चतुर्वेदी भवेद् विप्रः सर्वशास्त्रविशारदः योगं पाशुपतं प्राप्य ततो मोक्षम् अवाप्नुयात्
आस्ते तत्र नदी पुण्या शिप्रा नामेति विश्रुता तस्यां स्नातस् तु विधिवत् संतर्प्य पितृदेवताः
सर्वपापविनिर्मुक्तो विमानवरम् आस्थितः भुङ्क्ते बहुविधान् भोगान् स्वर्गलोके नरोत्तमः
आस्ते तत्रैव भगवान् देवदेवो जनार्दनः गोविन्दस्वामिनामासौ भुक्तिमुक्तिप्रदो हरिः
तं दृष्ट्वा मुक्तिम् आप्नोति त्रिसप्तकुलसंयुतः विमानेनार्कवर्णेन किङ्किणीजालमालिना
सर्वकामसमृद्धेन कामगेनास्थिरेण च उपगीयमानो गन्धर्वैर् विष्णुलोके महीयते
भुङ्क्ते च विविधान् कामान् निरातङ्को गतज्वरः आभूतसंप्लवं यावत् सुरूपः सुभगः सुखी
कालेनागत्य मतिमान् ब्राह्मणः स्यान् महीतले प्रवरे योगिनां गेहे वेदशास्त्रार्थतत्त्ववित्
वैष्णवं योगम् आस्थाय ततो मोक्षम् अवाप्नुयात् विक्रमस्वामिनामानं विष्णुं तत्रैव भो द्विजाः
दृष्ट्वा नरो वा नारी वा फलं पूर्वोदितं लभेत् अन्ये ऽपि तत्र तिष्ठन्ति देवाः शक्रपुरोगमाः
मातरश् च मुनिश्रेष्ठाः सर्वकामफलप्रदाः दृष्ट्वा तान् विधिवद् भक्त्या संपूज्य प्रणिपत्य च
सर्वपापविनिर्मुक्तो नरो याति त्रिविष्टपम् एवं सा नगरी रम्या राजसिंहेन पालिता
नित्योत्सवप्रमुदिता यथेन्द्रस्यामरावती पुराष्टादशसंयुक्ता सुविस्तीर्णचतुष्पथा
धनुर्ज्याघोषनिनदा सिद्धसंगमभूषिता विद्यावद्गणभूयिष्ठा वेदनिर्घोषनादिता
इतिहासपुराणानि शास्त्राणि विविधानि च काव्यालापकथाश् चैव श्रूयन्ते ऽहर्निशं द्विजाः
एवं मया गुणाढ्या सा तदुयिनी?? समुदाहृता यस्यां राजाभवत् पूर्वम् इन्द्रद्युम्नो महामतिः
तस्यां स नृपतिः पूर्वं कुर्वन् राज्यम् अनुत्तमम् पालयाम् आस मतिमान् प्रजाः पुत्रान् इवौरसान्
सत्यवादी महाप्राज्ञः शूरः सर्वगुणाकरः मतिमान् धर्मसंपन्नः सर्वशस्त्रभृतां वरः
सत्यवाञ् शीलवान् दान्तः श्रीमान् परपुरंजयः आदित्य इव तेजोभी रूपैर् आश्विनयोर् इव
वर्धमानसुराश्चर्यः शक्रतुल्यपराक्रमः शारदेन्दुर् इवाभाति लक्षणैः समलंकृतः
आहर्ता सर्वयज्ञानां हयमेधादिकृत् तथा दानैर् यज्ञैस् तपोभिश् च तत्तुल्यो नास्ति भूपतिः
सुवर्णमणिमुक्तानां गजाश्वानां च भूपतिः प्रददौ विप्रमुख्येभ्यो यागे यागे महाधनम्
हस्त्यश्वरथमुख्यानां कम्बलाजिनवाससाम् रत्नानां धनधान्यानाम् अन्तस् तस्य न विद्यते
एवं सर्वधनैर् युक्तो गुणैः सर्वैर् अलंकृतः सर्वकामसमृद्धात्मा कुर्वन् राज्यम् अकण्टकम्
तस्येयं मतिर् उत्पन्ना सर्वयोगेश्वरं हरिम् कथम् आराधयिष्यामि भुक्तिमुक्तिप्रदं प्रभुम्
विचार्य सर्वशास्त्राणि तन्त्राण्य् आगमविस्तरम् इतिहासपुराणानि वेदाङ्गानि च सर्वशः
धर्मशास्त्राणि सर्वाणि नियमान् ऋषिभाषितान् वेदाङ्गानि च शास्त्राणि विद्यास्थानानि यानि च
गुरुं संसेव्य यत्नेन ब्राह्मणान् वेदपारगान् आधाय परमां काष्ठां कृतकृत्यो ऽभवत् तदा
संप्राप्य परमं तत्त्वं वासुदेवाख्यम् अव्ययम् भ्रान्तिज्ञानाद् अतीतस् तु मुमुक्षुः संयतेन्द्रियः
कथम् आराधयिष्यामि देवदेवं सनातनम् पीतवस्त्रं चतुर्बाहुं शङ्खचक्रगदाधरम्