काश्चित् पद्मपलाशाक्ष्यः काश्चिद् इन्दीवरेक्षणाः विद्युद्विस्पष्टदशनास् तन्वङ्ग्यश् च तथापराः
कुटिलालकसंयुक्ताः सीमन्तेन विराजिताः ग्रीवाभरणसंयुक्ता माल्यदामविभूषिताः
कुण्डलै रत्नसंयुक्तैः कर्णपूरैर् मनोहरैः देवयोषित्प्रतीकाशा दृश्यन्ते शुभलक्षणाः
दिव्यगीतवरैर् धन्यैः क्रीडमाना वराङ्गनाः वीणावेणुमृदङ्गैश् च पणवैश् चैव गोमुखैः
शङ्खदुन्दुभिनिर्घोषैर् नानावाद्यैर् मनोहरैः क्रीडन्त्यस् ताः सदा हृष्टा विलासिन्यः परस्परम्
एवमादि तथानेकगीतवाद्यविशारदाः दिवा रात्रौ समायुक्ताः कामोन्मत्ता वराङ्गनाः
भिक्षुवैखानसैः सिद्धैः स्नातकैर् ब्रह्मचारिभिः मन्त्रसिद्धैस् तपःसिद्धैर् यज्ञसिद्धैर् निषेवितम्
इत्य् एवं ददृशे राजा क्षेत्रं परमशोभनम् अत्रैवाराधयिष्यामि भगवन्तं सनातनम्
जगद्गुरुं परं देवं परं पारं परं पदम् सर्वेश्वरेश्वरं विष्णुम् अनन्तम् अपराजितम्
इदं तन्मानसं तीर्थं ज्ञातं मे पुरुषोत्तमम् कल्पवृक्षो महाकायो न्यग्रोधो यत्र तिष्ठति
प्रतिमा चेन्द्रनीलाख्या स्वयं देवेन गोपिता न चात्र दृश्यते चान्या प्रतिमा वैष्णवी शुभा
तथा यत्नं करिष्यामि यथा देवो जगत्पतिः प्रत्यक्षं मम चाभ्येति विष्णुः सत्यपराक्रमः
यज्ञैर् दानैस् तपोभिश् च होमैर् ध्यानैस् तथार्चनैः उपवासैश् च विधिवच् चरेयं व्रतम् उत्तमम्
अनन्यमनसा चैव तन्मना नान्यमानसः विष्ण्वायतनविन्यासे प्रारम्भं च करोम्य् अहम्
एवं स पृथिवीपालश् चिन्तयित्वा द्विजोत्तमाः प्रासादार्थं हरेस् तत्र प्रारम्भम् अकरोत् तदा
आनाय्य गणकान् सर्वान् आचार्याञ् शास्त्रपारगान् भूमिं संशोध्य यत्नेन राजा तु परया मुदा
ब्राह्मणैर् ज्ञानसंपन्नैर् वेदशास्त्रार्थपारगैः अमात्यैर् मन्त्रिभिश् चैव वास्तुविद्याविशारदैः
तैः सार्धं स समालोच्य सुमुहूर्ते शुभे दिने सुचन्द्रतारासंयोगे ग्रहानुकूल्यसंयुते
जयमङ्गलशब्दैश् च नानावाद्यैर् मनोहरैः वेदाध्ययननिर्घोषैर् गीतैः सुमधुरस्वरैः
पुष्पलाजाक्षतैर् गन्धैः पूर्णकुम्भैः सदीपकैः ददाव् अर्घ्यं ततो राजा श्रद्धया सुसमाहितः
दत्त्वैवम् अर्घ्यं विधिवद् आनाय्य स महीपतिः कलिङ्गाधिपतिं शूरम् उत्कलाधिपतिं तथा कोशलाधिपतिं चैव तान् उवाच तदा नृपः
गच्छध्वं सहिताः सर्वे शिलार्थे सुसमाहिताः गृहीत्वा शिल्पिमुख्यांश् च शिलाकर्मविशारदान्
विन्ध्याचलं सुविस्तीर्णं बहुकन्दरशोभितम् निरूप्य सर्वसानूनि च्छेदयित्वा शिलाः शुभाः संवाह्यन्तां च शकटैर् नौकाभिर् मा विलम्बथ
एवं गन्तुं समादिश्य तान् नृपान् स महीपतिः पुनर् एवाब्रवीद् वाक्यं सामात्यान् सपुरोहितान्
गच्छन्तु दूताः सर्वत्र ममाज्ञां प्रवदन्तु वै यत्र तिष्ठन्ति राजानः पृथिव्यां तान् सुशीघ्रगाः
हस्त्यश्वरथपादातैः सामात्यैः सपुरोहितैः गच्छत सहिताः सर्व इन्द्रद्युम्नस्य शासनात्
एवं दूताः समाज्ञाता राज्ञा तेन महात्मना गत्वा तदा नृपान् ऊचुर् वचनं तस्य भूपतेः
श्रुत्वा तु ते तथा सर्वे दूतानां वचनं नृपाः आजग्मुस् त्वरिताः सर्वे स्वसैन्यैः परिवारिताः
ये नृपाः सर्वदिग्भागे ये च दक्षिणतः स्थिताः पश्चिमायां स्थिता ये च उत्तरापथसंस्थिताः
प्रत्यन्तवासिनो ये ऽपि ये च संनिधिवासिनः पार्वतीयाश् च ये केचित् तथा द्वीपनिवासिनः