शतानि पञ्च विप्रेभ्यो राजा हृष्टः प्रदत्तवान् स्त्रियः पीनपयोभाराः कञ्चुकैः स्वस्तनावृताः
मध्यहीनाश् च सुश्रोण्यः पद्मपत्त्रायतेक्षणाः हावभावान्वितग्रीवा बह्व्यो वलयभूषिताः
पादनूपुरसंयुक्ताः पट्टदुकूलवाससः एकैकशो ऽददात् तस्मिन् काम्याश् च कामिनीर् बहूः
अर्थिभ्यो ब्राह्मणादिभ्यो हयमेधे द्विजोत्तमाः भक्ष्यं भोज्यं च संपूर्णं नानासंभारसंयुतम्
खण्डकाद्यान्य् अनेकानि स्विन्नपक्वांश् च पिष्टकान् अन्नान्य् अन्यानि मेध्यांश् च घृतपूरांश् च खाण्डवान्
मधुरांस् तर्जितान् पूपान् अन्नं मृष्टं सुपाकिकम् प्रीत्यर्थं सर्वसत्त्वानां दीयते ऽन्नं पुनः पुनः
दत्तस्य दीयमानस्य धनस्यान्तो न विद्यते एवं दृष्ट्वा महायज्ञं देवदैत्याः सवारणाः
गन्धर्वाप्सरसः सिद्धा ऋषयश् च प्रजेश्वराः विस्मयं परमं याता दृष्ट्वा क्रतुवरं शुभम्
पुरोधा मन्त्रिणो राजा हृष्टास् तत्रैव सर्वशः न तत्र मलिनः कश्चिन् न दीनो न क्षुधान्वितः
न वोपसर्गो न ग्लानिर् नाधयो व्याधयस् तथा नाकालमरणं तत्र न दंशो न ग्रहा विषम्
हृष्टपुष्टजनाः सर्वे तस्मिन् राज्ञो महोत्सवे ये च तत्र तपःसिद्धा मुनयश् चिरजीविनः
न जातं तादृशं यज्ञं धनधान्यसमन्वितम् एवं स राजा विधिवद् वाजिमेधं द्विजोत्तमाः क्रतुं समापयाम् आस प्रासादं वैष्णवं तथा
ब्रूहि नो देवदेवेश यत् पृच्छामः पुरातनम् यथा ताः प्रतिमाः पूर्वम् इन्द्रद्युम्नेन निर्मिताः
केन चैव प्रकारेण तुष्टस् तस्मै स माधवः तत् सर्वं वद चास्माकं परं कौतूहलं हि नः
शृणुध्वं मुनिशार्दूलाः पुराणं वेदसंमितम् कथयामि पुरा वृत्तं प्रतिमानां च संभवम्
प्रवृत्ते च महायज्ञे प्रासादे चैव निर्मिते चिन्ता तस्य बभूवाथ प्रतिमार्थम् अहर्निशम्
न वेद्मि केन देवेशं सर्वेशं लोकपावनम् सर्गस्थित्यन्तकर्तारं पश्यामि पुरुषोत्तमम्
चिन्ताविष्टस् त्व् अभूद् राजा शेते रात्रौ दिवापि न न भुङ्क्ते विविधान् भोगान् न च स्नानं प्रसाधनम्
नैव वाद्येन गन्धेन गायनैर् वर्णकैर् अपि न गजैर् मदयुक्तैश् च न चानेकैर् हयान्वितैः
नेन्द्रनीलैर् महानीलैः पद्मरागमयैर् न च सुवर्णरजताद्यैश् च वज्रस्फटिकसंयुतैः
बहुरागार्थकामैर् वा न वन्यैर् अन्तरिक्षगैः बभूव तस्य नृपतेर् मनसस् तुष्टिवर्धनम्
शैलमृद्दारुजातेषु प्रशस्तं किं महीतले विष्णुप्रतिमायोग्यं च सर्वलक्षणलक्षितम्
एतैर् एव त्रयाणां तु दयितं स्यात् सुरार्चितम् स्थापिते प्रीतिम् अभ्येति इति चिन्तापरो ऽभवत्
पञ्चरात्रविधानेन संपूज्य पुरुषोत्तमम् चिन्ताविष्टो महीपालः संस्तोतुम् उपचक्रमे
वासुदेव नमस् ते ऽस्तु नमस् ते मोक्षकारण त्राहि मां सर्वलोकेश जन्मसंसारसागरात्
निर्मलाम्बरसंकाश नमस् ते पुरुषोत्तम संकर्षण नमस् ते ऽस्तु त्राहि मां धरणीधर
नमस् ते हेमगर्भाभ नमस् ते मकरध्वज रतिकान्त नमस् ते ऽस्तु त्राहि मां संवरान्तक
नमस् ते ऽञ्जनसंकाश नमस् ते भक्तवत्सल अनिरुद्ध नमस् ते ऽस्तु त्राहि मां वरदो भव
नमस् ते विबुधावास नमस् ते विबुधप्रिय नारायण नमस् ते ऽस्तु त्राहि मां शरणागतम्
नमस् ते बलिनां श्रेष्ठ नमस् ते लाङ्गलायुध चतुर्मुख जगद्धाम त्राहि मां प्रपितामह