प्रदक्षिणा कृता यैस् तु नमस्कारश् च जन्तुभिः सर्वे विधूतपाप्मानस् ते गताः केशवालयम्
न्यग्रोधस्योत्तरे किंचिद् दक्षिणे केशवस्य तु प्रासादस् तत्र तिष्ठेत् तु पदं धर्ममयं हि तत्
प्रतिमां तत्र वै दृष्ट्वा स्वयं देवेन निर्मिताम् अनायासेन वै यान्ति भुवनं मे ततो नराः
गच्छमानांस् तु तान् प्रेक्ष्य एकदा धर्मराट् प्रिये मदन्तिकम् अनुप्राप्य प्रणम्य शिरसाब्रवीत्
नमस् ते भगवन् देव लोकनाथ जगत्पते क्षीरोदवासिनं देवं शेषभोगानुशायिनम्
वरं वरेण्यं वरदं कर्तारम् अकृतं प्रभुम् विश्वेश्वरम् अजं विष्णुं सर्वज्ञम् अपराजितम्
नीलोत्पलदलश्यामं पुण्डरीकनिभेक्षणम् सर्वज्ञं निर्गुणं शान्तं जगद्धातारम् अव्ययम्
सर्वलोकविधातारं सर्वलोकसुखावहम् पुराणं पुरुषं वेद्यं व्यक्ताव्यक्तं सनातनम्
परावराणां स्रष्टारं लोकनाथं जगद्गुरुम् श्रीवत्सोरस्कसंयुक्तं वनमालाविभूषितम्
पीतवस्त्रं चतुर्बाहुं शङ्खचक्रगदाधरम् हारकेयूरसंयुक्तं मुकुटाङ्गदधारिणम्
सर्वलक्षणसंपूर्णं सर्वेन्द्रियविवर्जितम् कूटस्थम् अचलं सूक्ष्मं ज्योतीरूपं सनातनम्
भावाभावविनिर्मुक्तं व्यापिनं प्रकृतेः परम् नमस्यामि जगन्नाथम् ईश्वरं सुखदं प्रभुम्
इत्य् एवं धर्मराजस् तु पुरा न्यग्रोधसंनिधौ स्तुत्वा नानाविधैः स्तोत्रैः प्रणामम् अकरोत् तदा
तं दृष्ट्वा तु महाभागे प्रणतं प्राञ्जलिस्थितम् स्तोत्रस्य कारणं देवि पृष्टवान् अहम् अन्तकम्
वैवस्वत महाबाहो सर्वदेवोत्तमो ह्य् असि किमर्थं स्तुतवान् मां त्वं संक्षेपात् तद् ब्रवीहि मे
अस्मिन्न् आयतने पुण्ये विख्याते पुरुषोत्तमे इन्द्रनीलमयी श्रेष्ठा प्रतिमा सार्वकामिकी
तां दृष्ट्वा पुण्डरीकाक्ष भावेनैकेन श्रद्धया श्वेताख्यं भवनं यान्ति निष्कामाश् चैव मानवाः
अतः कर्तुं न शक्नोमि व्यापारम् अरिसूदन प्रसीद सुमहादेव संहर प्रतिमां विभो
श्रुत्वा वैवस्वतस्यैतद् वाक्यम् एतद् उवाच ह यम तां गोपयिष्यामि सिकताभिः समन्ततः
ततः सा प्रतिमा देवि वल्लिभिर् गोपिता मया यथा तत्र न पश्यन्ति मनुजाः स्वर्गकाङ्क्षिणः
प्रच्छाद्य वल्लिकैर् देवि जातरूपपरिच्छदैः यमं प्रस्थापयाम् आस स्वां पुरीं दक्षिणां दिशम्
लुप्तायां प्रतिमायां तु इन्द्रनीलस्य भो द्विजाः तस्मिन् क्षेत्रवरे पुण्ये विख्याते पुरुषोत्तमे
यो भूतस् तत्र वृत्तान्तो देवदेवो जनार्दनः तं सर्वं कथयाम् आस स तस्यै भगवान् पुरा
इन्द्रद्युम्नस्य गमनं क्षेत्रसंदर्शनं तथा क्षेत्रस्य वर्णनं चैव प्रासादकरणं तथा
हयमेधस्य यजनं स्वप्नदर्शनम् एव च लवणस्योदधेस् तीरे काष्ठस्य दर्शनं तथा
दर्शनं वासुदेवस्य शिल्पिराजस्य च द्विजाः निर्माणं प्रतिमायास् तु यथावर्णं विशेषतः
स्थापनं चैव सर्वेषां प्रासादे भुवनोत्तमे यात्राकाले च विप्रेन्द्राः कल्पसंकीर्तनं तथा
मार्कण्डेयस्य चरितं स्थापनं शंकरस्य च पञ्चतीर्थस्य माहात्म्यं दर्शनं शूलपाणिनः
वटस्य दर्शनं चैव व्युष्टिं तस्य च भो द्विजाः दर्शनं बलदेवस्य कृष्णस्य च विशेषतः
सुभद्रायाश् च तत्रैव माहात्म्यं चैव सर्वशः दर्शनं नरसिंहस्य व्युष्टिसंकीर्तनं तथा