स्थानं जगत्पते मह्याम् उत्कृष्टं च यद् उच्यते सर्वेषाम् उत्तमं स्थानं ब्रूहि मे पुरुषोत्तम
विधातुर् वचनं श्रुत्वा ततो ऽहं प्रोक्तवान् प्रिये शृणु ब्रह्मन् प्रवक्ष्यामि निर्मलं भुवि दुर्लभम्
उत्तमं सर्वक्षेत्राणां धन्यं संसारतारणम् गोब्राह्मणहितं पुण्यं चातुर्वर्ण्यसुखोदयम्
भुक्तिमुक्तिप्रदं नॄणां क्षेत्रं परमदुर्लभम् महापुण्यं तु सर्वेषां सिद्धिदं वै पितामहे
तस्माद् आसीत् समुत्पन्नं तीर्थराजं सनातनम् विख्यातं परमं क्षेत्रं चतुर्युगनिषेवितम्
सर्वेषाम् एव देवानाम् ऋषीणां ब्रह्मचारिणाम् दैत्यदानवसिद्धानां गन्धर्वोरगरक्षसाम्
नागविद्याधराणां च स्थावरस्य चरस्य च उत्तमः पुरुषो यस्मात् तस्मात् स पुरुषोत्तमः
दक्षिणस्योदधेस् तीरे न्यग्रोधो यत्र तिष्ठति दशयोजनविस्तीर्णं क्षेत्रं परमदुर्लभम्
यस् तु कल्पे समुत्पन्ने महदुल्कानिबर्हणे विनाशं नैवम् अभ्येति स्वयं तत्रैवम् आस्थितः
दृष्टमात्रे वटे तस्मिंश् छायाम् आक्रम्य चासकृत् ब्रह्महत्यात् प्रमुच्येत पापेष्व् अन्येषु का कथा
प्रदक्षिणा कृता यैस् तु नमस्कारश् च जन्तुभिः सर्वे विधूतपाप्मानस् ते गताः केशवालयम्
न्यग्रोधस्योत्तरे किंचिद् दक्षिणे केशवस्य तु प्रासादस् तत्र तिष्ठेत् तु पदं धर्ममयं हि तत्
प्रतिमां तत्र वै दृष्ट्वा स्वयं देवेन निर्मिताम् अनायासेन वै यान्ति भुवनं मे ततो नराः
गच्छमानांस् तु तान् प्रेक्ष्य एकदा धर्मराट् प्रिये मदन्तिकम् अनुप्राप्य प्रणम्य शिरसाब्रवीत्
नमस् ते भगवन् देव लोकनाथ जगत्पते क्षीरोदवासिनं देवं शेषभोगानुशायिनम्
वरं वरेण्यं वरदं कर्तारम् अकृतं प्रभुम् विश्वेश्वरम् अजं विष्णुं सर्वज्ञम् अपराजितम्
नीलोत्पलदलश्यामं पुण्डरीकनिभेक्षणम् सर्वज्ञं निर्गुणं शान्तं जगद्धातारम् अव्ययम्
सर्वलोकविधातारं सर्वलोकसुखावहम् पुराणं पुरुषं वेद्यं व्यक्ताव्यक्तं सनातनम्
परावराणां स्रष्टारं लोकनाथं जगद्गुरुम् श्रीवत्सोरस्कसंयुक्तं वनमालाविभूषितम्
पीतवस्त्रं चतुर्बाहुं शङ्खचक्रगदाधरम् हारकेयूरसंयुक्तं मुकुटाङ्गदधारिणम्
सर्वलक्षणसंपूर्णं सर्वेन्द्रियविवर्जितम् कूटस्थम् अचलं सूक्ष्मं ज्योतीरूपं सनातनम्
भावाभावविनिर्मुक्तं व्यापिनं प्रकृतेः परम् नमस्यामि जगन्नाथम् ईश्वरं सुखदं प्रभुम्
इत्य् एवं धर्मराजस् तु पुरा न्यग्रोधसंनिधौ स्तुत्वा नानाविधैः स्तोत्रैः प्रणामम् अकरोत् तदा
तं दृष्ट्वा तु महाभागे प्रणतं प्राञ्जलिस्थितम् स्तोत्रस्य कारणं देवि पृष्टवान् अहम् अन्तकम्
वैवस्वत महाबाहो सर्वदेवोत्तमो ह्य् असि किमर्थं स्तुतवान् मां त्वं संक्षेपात् तद् ब्रवीहि मे
अस्मिन्न् आयतने पुण्ये विख्याते पुरुषोत्तमे इन्द्रनीलमयी श्रेष्ठा प्रतिमा सार्वकामिकी
तां दृष्ट्वा पुण्डरीकाक्ष भावेनैकेन श्रद्धया श्वेताख्यं भवनं यान्ति निष्कामाश् चैव मानवाः
अतः कर्तुं न शक्नोमि व्यापारम् अरिसूदन प्रसीद सुमहादेव संहर प्रतिमां विभो
श्रुत्वा वैवस्वतस्यैतद् वाक्यम् एतद् उवाच ह यम तां गोपयिष्यामि सिकताभिः समन्ततः
ततः सा प्रतिमा देवि वल्लिभिर् गोपिता मया यथा तत्र न पश्यन्ति मनुजाः स्वर्गकाङ्क्षिणः