कमलैः शतपत्त्रैश् च कह्लारैः कुमुदोत्पलैः खगैर् जलचरैश् चान्यैः पुष्पैर् जलसमुद्भवैः
पर्वतैर् दीप्तशिखरैश् चारुकन्दरमण्डितैः नानावृक्षसमाकीर्णैर् नानाधातुविभूषितैः
सर्वाश्चर्यमयैः शृङ्गैः सर्वभूतालयैः शुभैः सर्वौषधिसमायुक्तैर् विपुलैश् चित्रसानुभिः
एवं सर्वैः समुदितैः शोभितं सुमनोहरैः ददर्श स महीपालः स्थानं त्रैलोक्यपूजितम्
दशयोजनविस्तीर्णं पञ्चयोजनम् आयतम् नानाश्चर्यसमायुक्तं क्षेत्रं परमदुर्लभम्
तस्मिन् क्षेत्रवरे पुण्ये वैष्णवे पुरुषोत्तमे किं तत्र प्रतिमा पूर्वं न स्थिता वैष्णवी प्रभो
येनासौ नृपतिस् तत्र गत्वा सबलवाहनः स्थापयाम् आस कृष्णं च रामं भद्रां शुभप्रदाम्
संशयो नो महान् अत्र विस्मयश् च जगत्पते श्रोतुम् इच्छामहे सर्वं ब्रूहि तत्कारणं च नः
शृणुध्वं पूर्वसंवृत्तां कथां पापप्रणाशिनीम् प्रवक्ष्यामि समासेन श्रिया पृष्टः पुरा हरिः
सुमेरोः काञ्चने शृङ्गे सर्वाश्चर्यसमन्विते सिद्धविद्याधरैर् यक्षैः किंनरैर् उपशोभिते
देवदानवगन्धर्वैर् नागैर् अप्सरसां गणैः मुनिभिर् गुह्यकैः सिद्धैः सौपर्णैः समरुद्गणैः
अन्यैर् देवालयैः साध्यैः कश्यपाद्यैः प्रजेश्वरैः वालखिल्यादिभिश् चैव शोभिते सुमनोहरे
कर्णिकारवनैर् दिव्यैः सर्वर्तुकुसुमोत्करैः जातरूपप्रतीकाशैर् भूषिते सूर्यसंनिभैः
अन्यैश् च बहुभिर् वृक्षैः शालतालादिभिर् वनैः पुंनागाशोकसरलन्यग्रोधाम्रातकार्जुनैः
पारिजाताम्रखदिरनीपबिल्वकदम्बकैः धवखादिरपालाशशीर्षामलकतिन्दुकैः
नारिङ्गकोलबकुललोध्रदाडिमदारुकैः सर्जैश् च कर्णैस् तगरैः शिशिभूर्जवनिम्बकैः
अन्यैश् च काञ्चनैश् चैव फलभारैश् च नामितैः नानाकुसुमगन्धाढ्यैर् भूषिते पुष्पपादपैः
मालतीयूथिकामल्लीकुन्दबाणकुरुण्टकैः पाटलागस्त्यकुटजमन्दारकुसुमादिभिः
अन्यैश् च विविधैः पुष्पैर् मनसः प्रीतिदायकैः नानाविहगसंघैश् च कूजद्भिर् मधुरस्वरैः
पुंस्कोकिलरुतैर् दिव्यैर् मत्तबर्हिणनादितैः एवं नानाविधैर् वृक्षैः पुष्पैर् नानाविधैस् तथा
खगैर् नानाविधैश् चैव शोभिते सुरसेविते तत्र स्थितं जगन्नाथं जगत्स्रष्टारम् अव्ययम्
सर्वलोकविधातारं वासुदेवाख्यम् अव्ययम् प्रणम्य शिरसा देवी लोकानां हितकाम्यया पप्रच्छेमं महाप्रश्नं पद्मजा तम् अनुत्तमम्
ब्रूहि त्वं सर्वलोकेश संशयं मे हृदि स्थितम् मर्त्यलोके महाश्चर्ये कर्मभूमौ सुदुर्लभे
लोभमोहग्रहग्रस्ते कामक्रोधमहार्णवे येन मुच्येत देवेश अस्मात् संसारसागरात्
आचक्ष्व सर्वदेवेश प्रणतां यदि मन्यसे त्वदृते नास्ति लोके ऽस्मिन् वक्ता संशयनिर्णये
श्रुत्वैवं वचनं तस्या देवदेवो जनार्दनः प्रोवाच परया प्रीत्या परं सारामृतोपमम्
सुखोपास्यः सुसाध्यश् च ऽभिरामश् च सुसत्फलः आस्ते तीर्थवरे देवि विख्यातः पुरुषोत्तमः
न तेन सदृशः कश्चित् त्रिषु लोकेषु विद्यते कीर्तनाद् यस्य देवेशि मुच्यते सर्वपातकैः
न विज्ञातो ऽमरैः सर्वैर् न दैत्यैर् न च दानवैः मरीच्याद्यैर् मुनिवरैर् गोपितं मे वरानने
तत् ते ऽहं संप्रवक्ष्यामि तीर्थराजं च सांप्रतम् भावेनैकेन सुश्रोणि शृणुष्व वरवर्णिनि