपीडितः हर्षशोकान्वितो मूढः कर्मपाशैः सुयन्त्रितः
पतितो ऽहं महारौद्रे घोरे संसारसागरे विषमोदकदुष्पारे रागद्वेषझषाकुले
इन्द्रियावर्तगम्भीरे तृष्णाशोकोर्मिसंकुले निराश्रये निरालम्बे निःसारे ऽत्यन्तचञ्चले
मायया मोहितस् तत्र भ्रमामि सुचिरं प्रभो नानाजातिसहस्रेषु जायमानः पुनः पुनः
मया जन्मान्य् अनेकानि सहस्राण्य् अयुतानि च विविधान्य् अनुभूतानि संसारे ऽस्मिञ् जनार्दन
वेदाः साङ्गा मयाधीताः शास्त्राणि विविधानि च इतिहासपुराणानि तथा शिल्पान्य् अनेकशः
असंतोषाश् च संतोषाः संचयापचया व्ययाः मया प्राप्ता जगन्नाथ क्षयवृद्ध्यक्षयेतराः
भार्यारिमित्रबन्धूनां वियोगाः संगमास् तथा पितरो विविधा दृष्टा मातरश् च तथा मया
दुःखानि चानुभूतानि यानि सौख्यान्य् अनेकशः प्राप्ताश् च बान्धवाः पुत्रा भ्रातरो ज्ञातयस् तथा
मयोषितं तथा स्त्रीणां कोष्ठे विण्मूत्रपिच्छले गर्भवासे महादुःखम् अनुभूतं तथा प्रभो
दुःखानि यान्य् अनेकानि बाल्ययौवनगोचरे वार्धके च हृषीकेश तानि प्राप्तानि वै मया
मरणे यानि दुःखानि यममार्गे यमालये मया तान्य् अनुभूतानि नरके यातनास् तथा
कृमिकीटद्रुमाणां च हस्त्यश्वमृगपक्षिणाम् महिषोष्ट्रगवां चैव तथान्येषां वनौकसाम्
द्विजातीनां च सर्वेषां शूद्राणां चैव योनिषु धनिनां क्षत्रियाणां च दरिद्राणां तपस्विनाम्
नृपाणां नृपभृत्यानां तथान्येषां च देहिनाम् गृहेषु तेषाम् उत्पन्नो देव चाहं पुनः पुनः
गतो ऽस्मि दासतां नाथ भृत्यानां बहुशो नृणाम् दरिद्रत्वं चेश्वरत्वं स्वामित्वं च तथा गतः
हतो मया हताश् चान्ये घातितो घातितास् तथा दत्तं ममान्यैर् अन्येभ्यो मया दत्तम् अनेकशः
पितृमातृसुहृद्भ्रातृकलत्राणां कृतेन च धनिनां श्रोत्रियाणां च दरिद्राणां तपस्विनाम्
उक्तं दैन्यं च विविधं त्यक्त्वा लज्जां जनार्दन देवतिर्यङ्मनुष्येषु स्थावरेषु चरेषु च
न विद्यते तथा स्थानं यत्राहं न गतः प्रभो कदा मे नरके वासः कदा स्वर्गे जगत्पते
कदा मनुष्यलोकेषु कदा तिर्यग्गतेषु च जलयन्त्रे यथा चक्रे घटी रज्जुनिबन्धना
याति चोर्ध्वम् अधश् चैव कदा मध्ये च तिष्ठति तथा चाहं सुरश्रेष्ठ कर्मरज्जुसमावृतः
अधश् चोर्ध्वं तथा मध्ये भ्रमन् गच्छामि योगतः एवं संसारचक्रे ऽस्मिन् भैरवे रोमहर्षणे
भ्रमामि सुचिरं कालं नान्तं पश्यामि कर्हिचित् न जाने किं करोम्य् अद्य हरे व्याकुलितेन्द्रियः