प्रच्छाद्य वल्लिकैर् देवि जातरूपपरिच्छदैः यमं प्रस्थापयाम् आस स्वां पुरीं दक्षिणां दिशम्
लुप्तायां प्रतिमायां तु इन्द्रनीलस्य भो द्विजाः तस्मिन् क्षेत्रवरे पुण्ये विख्याते पुरुषोत्तमे
यो भूतस् तत्र वृत्तान्तो देवदेवो जनार्दनः तं सर्वं कथयाम् आस स तस्यै भगवान् पुरा
इन्द्रद्युम्नस्य गमनं क्षेत्रसंदर्शनं तथा क्षेत्रस्य वर्णनं चैव प्रासादकरणं तथा
हयमेधस्य यजनं स्वप्नदर्शनम् एव च लवणस्योदधेस् तीरे काष्ठस्य दर्शनं तथा
दर्शनं वासुदेवस्य शिल्पिराजस्य च द्विजाः निर्माणं प्रतिमायास् तु यथावर्णं विशेषतः
स्थापनं चैव सर्वेषां प्रासादे भुवनोत्तमे यात्राकाले च विप्रेन्द्राः कल्पसंकीर्तनं तथा
मार्कण्डेयस्य चरितं स्थापनं शंकरस्य च पञ्चतीर्थस्य माहात्म्यं दर्शनं शूलपाणिनः
वटस्य दर्शनं चैव व्युष्टिं तस्य च भो द्विजाः दर्शनं बलदेवस्य कृष्णस्य च विशेषतः
सुभद्रायाश् च तत्रैव माहात्म्यं चैव सर्वशः दर्शनं नरसिंहस्य व्युष्टिसंकीर्तनं तथा
अनन्तवासुदेवस्य दर्शनं गुणकीर्तनम् श्वेतमाधवमाहात्म्यं स्वर्गद्वारस्य दर्शनम्
उदधेर् दर्शनं चैव स्नानं तर्पणम् एव च समुद्रस्नानमाहात्म्यम् इन्द्रद्युम्नस्य च द्विजाः
पञ्चतीर्थफलं चैव महाज्येष्ठं तथैव च स्थानं कृष्णस्य हलिनः पर्वयात्राफलं तथा
वर्णनं विष्णुलोकस्य क्षेत्रस्य च पुनः पुनः पूर्वं कथितवान् सर्वं तस्यै स पुरुषोत्तमः
श्रोतुम् इच्छामहे देव कथाशेषं महीपतेः तस्मिन् क्षेत्रवरे गत्वा किं चकार नराधिपः
शृणुध्वं मुनिशार्दूलाः प्रवक्ष्यामि समासतः क्षेत्रसंदर्शनं चैव कृत्यं तस्य च भूपतेः
गत्वा तत्र महीपालः क्षेत्रे त्रैलोक्यविश्रुते ददर्श रमणीयानि स्थानानि सरितस् तथा
नदी तत्र महापुण्या विन्ध्यपादविनिर्गता स्वित्त्रोपलेति विख्याता सर्वपापहरा शिवा
गङ्गातुल्या महास्रोता दक्षिणार्णवगामिनी महानदीति नाम्ना सा पुण्यतोया सरिद्वरा
दक्षिणस्योदधेर् गर्भं गतावर्तातिशोभिता उभयोस् तटयोर् यस्या ग्रामाश् च नगराणि च
दृश्यन्ते मुनिशार्दूलाः सुसस्याः सुमनोहराः हृष्टपुष्टजनाकीर्णा वस्त्रालंकारभूषिताः
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रास् तत्र पृथक् पृथक् स्वधर्मनिरताः शान्ता दृश्यन्ते शुभलक्षणाः
ताम्बूलपूर्णवदना मालादामविभूषिताः वेदपूर्णमुखा विप्राः सषडङ्गपदक्रमाः
अग्निहोत्ररताः केचित् केचिद् औपासनक्रियाः सर्वशास्त्रार्थकुशला यज्वानो भूरिदक्षिणाः
चत्वारे राजमार्गेषु वनेषूपवनेषु च सभामण्डलहर्म्येषु देवतायतनेषु च
इतिहासपुराणानि वेदाः साङ्गाः सुलक्षणाः काव्यशास्त्रकथास् तत्र श्रूयन्ते च महाजनैः
स्त्रियस् तद्देशवासिन्यो रूपयौवनगर्विताः संपूर्णलक्षणोपेता विस्तीर्णश्रोणिमण्डलाः
सरोरुहमुखाः श्यामाः शरच्चन्द्रनिभाननाः पीनोन्नतस्तनाः सर्वाः समृद्ध्या चारुदर्शनाः
सौवर्णवलयाक्रान्ता दिव्यैर् वस्त्रैर् अलंकृताः कदलीगर्भसंकाशाः पद्मकिञ्जल्कसप्रभाः
बिम्बाधरपुटाः कान्ताः कर्णान्तायतलोचनाः सुमुखाश् चारुकेशाश् च हावभावावनामिताः