सुमध्यमाश् चारुवेषाश् चारुकर्णालकाञ्चिताः ताम्बूलरञ्जितमुखा रक्षिभिश् च सुरक्षिताः
यानैर् उच्चावचैः शुभ्रैर् मणिकाञ्चनभूषितैः उपगीयमानास् ताः सर्वा गायनैः स्तुतिपाठकैः
वेष्टिताः शस्त्रहस्तैश् च पद्मपत्त्रायतेक्षणाः ब्राह्मणाः क्षत्रिया वैश्या अनुजग्मुश् च तं नृपम्
वणिग्ग्रामगणाः सर्वे नानापुरनिवासिनः धनै रत्नैः सुवर्णैश् च सदाराः सपरिच्छदाः
अस्त्रविक्रयकाश् चैव ताम्बूलपण्यजीविनः तृणविक्रयकाश् चैव काष्ठविक्रयकारकाः
रङ्गोपजीविनः सर्वे मांसविक्रयिणस् तथा तैलविक्रयकाश् चैव वस्त्रविक्रयकास् तथा
फलविक्रयिणश् चैव पत्त्रविक्रयिणस् तथा तथा जवसहाराश् च रजकाश् च सहस्रशः
गोपाला नापिताश् चैव तथान्ये वस्त्रसूचकाः मेषपालाश् चाजपाला मृगपालाश् च हंसकाः
धान्यविक्रयिणश् चैव सक्तुविक्रयिणश् च ये गुडविक्रयिकाश् चैव तथा लवणजीविनः
गायना नर्तकाश् चैव तथा मङ्गलपाठकाः शैलूषाः कथकाश् चैव पुराणार्थविशारदाः
कवयः काव्यकर्तारो नानाकाव्यविशारदाः विषघ्ना गारुडाश् चैव नानारत्नपरीक्षकाः
व्योकारास् ताम्रकाराश् च कांस्यकाराश् च रूठकाः कौषकाराश् चित्रकाराः कुन्दकाराश् च पावकाः
दण्डकाराश् चासिकाराः सुराधूतोपजीविनः मल्ला दूताश् च कायस्था ये चान्ये कर्मकारिणः
तन्तुवाया रूपकारा वार्तिकास् तैलपाठकाः लावजीवास् तैत्तिरिका मृगपक्ष्युपजीविनः
गजवैद्याश् च वैद्याश् च नरवैद्याश् च ये नराः वृक्षवैद्याश् च गोवैद्या ये चान्ये छेददाहकाः
एते नागरकाः सर्वे ये चान्ये नानुकीर्तिताः अनुजग्मुस् तु राजानं समस्तपुरवासिनः
यथा व्रजन्तं पितरं ग्रामान्तरं समुत्सुकाः अनुयान्ति यथा पुत्रास् तथा तं ते ऽपि नागराः
एवं स नृपतिः श्रीमान् वृतः सर्वैर् महाजनैः हस्त्यश्वरथपादातैर् जगाम च शनैः शनैः
एवं गत्वा स नृपतिर् दक्षिणस्योदधेस् तटम् सर्वैस् तैर् दीर्घकालेन बलैर् अनुगतः प्रभुः
ददर्श सागरं रम्यं नृत्यन्तम् इव च स्थितम् अनेकशतसाहस्रैर् ऊर्मिभिश् च समाकुलम्
नानारत्नालयं पूर्णं नानाप्राणिसमाकुलम् वीचीतरङ्गबहुलं महाश्चर्यसमन्वितम्
तीर्थराजं महाशब्दम् अपारं सुभयंकरम् मेघवृन्दप्रतीकाशम् अगाधं मकरालयम्
मत्स्यैः कूर्मैश् च शङ्खैश् च शुक्तिकानक्रशङ्कुभिः शिंशुमारैः कर्कटैश् च वृतं सर्पैर् महाविषैः
लवणोदं हरेः स्थानं शयनस्य नदीपतिम् सर्वपापहरं पुण्यं सर्ववाञ्छाफलप्रदम्
अनेकावर्तगम्भीरं दानवानां समाश्रयम् अमृतस्यारणिं दिव्यं देवयोनिम् अपां पतिम्
विशिष्टं सर्वभूतानां प्राणिनां जीवधारणम् सुपवित्रं पवित्राणां मङ्गलानां च मङ्गलम्
तीर्थानाम् उत्तमं तीर्थम् अव्ययं यादसां पतिम् चन्द्रवृद्धिक्षयस्येव यस्य मानं प्रतिष्ठितम्
अभेद्यं सर्वभूतानां देवानाम् अमृतालयम् उत्पत्तिस्थितिसंहारहेतुभूतं सनातनम्
उपजीव्यं च सर्वेषां पुण्यं नदनदीपतिम् दृष्ट्वा तं नृपतिश्रेष्ठो विस्मयं परमं गतः
निवासम् अकरोत् तत्र वेलाम् असाद्य सागरीम् पुण्ये मनोहरे देशे सर्वभूमिगुणैर् युते