वनमालावृतोरस्कं पद्मपत्त्रायतेक्षणम् श्रीवत्सोरःसमायुक्तं मुकुटाङ्गदशोभितम्
स्वपुरात् स तु निष्क्रान्त उज्जयिन्याः प्रजापतिः बलेन महता युक्तः सभृत्यः सपुरोहितः
अनुजग्मुस् तु तं सर्वे रथिनः शस्त्रपाणयः रथैर् विमानसंकाशैः पताकाध्वजसेवितैः
सादिनश् च तथा सर्वे प्रासतोमरपाणयः अश्वैः पवनसंकाशैर् अनुजग्मुस् तु तं नृपम्
हिमवत्संभवैर् मत्तैर् वारणैः पर्वतोपमैः ईषादन्तैः सदा मत्तैः प्रचण्डैः षष्टिहायनैः
हेमकक्षैः सपताकैर् घण्टारवविभूषितैः अनुजग्मुश् च तं सर्वे गजयुद्धविशारदाः
असंख्येयाश् च पादाता धनुष्प्रासासिपाणयः दिव्यमाल्याम्बरधरा दिव्यगन्धानुलेपनाः
अनुजग्मुश् च तं सर्वे युवानो मृष्टकुण्डलाः सर्वास्त्रकुशलाः शूराः सदा संग्रामलालसाः
अन्तःपुरनिवासिन्यः स्त्रियः सर्वाः स्वलंकृताः बिम्बौष्ठचारुदशनाः सर्वाभरणभूषिताः
दिव्यवस्त्रधराः सर्वा दिव्यमाल्यविभूषिताः दिव्यगन्धानुलिप्ताङ्गाः शरच्चन्द्रनिभाननाः
सुमध्यमाश् चारुवेषाश् चारुकर्णालकाञ्चिताः ताम्बूलरञ्जितमुखा रक्षिभिश् च सुरक्षिताः
यानैर् उच्चावचैः शुभ्रैर् मणिकाञ्चनभूषितैः उपगीयमानास् ताः सर्वा गायनैः स्तुतिपाठकैः
वेष्टिताः शस्त्रहस्तैश् च पद्मपत्त्रायतेक्षणाः ब्राह्मणाः क्षत्रिया वैश्या अनुजग्मुश् च तं नृपम्
वणिग्ग्रामगणाः सर्वे नानापुरनिवासिनः धनै रत्नैः सुवर्णैश् च सदाराः सपरिच्छदाः
अस्त्रविक्रयकाश् चैव ताम्बूलपण्यजीविनः तृणविक्रयकाश् चैव काष्ठविक्रयकारकाः
रङ्गोपजीविनः सर्वे मांसविक्रयिणस् तथा तैलविक्रयकाश् चैव वस्त्रविक्रयकास् तथा
फलविक्रयिणश् चैव पत्त्रविक्रयिणस् तथा तथा जवसहाराश् च रजकाश् च सहस्रशः
गोपाला नापिताश् चैव तथान्ये वस्त्रसूचकाः मेषपालाश् चाजपाला मृगपालाश् च हंसकाः
धान्यविक्रयिणश् चैव सक्तुविक्रयिणश् च ये गुडविक्रयिकाश् चैव तथा लवणजीविनः
गायना नर्तकाश् चैव तथा मङ्गलपाठकाः शैलूषाः कथकाश् चैव पुराणार्थविशारदाः
कवयः काव्यकर्तारो नानाकाव्यविशारदाः विषघ्ना गारुडाश् चैव नानारत्नपरीक्षकाः
व्योकारास् ताम्रकाराश् च कांस्यकाराश् च रूठकाः कौषकाराश् चित्रकाराः कुन्दकाराश् च पावकाः
दण्डकाराश् चासिकाराः सुराधूतोपजीविनः मल्ला दूताश् च कायस्था ये चान्ये कर्मकारिणः
तन्तुवाया रूपकारा वार्तिकास् तैलपाठकाः लावजीवास् तैत्तिरिका मृगपक्ष्युपजीविनः
गजवैद्याश् च वैद्याश् च नरवैद्याश् च ये नराः वृक्षवैद्याश् च गोवैद्या ये चान्ये छेददाहकाः
एते नागरकाः सर्वे ये चान्ये नानुकीर्तिताः अनुजग्मुस् तु राजानं समस्तपुरवासिनः
यथा व्रजन्तं पितरं ग्रामान्तरं समुत्सुकाः अनुयान्ति यथा पुत्रास् तथा तं ते ऽपि नागराः
एवं स नृपतिः श्रीमान् वृतः सर्वैर् महाजनैः हस्त्यश्वरथपादातैर् जगाम च शनैः शनैः
एवं गत्वा स नृपतिर् दक्षिणस्योदधेस् तटम् सर्वैस् तैर् दीर्घकालेन बलैर् अनुगतः प्रभुः
ददर्श सागरं रम्यं नृत्यन्तम् इव च स्थितम् अनेकशतसाहस्रैर् ऊर्मिभिश् च समाकुलम्