पर्वतान्य् उपधान्यानि भूतानि ददृशुश् च ते एवं प्रमुदितं सर्वं पशुतो धनधान्यतः
यज्ञवाटं नृपा दृष्ट्वा विस्मयं परमं गताः ब्राह्मणानां विशां चैव बहुमिष्टान्नम् ऋद्धिमत्
पूर्णे शतसहस्रे तु विप्राणां तत्र भुञ्जताम् दुन्दुभिर् मेघनिर्घोषान् मुहुर्मुहुर् अथाकरोत्
विननादासकृच् चापि दिवसे दिवसे गते एवं स ववृधे यज्ञस् तस्य राज्ञस् तु धीमतः
अन्नस्य सुबहून् विप्रा उत्सर्गान् निर्गतोपमान् दधिकुल्याश् च ददृशुः पयसश् च ह्रदांस् तथा
जम्बूद्वीपो हि सकलो नानाजनपदैर् युतः द्विजाश् च तत्र दृश्यन्ते राज्ञस् तस्य महामखे
तत्र यानि सहस्राणि पुरुषाणां ततस् ततः गृहीत्वा भाजनं जग्मुर् बहूनि द्विजसत्तमाः
श्राविणश् चापि ते सर्वे सुमृष्टमणिकुण्डलाः पर्यवेषयन् द्विजातीञ् शतशो ऽथ सहस्रशः
विविधान्य् अनुपानानि पुरुषा ये ऽनुयायिनः ते वै नृपोपभोज्यानि ब्राह्मणेभ्यो ददुः सह
समागतान् वेदविदो राज्ञश् च पृथिवीश्वरान् पूजां चक्रे तदा तेषां विधिवद् भूरिदक्षिणः
दिग्देशाद् आगतान् राज्ञो महासंग्रामशालिनः नटनर्तककादींश् च गीतस्तुतिविशारदान्
पत्न्यो मनोरमास् तस्य पीनोन्नतपयोधराः इन्दीवरपलाशाक्ष्यः शरच्चन्द्रनिभाननाः
कुलशीलगुणोपेताः सहस्रैकं शताधिकम् एवं तद्भूपपरमपत्नीगणसमन्वितम्
रत्नमालाकुलं दिव्यं पताकाध्वजसेवितम् रत्नहारयुतं रम्यं चन्द्रकान्तिसमप्रभम्
करिणः पर्वताकारान् मदसिक्तान् महाबलान् शतशः कोटिसंघातैर् दन्तिभिर् दन्तभूषणैः
वातवेगजवैर् अश्वैः सिन्धुजातैः सुशोभनैः श्वेताश्वैः श्यामकर्णैश् च कोट्यनेकैर् जवान्वितैः
संनद्धबद्धकक्षैश् च नानाप्रहरणोद्यतैः असंख्येयैः पदातैश् च देवपुत्रोपमैस् तथा
इत्य् एवं ददृशे राजा यज्ञसंभारविस्तरम् मुदं लेभे तदा राजा संहृष्टो वाक्यम् अब्रवीत्
आनयध्वं हयश्रेष्ठं सर्वलक्षणलक्षितम् चारयध्वं पृथिव्यां वै राजपुत्राः सुसंयताः
विद्वद्भिर् धर्मविद्भिश् च अत्र होमो विधीयताम् कृष्णच्छागं च महिषं कृष्णसारमृगं द्विजान्
अनड्वाहं च गाश् चैव सर्वांश् च पशुपालकान् इष्टयश् च प्रवर्तन्तां प्रासादं वैष्णवं ततः
सर्वम् एतच् च विप्रेभ्यो दीयतां मनसेप्सितम् स्त्रियश् च रत्नकोट्यश् च ग्रामाश् च नगराणि च
सम्यक् समृद्धभूम्यश् च विषयाश् चैवम् अर्थिनाम् अन्यानि द्रव्यजातानि मनोज्ञानि बहूनि च
सर्वेषां याचमानानां नास्ति ह्य् एतन् न भाषयेत् तावत् प्रवर्ततां यज्ञो यावद् देवः पुरा त्व् इह प्रत्यक्षं मम चाभ्येति यज्ञस्यास्य समीपतः
एवम् उक्त्वा तदा विप्रा राजसिंहो महाभुजः ददौ सुवर्णसंघातं कोटीनां चैव भूषणम्
करेणुशतसाहस्रं वाजिनो नियुतानि च अर्बुदं चैव वृषभं स्वर्णशृङ्गीश् च धेनुकाः
सुरूपाः सुरभीश् चैव कांस्यदोहाः पयस्विनीः प्रायच्छत् स तु विप्रेभ्यो वेदविद्भ्यो मुदा युतः
वासांसि च महार्हाणि राङ्कवास्तरणानि च सुशुक्लानि च शुभ्राणि प्रवालमणिम् उत्तमम्
अददात् स महायज्ञे रत्नानि विविधानि च
वज्रवैदूर्यमाणिक्यमुक्तिकाद्यानि यानि च अलंकारवतीः शुभ्राः कन्या राजीवलोचनाः