आसीत् कल्पे समुत्पन्ने नष्टे स्थावरजङ्गमे प्रलीना देवगन्धर्वदैत्यविद्याधरोरगाः
तमोभूतम् इदं सर्वं न प्राज्ञायत किंचन तस्मिञ् जागर्ति भूतात्मा परमात्मा जगद्गुरुः
श्रीमांस् त्रिमूर्तिकृद् देवो जगत्कर्ता महेश्वरः वासुदेवेति विख्यातो योगात्मा हरिर् ईश्वरः
सो ऽसृजद् योगनिद्रान्ते नाभ्यम्भोरुहमध्यगम् पद्मकेशरसंकाशं ब्रह्माणं भूतम् अव्ययम्
तादृग्भूतस् ततो ब्रह्मा सर्वलोकमहेश्वरः पञ्चभूतसमायुक्तं सृजते च शनैः शनैः
मात्रायोनीनि भूतानि स्थूलसूक्ष्माणि यानि च चतुर्विधानि सर्वाणि स्थावराणि चराणि च
ततः प्रजापतिर् ब्रह्मा चक्रे सर्वं चराचरम् संचिन्त्य मनसात्मानं ससर्ज विविधाः प्रजाः
मरीच्यादीन् मुनीन् सर्वान् देवासुरपितॄन् अपि यक्षविद्याधरांश् चान्यान् गङ्गाद्याः सरितस् तथा
नरवानरसिंहांश् च विविधांश् च विहंगमान् जरायून् अण्डजान् देवि स्वेदजोद्भेदजांस् तथा
ब्रह्म क्षत्रं तथा वैश्यं शूद्रं चैव चतुष्टयम् अन्त्यजातांश् च म्लेच्छांश् च ससर्ज विविधान् पृथक्
यत् किंचिज् जीवसंज्ञं तु तृणगुल्मपिपीलिकम् ब्रह्मा भूत्वा जगत् सर्वं निर्ममे स चराचरम्
दक्षिणाङ्गे तथात्मानं संचिन्त्य पुरुषं स्वयम् वामे चैव तु नारीं स द्विधा भूतम् अकल्पयत्
ततः प्रभृति लोके ऽस्मिन् प्रजा मैथुनसंभवाः अधमोत्तममध्याश् च मम क्षेत्राणि यानि च
एवं संचिन्त्य देवो ऽसौ पुरा सलिलयोनिजः जगाम ध्यानम् आस्थाय वासुदेवात्मिकां तनुम्
ध्यानमात्रेण देवेन स्वयम् एव जनार्दनः तस्मिन् क्षणे समुत्पन्नः सहस्राक्षः सहस्रपात्
सहस्रशीर्षा पुरुषः पुण्डरीकनिभेक्षणः सलिलध्वान्तमेघाभः श्रीमाञ् श्रीवत्सलक्षणः
अपश्यत् सहसा तं तु ब्रह्मा लोकपितामहः आसनैर् अर्घ्यपाद्यैश् च अक्षतैर् अभिनन्द्य च
तुष्टाव परमैः स्तोत्रैर् विरिञ्चिः सुसमाहितः ततो ऽहम् उक्तवान् देवं ब्रह्माणं कमलोद्भवम् कारणं वद मां तात मम ध्यानस्य सांप्रतम्
जगद्धिताय देवेश मर्त्यलोकैश् च दुर्लभम् स्वर्गद्वारस्य मार्गाणि यज्ञदानव्रतानि च
योगः सत्यं तपः श्रद्धा तीर्थानि विविधानि च विहाय सर्वम् एतेषां सुखं तत्साधनं वद
स्थानं जगत्पते मह्याम् उत्कृष्टं च यद् उच्यते सर्वेषाम् उत्तमं स्थानं ब्रूहि मे पुरुषोत्तम
विधातुर् वचनं श्रुत्वा ततो ऽहं प्रोक्तवान् प्रिये शृणु ब्रह्मन् प्रवक्ष्यामि निर्मलं भुवि दुर्लभम्
उत्तमं सर्वक्षेत्राणां धन्यं संसारतारणम् गोब्राह्मणहितं पुण्यं चातुर्वर्ण्यसुखोदयम्
भुक्तिमुक्तिप्रदं नॄणां क्षेत्रं परमदुर्लभम् महापुण्यं तु सर्वेषां सिद्धिदं वै पितामहे
तस्माद् आसीत् समुत्पन्नं तीर्थराजं सनातनम् विख्यातं परमं क्षेत्रं चतुर्युगनिषेवितम्
सर्वेषाम् एव देवानाम् ऋषीणां ब्रह्मचारिणाम् दैत्यदानवसिद्धानां गन्धर्वोरगरक्षसाम्
नागविद्याधराणां च स्थावरस्य चरस्य च उत्तमः पुरुषो यस्मात् तस्मात् स पुरुषोत्तमः
दक्षिणस्योदधेस् तीरे न्यग्रोधो यत्र तिष्ठति दशयोजनविस्तीर्णं क्षेत्रं परमदुर्लभम्
यस् तु कल्पे समुत्पन्ने महदुल्कानिबर्हणे विनाशं नैवम् अभ्येति स्वयं तत्रैवम् आस्थितः
दृष्टमात्रे वटे तस्मिंश् छायाम् आक्रम्य चासकृत् ब्रह्महत्यात् प्रमुच्येत पापेष्व् अन्येषु का कथा