न सस्यानि न गोरक्ष्यं न कृषिर् न वणिक्पथः नैव सत्यानृतं चासीन् न लोभो न च मत्सरः
वैवस्वते ऽन्तरे तस्मिन् सांप्रतं समुपस्थिते वैण्यात् प्रभृति वै विप्राः सर्वस्यैतस्य संभवः
यत्र यत्र समं त्व् अस्या भूमेर् आसीत् तदा द्विजाः तत्र तत्र प्रजाः सर्वा निवासं समरोचयन्
आहारः फलमूलानि प्रजानाम् अभवत् तदा कृच्छ्रेण महता युक्त इत्य् एवम् अनुशुश्रुम
स कल्पयित्वा वत्सं तु मनुं स्वायंभुवं प्रभुम् स्वपाणौ पुरुषव्याघ्रो दुदोह पृथिवीं ततः
सस्यजातानि सर्वाणि पृथुर् वैण्यः प्रतापवान् तेनान्नेन प्रजाः सर्वा वर्तन्ते ऽद्यापि सर्वशः
ऋषयश् च तदा देवाः पितरो ऽथ सरीसृपाः दैत्या यक्षाः पुण्यजना गन्धर्वाः पर्वता नगाः
एते पुरा द्विजश्रेष्ठा दुदुहुर् धरणीं किल क्षीरं वत्सश् च पात्रं च तेषां दोग्धा पृथक् पृथक्
ऋषीणाम् अभवत् सोमो वत्सो दोग्धा बृहस्पतिः क्षीरं तेषां तपो ब्रह्म पात्रं छन्दांसि भो द्विजाः
देवानां काञ्चनं पात्रं वत्सस् तेषां शतक्रतुः क्षीरम् ओजस्करं चैव दोग्धा च भगवान् रविः
पितॄणां राजतं पात्रं यमो वत्सः प्रतापवान् अन्तकश् चाभवद् दोग्धा क्षीरं तेषां सुधा स्मृता
नागानां तक्षको वत्सः पात्रं चालाबुसंज्ञकम् दोग्धा त्व् ऐरावतो नागस् तेषां क्षीरं विषं स्मृतम्
असुराणां मधुर् दोग्धा क्षीरं मायामयं स्मृतम् विरोचनस् तु वत्सो ऽभूद् आयसं पात्रम् एव च
यक्षाणाम् आमपात्रं तु वत्सो वैश्रवणः प्रभुः दोग्धा रजतनाभस् तु क्षीरान्तर्धानम् एव च
सुमाली राक्षसेन्द्राणां वत्सः क्षीरं च शोणितम् दोग्धा रजतनाभस् तु कपालं पात्रम् एव च
गन्धर्वाणां चित्ररथो वत्सः पात्रं च पङ्कजम् दोग्धा च सुरुचिः क्षीरं तेषां गन्धः शुचिः स्मृतः
शैलं पात्रं पर्वतानां क्षीरं रत्नौषधीस् तथा वत्सस् तु हिमवान् आसीद् दोग्धा मेरुर् महागिरिः
प्लक्षो वत्सस् तु वृक्षाणां दोग्धा शालस् तु पुष्पितः पालाशपात्रं क्षीरं च च्छिन्नदग्धप्ररोहणम्
सेयं धात्री विधात्री च पावनी च वसुंधरा चराचरस्य सर्वस्य प्रतिष्ठा योनिर् एव च
सर्वकामदुघा दोग्ध्री सर्वसस्यप्ररोहणी आसीद् इयं समुद्रान्ता मेदिनी परिविश्रुता
मधुकैटभयोः कृत्स्ना मेदसा समभिप्लुता तेनेयं मेदिनी देवी उच्यते ब्रह्मवादिभिः
ततो ऽभ्युपगमाद् राज्ञः पृथोर् वैण्यस्य भो द्विजाः दुहितृत्वम् अनुप्राप्ता देवी पृथ्वीति चोच्यते
पृथुना प्रविभक्ता च शोधिता च वसुंधरा सस्याकरवती स्फीता पुरपत्तनशालिनी
एवंप्रभावो वैण्यः स राजासीद् राजसत्तमः नमस्यश् चैव पूज्यश् च भूतग्रामैर् न संशयः
ब्राह्मणैश् च महाभागैर् वेदवेदाङ्गपारगैः पृथुर् एव नमस्कार्यो ब्रह्मयोनिः सनातनः
पार्थिवैश् च महाभागैः पार्थिवत्वम् इहेच्छुभिः आदिराजो नमस्कार्यः पृथुर् वैण्यः प्रतापवान्
योधैर् अपि च विक्रान्तैः प्राप्तुकामैर् जयं युधि आदिराजो नमस्कार्यो योधानां प्रथमो नृपः
यो हि योद्धा रणं याति कीर्तयित्वा पृथुं नृपम् स घोररूपात् संग्रामात् क्षेमी भवति कीर्तिमान्
वैश्यैर् अपि च वित्ताढ्यैर् वैश्यवृत्तिविधायिभिः पृथुर् एव नमस्कार्यो वृत्तिदाता महायशाः
तथैव शूद्रैः शुचिभिस् त्रिवर्णपरिचारिभिः पृथुर् एव नमस्कार्यः श्रेयः परम् इहेप्सुभिः