नानारत्नालयं पूर्णं नानाप्राणिसमाकुलम् वीचीतरङ्गबहुलं महाश्चर्यसमन्वितम्
तीर्थराजं महाशब्दम् अपारं सुभयंकरम् मेघवृन्दप्रतीकाशम् अगाधं मकरालयम्
मत्स्यैः कूर्मैश् च शङ्खैश् च शुक्तिकानक्रशङ्कुभिः शिंशुमारैः कर्कटैश् च वृतं सर्पैर् महाविषैः
लवणोदं हरेः स्थानं शयनस्य नदीपतिम् सर्वपापहरं पुण्यं सर्ववाञ्छाफलप्रदम्
अनेकावर्तगम्भीरं दानवानां समाश्रयम् अमृतस्यारणिं दिव्यं देवयोनिम् अपां पतिम्
विशिष्टं सर्वभूतानां प्राणिनां जीवधारणम् सुपवित्रं पवित्राणां मङ्गलानां च मङ्गलम्
तीर्थानाम् उत्तमं तीर्थम् अव्ययं यादसां पतिम् चन्द्रवृद्धिक्षयस्येव यस्य मानं प्रतिष्ठितम्
अभेद्यं सर्वभूतानां देवानाम् अमृतालयम् उत्पत्तिस्थितिसंहारहेतुभूतं सनातनम्
उपजीव्यं च सर्वेषां पुण्यं नदनदीपतिम् दृष्ट्वा तं नृपतिश्रेष्ठो विस्मयं परमं गतः
निवासम् अकरोत् तत्र वेलाम् असाद्य सागरीम् पुण्ये मनोहरे देशे सर्वभूमिगुणैर् युते
वृतं शालैः कदम्बैश् च पुंनागैः सरलद्रुमैः पनसैर् नारिकेलैश् च बकुलैर् नागकेसरैः
तालैः पिप्पलैः खर्जूरैर् नारङ्गैर् बीजपूरकैः शालैर् आम्रातकैर् लोध्रैर् बकुलैर् बहुवारकैः
कपित्थैः कर्णिकारैश् च पाटलाशोकचम्पकैः दाडिमैश् च तमालैश् च पारिजातैस् तथार्जुनैः
प्राचीनामलकैर् बिल्वैः प्रियङ्गुवटखादिरैः इङ्गुदीसप्तपर्णैश् च अश्वत्थागस्त्यजम्बुकैः
मधुकैः कर्णिकारैश् च बहुवारैः सतिन्दुकैः पलाशबदरैर् नीपैः सिद्धनिम्बशुभाञ्जनैः
वारकैः कोविदारैश् च भल्लातामलकैस् तथा इति हिन्तालकाङ्कोलैः करञ्जैः सविभीतकैः
ससर्जमधुकाश्मर्यैः शाल्मलीदेवदारुभिः शाखोठकैर् निम्बवटैः कुम्भीकौष्ठहरीतकैः
गुग्गुलैश् चन्दनैर् वृक्षैस् तथैवागुरुपाटलैः जम्बीरकरुणैर् वृक्षैस् तिन्तिडीरक्तचन्दनैः
एवं नानाविधैर् वृक्षैस् तथान्यैर् बहुपादपैः कल्पद्रुमैर् नित्यफलैः सर्वर्तुकुसुमोत्करैः
नानापक्षिरुतैर् दिव्यैर् मत्तकोकिलनादितैः मयूरवरसंघुष्टैः शुकसारिकसंकुलैः
हारीतैर् भृङ्गराजैश् च चातकैर् बहुपुत्रकैः जीवंजीवककाकोलैः कलविङ्कैः कपोतकैः
खगैर् नानाविधैश् चान्यैः श्रोत्ररम्यैर् मनोहरैः पुष्पिताग्रेषु वृक्षेषु कूजद्भिश् चार्वधिष्ठितैः
केतकीवनखण्डैश् च सदा पुष्पधरैः सितैः मल्लिकाकुन्दकुसुमैर् यूथिकातगरैस् तथा
कुटजैर् बाणपुष्पैश् च अतिमुक्तैः सकुब्जकैः मालतीकरवीरैश् च तथा कदलकाञ्चनैः
अन्यैर् नानाविधैः पुष्पैः सुगन्धैश् चारुदर्शनैः वनोद्यानोपवनजैर् नानावर्णैः सुगन्धिभिः
विद्याधरगणाकीर्णैः सिद्धचारणसेवितैः गन्धर्वोरगरक्षोभिर् भूताप्सरसकिंनरैः
मुनियक्षगणाकीर्णैर् नानासत्त्वनिषेवितैः मृगैः शाखामृगैः सिंहैर् वराहमहिषाकुलैः
तथान्यैः कृष्णसाराद्यैर् मृगैः सर्वत्र शोभितैः शार्दूलैर् दीप्तमातङ्गैस् तथान्यैर् वनचारिभिः
एवं नानाविधैर् वृक्षैर् उद्यानैर् नन्दनोपमैः लतागुल्मवितानैश् च विविधैश् च जलाशयैः
हंसकारण्डवाकीर्णैः पद्मिनीखण्डमण्डितैः कादम्बैश् च प्लवैर् हंसैश् चक्रवाकोपशोभितैः