पितॄणां राजतं पात्रं यमो वत्सः प्रतापवान् अन्तकश् चाभवद् दोग्धा क्षीरं तेषां सुधा स्मृता
नागानां तक्षको वत्सः पात्रं चालाबुसंज्ञकम् दोग्धा त्व् ऐरावतो नागस् तेषां क्षीरं विषं स्मृतम्
असुराणां मधुर् दोग्धा क्षीरं मायामयं स्मृतम् विरोचनस् तु वत्सो ऽभूद् आयसं पात्रम् एव च
यक्षाणाम् आमपात्रं तु वत्सो वैश्रवणः प्रभुः दोग्धा रजतनाभस् तु क्षीरान्तर्धानम् एव च
सुमाली राक्षसेन्द्राणां वत्सः क्षीरं च शोणितम् दोग्धा रजतनाभस् तु कपालं पात्रम् एव च
गन्धर्वाणां चित्ररथो वत्सः पात्रं च पङ्कजम् दोग्धा च सुरुचिः क्षीरं तेषां गन्धः शुचिः स्मृतः
शैलं पात्रं पर्वतानां क्षीरं रत्नौषधीस् तथा वत्सस् तु हिमवान् आसीद् दोग्धा मेरुर् महागिरिः
प्लक्षो वत्सस् तु वृक्षाणां दोग्धा शालस् तु पुष्पितः पालाशपात्रं क्षीरं च च्छिन्नदग्धप्ररोहणम्
सेयं धात्री विधात्री च पावनी च वसुंधरा चराचरस्य सर्वस्य प्रतिष्ठा योनिर् एव च
सर्वकामदुघा दोग्ध्री सर्वसस्यप्ररोहणी आसीद् इयं समुद्रान्ता मेदिनी परिविश्रुता
मधुकैटभयोः कृत्स्ना मेदसा समभिप्लुता तेनेयं मेदिनी देवी उच्यते ब्रह्मवादिभिः
ततो ऽभ्युपगमाद् राज्ञः पृथोर् वैण्यस्य भो द्विजाः दुहितृत्वम् अनुप्राप्ता देवी पृथ्वीति चोच्यते
पृथुना प्रविभक्ता च शोधिता च वसुंधरा सस्याकरवती स्फीता पुरपत्तनशालिनी
एवंप्रभावो वैण्यः स राजासीद् राजसत्तमः नमस्यश् चैव पूज्यश् च भूतग्रामैर् न संशयः
ब्राह्मणैश् च महाभागैर् वेदवेदाङ्गपारगैः पृथुर् एव नमस्कार्यो ब्रह्मयोनिः सनातनः
पार्थिवैश् च महाभागैः पार्थिवत्वम् इहेच्छुभिः आदिराजो नमस्कार्यः पृथुर् वैण्यः प्रतापवान्
योधैर् अपि च विक्रान्तैः प्राप्तुकामैर् जयं युधि आदिराजो नमस्कार्यो योधानां प्रथमो नृपः
यो हि योद्धा रणं याति कीर्तयित्वा पृथुं नृपम् स घोररूपात् संग्रामात् क्षेमी भवति कीर्तिमान्
वैश्यैर् अपि च वित्ताढ्यैर् वैश्यवृत्तिविधायिभिः पृथुर् एव नमस्कार्यो वृत्तिदाता महायशाः
तथैव शूद्रैः शुचिभिस् त्रिवर्णपरिचारिभिः पृथुर् एव नमस्कार्यः श्रेयः परम् इहेप्सुभिः
एते वत्सविशेषाश् च दोग्धारः क्षीरम् एव च पात्राणि च मयोक्तानि किं भूयो वर्णयामि वः
मन्वन्तराणि सर्वाणि विस्तरेण महामते तेषां पूर्वविसृष्टिं च लोमहर्षण कीर्तय
यावन्तो मनवश् चैव यावन्तं कालम् एव च मन्वन्तराणि भोः सूत श्रोतुम् इच्छाम तत्त्वतः
न शक्यो विस्तरो विप्रा वक्तुं वर्षशतैर् अपि मन्वन्तराणां सर्वेषां संक्षेपाच् छृणुत द्विजाः
स्वायंभुवो मनुः पूर्वं मनुः स्वारोचिषस् तथा उत्तमस् तामसश् चैव रैवतश् चाक्षुषस् तथा
वैवस्वतश् च भो विप्राः सांप्रतं मनुर् उच्यते सावर्णिश् च मनुस् तद्वद् रैभ्यो रौच्यस् तथैव च
तथैव मेरुसावर्ण्यश् चत्वारो मनवः स्मृताः अतीता वर्तमानाश् च तथैवानागता द्विजाः
कीर्तिता मनवस् तुभ्यं मयैवैते यथा श्रुताः ऋषींस् त्व् एषां प्रवक्ष्यामि पुत्रान् देवगणांस् तथा
मरीचिर् अत्रिर् भगवान् अङ्गिराः पुलहः क्रतुः पुलस्त्यश् च वसिष्ठश् च सप्तैते ब्रह्मणः सुताः
उत्तरस्यां दिशि तथा द्विजाः सप्तर्षयस् तथा आग्निइध्रश् चाग्निबाहुश् च मेध्यो मेधातिथिर् वसुः