नमस् ते नीलमेघाभ नमस् ते त्रिदशार्चित त्राहि विष्णो जगन्नाथ मग्नं मां भवसागरे
प्रलयानलसंकाश नमस् ते दितिजान्तक नरसिंह महावीर्य त्राहि मां दीप्तलोचन
यथा रसातलाद् उर्वी त्वया दंष्ट्रोद्धृता पुरा तथा महावराहस् त्वं त्राहि मां दुःखसागरात्
तवैता मूर्तयः कृष्ण वरदाः संस्तुता मया तवेमे बलदेवाद्याः पृथग्रूपेण संस्थिताः
अङ्गानि तव देवेश गरुत्माद्यास् तथा प्रभो दिक्पालाः सायुधाश् चैव केशवाद्यास् तथाच्युत
ये चान्ये तव देवेश भेदाः प्रोक्ता मनीषिभिः ते ऽपि सर्वे जगन्नाथ प्रसन्नायतलोचन
मयार्चिताः स्तुताः सर्वे तथा यूयं नमस्कृताः प्रयच्छत वरं मह्यं धर्मकामार्थमोक्षदम्
भेदास् ते कीर्तिता ये तु हरे संकर्षणादयः तव पूजार्थसंभूतास् ततस् त्वयि समाश्रिताः
न भेदस् तव देवेश विद्यते परमार्थतः विविधं तव यद् रूपम् उक्तं तद् उपचारतः
अद्वैतं त्वां कथं द्वैतं वक्तुं शक्नोति मानवः एकस् त्वं हि हरे व्यापी चित्स्वभावो निरञ्जनः
परमं तव यद् रूपं भावाभावविवर्जितम् निर्लेपं निर्गुणं श्रेष्ठं कूटस्थम् अचलं ध्रुवम्
सर्वोपाधिविनिर्मुक्तं सत्तामात्रव्यवस्थितम् तद् देवाश् च न जानन्ति कथं जानाम्य् अहं प्रभो
अपरं तव यद् रूपं पीतवस्त्रं चतुर्भुजम् शङ्खचक्रगदापाणिमुकुटाङ्गदधारिणम्
श्रीवत्सोरस्कसंयुक्तं वनमालाविभूषितम् तद् अर्चयन्ति विबुधा ये चान्ये तव संश्रयाः
देवदेव सुरश्रेष्ठ भक्तानाम् अभयप्रद त्राहि मां पद्मपत्त्राक्ष मग्नं विषयसागरे
नान्यं पश्यामि लोकेश यस्याहं शरणं व्रजे त्वाम् ऋते कमलाकान्त प्रसीद मधुसूदन
जराव्याधिशतैर् युक्तो नानादुःखैर् निपीडितः हर्षशोकान्वितो मूढः कर्मपाशैः सुयन्त्रितः
पतितो ऽहं महारौद्रे घोरे संसारसागरे विषमोदकदुष्पारे रागद्वेषझषाकुले
इन्द्रियावर्तगम्भीरे तृष्णाशोकोर्मिसंकुले निराश्रये निरालम्बे निःसारे ऽत्यन्तचञ्चले
मायया मोहितस् तत्र भ्रमामि सुचिरं प्रभो नानाजातिसहस्रेषु जायमानः पुनः पुनः
मया जन्मान्य् अनेकानि सहस्राण्य् अयुतानि च विविधान्य् अनुभूतानि संसारे ऽस्मिञ् जनार्दन
वेदाः साङ्गा मयाधीताः शास्त्राणि विविधानि च इतिहासपुराणानि तथा शिल्पान्य् अनेकशः
असंतोषाश् च संतोषाः संचयापचया व्ययाः मया प्राप्ता जगन्नाथ क्षयवृद्ध्यक्षयेतराः
भार्यारिमित्रबन्धूनां वियोगाः संगमास् तथा पितरो विविधा दृष्टा मातरश् च तथा मया
दुःखानि चानुभूतानि यानि सौख्यान्य् अनेकशः प्राप्ताश् च बान्धवाः पुत्रा भ्रातरो ज्ञातयस् तथा
मयोषितं तथा स्त्रीणां कोष्ठे विण्मूत्रपिच्छले गर्भवासे महादुःखम् अनुभूतं तथा प्रभो
दुःखानि यान्य् अनेकानि बाल्ययौवनगोचरे वार्धके च हृषीकेश तानि प्राप्तानि वै मया
मरणे यानि दुःखानि यममार्गे यमालये मया तान्य् अनुभूतानि नरके यातनास् तथा
कृमिकीटद्रुमाणां च हस्त्यश्वमृगपक्षिणाम् महिषोष्ट्रगवां चैव तथान्येषां वनौकसाम्
द्विजातीनां च सर्वेषां शूद्राणां चैव योनिषु धनिनां क्षत्रियाणां च दरिद्राणां तपस्विनाम्